2023-11-26 15:08:41 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

राज्ञो भोगविलासः ]
 
पूर्वभागः ।
 
१३१
 
कदाचित्कुच चन्दन चूर्ण [^१]धवलितोर्मिमालम्, चटुलतुला कोटि- वाचालचरणाल [^२]क्तैकसि क्तहं-
समिथुनम्, अलक [^३]निपति-
तकुसुमसारम्, प्लवमान [^४]कर्णपूरकुलयदलम्, उन्नतनि- [^५]तम्बक्षोभ-
जर्जरिततरंगम्, उद्दलितनालपर्यस्तलिन निपतित- धूलिपटलम्, अनवरतर् [^६]करास्फालनस्फु [^७]रत्फे-
नबिन्दु-
चन्द्रकितं सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार ।
 
'.
 

 
कदाचित्संकेत वञ्चिताभिः प्रणयिनीभिराबद्धभङ्गुर [^८]भृकुटि- भिरारणितपारि [^९]हार्यमुखरभुज-
लताभिर्बकुलकुसुमावै [^१०]व- लीभिः संयंतचरणो नखकिरणविमित्श्रै : कुसुमदामभिः कृतापराधो

दिवसमताड्यत । कदाचिद्बहुकुलतरुरिव [^११]कामिनीगण्डूष- सीधु [^१२]धारौंरास्वादमुदितो विकाशमभ-
-
 

 
[ टि ]--
कदाचिदिति । सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवन-
वापीनामम्भः पानीयमे- तादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचा- नां स्तनानां
यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुश्भ्री- कृतोर्मिमाला कल्लोलपङ्क्तिर्यस्य तत् । चटुलेति ।
चटुला मनो- हरा ये तुला [^1]कोटेयस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तक स्तेन सिक्तं सिञ्चितं
हंसमिथुनं सितच्छदद्वन्द्वं यस्मिं- स्तत्तथा । अलकेति । अलकाच्चूर्णकुन्तलानिपतितं त्रस्तं कुसुम- [^2]सारं
पुष्परहस्यं यस्मिंस्तत्तथा । प्लवेति । प्लवमानं निमजै[^3]नि- मज्जमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति ।
उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिता: क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् ।
उद्दलितेति । उद्दलितान्यु- च्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्यस्तानि नहि [^4]स्तानि नलि- नानि कमलानि
तेभ्यो निपतितं स्रस्तं धूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तर-
हा
हस्ता- स्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषता- स्तैरेव संजाता चन्द्रका मेचका यस्मिन् ।
'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः ।
 

 
कदाचिदिति । स [^5]दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनी भि- रताड्यत तांताडितोऽभूदित्यन्वयः । 'ताड
व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्म- त्वेनेति 'कारकप्रक्रम-
भङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् ।

संयतौ बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्प- मालाभिः । किंविशिष्टाभिः । बकुलेति ।
बकुलः केसरस्तस्य कुसु- मानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखा-
स्तैर्विमिश्रैः संपृक्तैः। अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्य मिति
संकेतस्तेन वञ्चिताभिर्निष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता
भकुरा वक्रा भृकुटयो याभिस्ताः । आर- णितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा

वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसर- वृक्षस्तद्वदिव विकाशं विकस्वरताम-
भजत प्राप्तवान् । तमेव विशिष्टि- कामिनीति । कामिनीनां स्त्रीणां यो गण्डूष श्चलुकस्तस्य यत् सीधु मद्यं
 
टिप्प० -

 
[^
1]F. चटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सिक्तं
हंस मिथुनम् (नूपुररवाकृष्टौ हंस- दम्पती) यस्मिन् तत् । इति व्याख्यानमुचितम् ।
[^
2]F. 'कुसुमनिकरशारम्'
इत्येव पाठः । अलकनिपतितैः कुसुम- निकरैः शारं चित्रमिति तद्व्याख्या ।
[^
3 ]F. प्लवमानानि जलोपरि संतरन्ति
कर्णपूराणाम् आकण्ठ- मग्नमहिला कर्णाभरणीकृतानां कुवलयानां नीलोत्पलानां दलानि यस्मिन् तत् । इति
व्याख्योचिता ।
[^
4]F. उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि,
इत्यर्थः
[^
5]F. समस्तं दिवसम-
भिव्याप्येत्यर्थः । प्रतिदिन ताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव ।
 

 
पाठा० -

 
[^
]G. धवलोमिं. र्मि.
[^
]G. अलक्त.
[^
]G. कुसुमनिकरसारम् .
[^
]G. कर्णकुवलय.
[^
]G. संक्षोभ .
[^
करतल ]G. करतल.
[^
]G. विस्फुरत्.

[^
]G. भृकुटीभिः, भ्रुकुटीभिः, अकुतीभ्रकुटीभिः .
[^
]G. मणिपरिहार्य.
[^
१०]G. आवलीसंयत .
[^
११]G. कामिनीनां गण्डूष.
[^
१२]G. आस्वादन.