2023-11-24 09:33:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 

 
[ कथायाम्-

कुडमधूलि भिरिवाभरणप्रभाभिराकुली क्रियमाणलोचनः, धवलांशुकैरिव करनखमयूखजाल-

कैराहन्यमानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिराबध्यमानः, देष्टाधरार्धेतकरत-

लचलन्मणिवलयकैलकलरमणीयम्, अंतिरभसदलितदन्तपत्रदलदन्तुरशयनम्, उत्क्षिप्तंचर-

णतलगलदलक्तकरक्तशेखरम्, सरभसकचग्रहचूर्णितमणिकर्णपूरम्, उल्लसितकुचकृष्णागुरु-

पङ्कपत्रलताङ्कितप्रच्छदपटम्, अच्छश्रमजलकणिकालुलिंतगोरोचन तिलकपत्रभङ्गम्, अन-

ङ्गपरवशः सुरतमाततान । कदाचिन्मकरकेतुकनकनाराचपरम्पराभिरिव कामिनीकरपुटवि-

निर्गताभिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटाप्रहारपाटलीकृतदु-

कूलो मृगमदजलबिन्दुशबलचन्दनस्थासकः कनकटङ्गकोशैश्चिरं चिक्रीड ।
 

 
,
 

 
*
 

 
13
 

 
रिव । कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिश्चर्णैरिवाभरणप्रभाभिभूषणरश्मिभिराकुलीक्रियमाणे लोचने यस्य

स तथा । धवलेति । धवलांशु कैरिव शुभ्रवसनैरिव करयोर्हस्तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां

जालकै: समूहैराहन्यमान आघातविषयीक्रियमाणः । चम्पकेति । चम्पको हेमपुष्पकस्तस्य कुसुमानां पुष्पाणां

दलानि खण्डानि तेषां मालिका मालास्ताभिरिव भुजलताभिर्बाहुवल्लीभिराबध्यमानः संयम्यमानः । इतः

सुरतविशेषणानि । दष्टेति । दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूतं कम्पितं यत्करतलं तेन चलन्ति

यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीयं मनोहरमत एवातिरभसमतित्वरं दलितानि

द्वैधीकृतानि यानि दन्तपत्राणि कर्णाभरणानि तेषां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् । उत्क्षि-

तेति । उत्क्षिप्तावूवकृतौ यौ चरणौ पादौ ताभ्यां गलत्स्रवद्योऽलक्तको यावकरसस्तेन रक्तो रञ्जितः शेखरो-

ऽवतंसो यस्मिन् । सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णितं भग्नं मणिकर्णपूरं रत्नोपेतं श्रव-

णभूषणं यस्मिन् । उल्लसितेति । संभोगावस्थायामुल्लसिता उल्लासं प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः

काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ताभिरङ्कितश्चिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् ।

अच्छेति । अच्छं निर्मलं यच्छ्रमजलं रतक्लान्तिपानीयं तस्य कणिकाः पृषन्ति तैर्लुलितो विलुप्तो गोरो-

चनातिलकपत्राणां भङ्गो यस्मिन् । अन्वयस्तु प्रागेवोक्तः । कदाचिदिति । स राजा कनक शृङ्गकोश:

सुवर्णघटित शृङ्गसंघातैः चिरं चिरकालं यावच्चिक्रड क्रीडां कृतवान् । 'क्रीड कीडने' धातुः । लिटि रूपम् ।

कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिञ्जरीक्रियमाणः कायो यस्य स तथा । कीदृशीभिरिव । मकरके-

तुर्मदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा बाणास्तेषां परम्पराभिरिव । कीदृशीभिः । कामिन्यः स्त्रिय-

स्तासां करपुटा हस्तसंपुढास्तेभ्यो विनिर्गताभिर्निःसृताभिः । पुना राजानं विशिष्टि - लाक्षेति । लाक्षा-

जलं यावकजलं तस्य छटास्तासां प्रहारोऽभिघातस्तेन पाटलीकृतं श्वेतरक्कीकृतं दुकूलं दुगूलं यस्य स तथा ।

मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य बिन्दुना पृषतेन शबलाः कर्बुराश्चन्दनस्थासका मल-

यजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः ।
 

 
टिप्प० - 1 गलनू सवन् योऽलक्तक इत्यर्थः । 2 फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य मदनोत्स-

वस्य वर्णनमिदम् । अत एव तत्र नारीभिः कुकुमजलेन पिञ्जरीकृतोऽयम् । गात्रवस्त्रोपरि दत्तेषु चन्दन-

स्थासकेषु कस्तूरीजलबिन्दुभिः शबलीकरणम् । अयमपि च कनक निर्मितैः शृङ्गाकारैर्जल निक्षेपपात्रैः (डो-

लची ) तासु रङ्गजलं निक्षिपन् चिरं चिक्रीड । 'कीर्णै: पिष्टातकौघैः' इत्यादिना रनावल्यां सोयमुत्सवो

वर्णितः । सातवाहनेनापि गाथासप्तशत्याम्- 'घेत्तूण चुण्णमुट्ठेि हरिसूससिआाएँ वेपमाणाए । भिसिणेमित्ति

पिअअमं हत्थे गंधोदअं जाअं ॥ ( ४ १२ ) । इत्यादिना वर्णितः । एतद्गाथाया मत्कृतोऽनुवाद:-

'आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमवकिरामि पुर इति हस्ते गन्धोदकं जातम् ॥' इति ।
 

 
पाठा०-- १ कुङ्कुमपटवास; कुङ्कुमवास. २ लोललोचन: ३ नखर. ४ दष्टाधरकरतल ५ धुत; आधूत. ६ कल-

कलरव ७ रतिरभस ८ दन्तुरित ९ चरणगलत् ● १० अश्रमजल ११ गोरोचना; रोचना. १२ विनिर्गताभिरिव.