2023-12-04 10:39:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]कुङ्कुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रियमाण [^२]लोचनः, धवलांशुकैरिव करनख [^३]मयूखजालकैराहन्य- मानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिराबध्यमानः, [^४]दष्टाधरा [^५]धूतकरतलचलन्मणिवलय [^६]कलकल- रमणीयम्, [^७]अतिरभसदलितदन्तपत्रदल [^८]दन्तुरशयनम्, [^९]उत्क्षिप्तचरणतलगलदलक्तकरक्तशेखरम्, सरभसकच- ग्रहचूर्णितमणिकर्णपूरम्, उल्लसितकुचकृष्णागुरुपङ्कपत्रलता-
ङ्कितप्रच्छदपटम्, [^१०]अच्छश्रमजलकणिका [^११]लुलितगोरो- चनतिलकपत्रभङ्गम्, अनङ्गपरवशः सुरतमाततान । कदाचिन्मक- रकेतुकनकनाराचपरम्पराभिरिव कामिनीकरपुटविनि [^१२]र्गता- भिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटा- प्रहारपाटलीकृतदुकूलो मृगमदजलबिन्दुशबलचन्दनस्थासकः कनकश्रृङ्गकोशैश्चिरं चिक्रीड ।
 
[ टि ]--रिव । कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिश्चर्णै-
रिवाभरणप्रभाभिभूषणरश्मिभिराकुलीक्रियमाणे लोचने यस्य
स तथा । धवलेति । धवलांशुकैरिव शुभ्रवसनैरिव करयोर्हस्तयो- र्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालकै: समूहैराहन्य- मान आघातविषयीक्रियमाणः । चम्पकेति । चम्पको हेमपुष्पक- स्तस्य कुसुमानां पुष्पाणां दलानि खण्डानि तेषां मालिका मालास्ताभिरिव भुजलताभिर्बाहुवल्लीभिराबध्यमानः संयम्यमानः । इतः सुरतविशेषणानि । दष्टेति । दष्टः खण्डितो योऽधरो रदन-
च्छदस्तेनाधूतं कम्पितं यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीयं मनोहरमत एवाति- रभसमतित्वरं दलितानि द्वैधीकृतानि यानि दन्तपत्राणि कर्णा- भरणानि तेषां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् । उत्क्षिप्तेति । उत्क्षिप्तावूर्ध्वीकृतौ यौ चरणौ पादौ ताभ्यां [^1]गल- त्स्रवद्योऽलक्तको यावकरसस्तेन रक्तो रञ्जितः शेखरोऽवतंसो यस्मिन् । सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णितं भग्नं मणिकर्णपूरं रत्नोपेतं श्रवणभूषणं यस्मिन् । उल्ल- सितेति । संभोगावस्थायामुल्लसिता उल्लासं प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ताभिरङ्कितश्चिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मलं यच्छ्रमजलं रतक्लान्तिपानीयं तस्य कणिकाः पृषन्ति तैर्लुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् । अन्वयस्तु प्रागेवोक्तः । कदाचिदिति । स राजा कनकशृङ्गकोशै: सुवर्णघटित [^2]शृङ्गसंघातैः चिरं चिरकालं यावच्चिक्रीड क्रीडां कृतवान् । 'क्रीड कीडने' धातुः । लिटि रूपम् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिञ्जरीक्रियमाणः कायो यस्य स तथा । कीदृशीभिरिव । मकरकेतुर्मदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा बाणास्तेषां परम्पराभिरिव । कीदृ- शीभिः । कामिन्यः स्त्रियस्तासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिर्निःसृताभिः । पुना राजानं विशिनष्टि - लाक्षेति । लाक्षा-
जलं यावकजलं तस्य छटास्तासां प्रहारोऽभिघातस्तेन पाटलीकृतं श्वेतरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य बिन्दुना पृषतेन शबलाः कर्बुरा- श्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः ।
 
[^1]F. गलन् स्रवन् योऽलक्तक इत्यर्थः ।
[^2]F. फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य मदनोत्सवस्य वर्णनमिदम् । अत एव तत्र नारीभिः कुङ्कुमजलेन पिञ्जरीकृ- तोऽयम् । गात्रवस्त्रोपरि दत्तेषु चन्दनस्थासकेषु कस्तूरीजल- बिन्दुभिः शबलीकरणम् । अयमपि च कनकनिर्मितैः शृङ्गाकारैर्जल निक्षेपपात्रैः (डोलची ) तासु रङ्गजलं निक्षिपन् चिरं चिक्रीड । 'कीर्णै: पिष्टातकौघैः' इत्यादिना रत्नावल्यां सोयमुत्सवो वर्णितः । सातवाहनेनापि गाथासप्तशत्याम्- 'घेत्तूण चुण्णमुट्ठेि हरिसूससि- आाएँ वेपमाणाए । भिसिणेमित्ति पिअअमं हत्थे गंधोदअं जाअं ॥
( ४- १२ ) । इत्यादिना वर्णितः । एतद्गाथाया मत्कृतोऽनुवाद:-
'आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम् ॥' इति ।
 
[^१]G. कुङ्कुमपटवास; कुङ्कुमवास.
[^२]G. लोललोचन:.
[^३]G. नखर.
[^४]G. दष्टाधरकरतल.
[^५]G. धुत; आधूत.
[^६]G. कलकलरव.
[^७]G. रतिरभस.
[^८]G. दन्तुरित.
[^९]G. चरणगलत्.
[^१०]G. अश्रमजल.
[^११]G. गोरोचना; रोचना.
[^१२]G. विनिर्गताभिरिव.