कादम्बरी /164
This page has not been fully proofread.
राज्ञो भोगविलासः ]
पूर्वभागः ।
१३१
कदाचित्कुच चन्दन चूर्णधवलितोर्मिमालम्, चटुलतुला कोटिवाचालचरणालक्तैकसि क्तहं-
समिथुनम्, अलकनिपतितकुसुमसारम्, लवमानकर्णपूरकुबलयदलम् उन्नतनितम्बक्षोभ-
जर्जरिततरंगम्, उद्दलितनालपर्यस्त न लिन निपतितधूलिपटलम्, अनवरतर्करास्फालनस्फुरत्फे-
चन्द्र सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार ।
'.
कदाचित्संकेत वञ्चिताभिः प्रणयिनीभिराबद्धभङ्गुरभृकुटिभिरारणितपारिहार्यमुखरभुज-
लताभिर्बकुलकुसुमावैलीभिः संयंतचरणो नखकिरणविमित्रै : कुसुमदामभिः कृतापराधो
दिवसमताड्यत । कदाचिद्रकुलतरुरिव कामिनीगण्डूषसीधुधारौंस्वादमुदितो विकाशमभ-
-
कदाचिदिति । सहावरोधजनैरन्तःपुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवन-
वापीनामम्भः पानीयमेतादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचानां स्तनानां
यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुश्रीकृतोर्मिमाला कल्लोलपतिर्यस्य तत् । चटुलेति ।
चटुला मनोहरा ये तुलाकोटेयस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तक स्तेन सिक्तं सिञ्चितं
हंसमिथुनं सितच्छदद्वन्द्वं यस्मिंस्तत्तथा । अलकेति । अलकाच्चूर्णकुन्तलानिपतितं त्रस्तं कुसुमसारं
पुष्परहस्यं यस्मिंस्तत्तथा । लवेति । लवमानं निमजैमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति ।
उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिता: क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् ।
उद्दलितेति । उद्दलितान्युच्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्यस्तानि नहिनानि कमलानि
तेभ्यो निपतितं सस्तं धूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तर-
हास्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषतास्तैरेव संजाता चन्द्रका मेचका यस्मिन् ।
'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः ।
कदाचिदिति । स दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनी भिरताड्यत तांडितोऽभूदित्यन्वयः । 'ताड
व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्मत्वेनेति 'कारकप्रक्रम-
भङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् ।
संयतौ बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्पमालाभिः । किंविशिष्टाभिः । बकुलेति ।
बकुलः केसरस्तस्य कुसुमानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखा-
स्तैर्विमिश्रैः संपृक्तैः। अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्य मिति
संकेतस्तेन वञ्चिताभिर्निष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता
भकुरा वक्रा भृकुटयो याभिस्ताः । आरणितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा
वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसरवृक्षस्तद्वदिव विकाशं विकस्वरताम-
भजत प्राप्तवान् । तमेव विशिष्टि- कामिनीति । कामिनीनां स्त्रीणां यो गण्डूष कस्तस्य यत् सीधु मद्यं
टिप्प० - 1 चटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सितं
हंस मिथुनम् (नूपुररवाकृष्टौ हंसदम्पती) यस्मिन् तत् । इति व्याख्यानमुचितम् । 2 'कुसुमनिकरशारम्'
इत्येव पाठः । अलकनिपतितैः कुसुम निकरैः शारं चित्रमिति तद्व्याख्या । 3 लवमानानि जलोपरि संतरन्ति
कर्णपूराणाम् आकण्ठमनमहिला कर्णाभरणीकृतानां कुवलयानां नीलोत्पलानां दलानि यस्मिन् तत् । इति
व्याख्योचिता । 4 उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि, इत्यर्थः । 5 समस्तं दिवसम-
भिव्याप्येत्यर्थः । प्रतिदिन ताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव ।
।
पाठा० -१ धवलोमिं. २ अलक्त. ३ कुसुमनिकरसारम् ४ कर्णकुवलय. ५ संक्षोभ ६ करतल ७ विस्फुरत्.
८ भृकुटीभिः, अकुटीभिः, अकुतीभिः ९ मणिपरिहार्य. १० आवलीसंयत ११ कामिनीनां गण्डूष. १२ आस्वादन.