2023-11-24 09:16:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१२८
 
कादम्बरी ।
 
[ कथामुखे-

 
संधिविग्रहः । त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः; सकलवेदवेदाङ्गवित्,
अशेष राज्य [^१]मङ्गलेलैकसार: बृहस्पतिरिव सुनासीरस्य, कविरिव वृषपर्वणः, वसिष्ठ इव
दशरथस्य, विश्वामित्र इव रामस्य; धौम्य इवाजातशत्रोः, [^२]दमनक इव नलस्य, सर्वका-
र्ये [^३]ष्वाहितमतिरमात्यो ब्राह्मणः शुकनासो ना [^४]मा- सीत् ।
 

 
यो नरका[^५]सुरशस्त्र प्रहार भीषणे भ्रम [^६]न्मन्दरनितम्बनि-
र्दयनिष्पेषकठिनांसपीठे नारायणव-
क्षःस्थलेऽपि स्थितामदुष्कर- लाभाममन्यत प्रज्ञालेन लक्ष्मीम् । यं चौ[^७]चासाद्य दर्शितानेक- राज्यफ-
ला लतेव [^८]पादपमनेकप्रसातानगहना विस्तार [^९]मुप- ययौ प्रज्ञा । [^१०]यस्य चानेकचारपुरुषसहस्र [^११]संचार-

 

 
[ टि ]--
घटितसंधिविग्रहं यस्य जरासंधस्ये[^1] ति द्वितीया- बहुव्रीहिः । त्र्यम्बकेति । त्र्यम्बक ईश्वरस्तद्वदिव । प्रसाधि-
तेति । प्रसाधितं स्वायत्तीकृतं दुर्गं विषमस्थलं येन । पक्षे प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा ।
युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदिव । धर्मस्य नीतिधर्मादेः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात्प्र-
भवो स्येति विग्रहः । सकलेति । संकलानि समग्राणि यानि वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता ।
अशेषेति । अशेषं समग्रं यद्राज्यं तत्र मङ्गलैकसारः कल्याणैकरहस्यभूतः । प्रकारान्तरेण तमेव विशेषतो
विशेषयन्नाहं – सुनासीरस्येन्द्रस्य बृहस्पतिः सुरगु- रुस्तद्वदिव । वृषपर्वणो दैत्यस्य कविः शुक्रस्तद्वदिव । दशर
थस्य- रामपितुर्वसिष्ठोऽरुन्धतीजानिस्तद्वदिव । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव । अजात-
शत्रोर्धर्मपुत्रस्य धौम्यः सचित्र- वस्तद्वदिव । नलस्य नैषधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस्य राज्ञ
इति भावः । सर्व इति । सर्वकार्येषु समग्रकृत्ये- ष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा । अन्वयस्तु
प्रां
प्रागेवोक्तः ।
 
-
 

 
य इति । यः शुक: प्रज्ञाबलेन बुद्धिसामर्थ्येनादुष्करलाभां स्वल्प- प्रयासलभ्यां लक्ष्मीमीं श्रियममन्यत
ज्ञातवान् । कीदृशीम् । नारा- यणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थितामासेदुषीमपि । एतेन तत्प्राप्ते
रतिकाठिन्यं सूचितम् । वक्षःस्थलं विशिनष्टि - नर- केति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां प्रहारोऽभि-
घातस्तेन भीषणे भयानके । भ्रमदिति । [^2]भ्रमच्चासौ मन्दरश्च भ्रमन्मन्द- रस्तस्य यो नितम्बः कटकस्तस्य यो
निर्दये 'निरनुकम्पं निष्पेष- श्चूर्णीभावस्तत्कर्तव्यतायां कठिनं कठोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निष्पेषे-
णावनतिविशेषेणेति बोध्यम् । मथनावसरे हि मन्दरनितम्बा अंसयोर्लग्ना इति भावः । एतेन मन्दरादप्यंस-

योरधिककाठिन्यमिति ध्वनितम् । यमिति । यं शुकनासाख्यमासाद्य प्राप्य प्रज्ञा विस्तारं विस्तीर्णतामुपययौ
प्राप्तवती । तां विशिष्टि -- दर्शितेति । दर्शितानि प्रकटितान्यनेकराज्यान्येव फलानि यया सा तथा ।
वलमेव यथा लता पादपं वृक्षं प्राप्य विस्तारं याति । कीदृशी । अनेकेति । अनेकैः प्रतानैलतागहनैर्ग-
हना निबिडा । यस्येति । यस्य मन्त्रिणो धरणीतले जगतीतले राज्ञां समुच्छ्रसितमप्युच्छ्सित- मात्रम-
प्यहरहः प्रतिदिन मविदितमज्ञातं नासीत् । न बभूवेत्यर्थः । कस्मिन्निव । भवन इव गृह इव । यथा सद्मनि कि
मप्यज्ञातं न स्यात् । भुवनतलं विशेषयन्नाह - अनेकेति । [^3]अनेका ये चारपुरुषाः प्रणिधिपुरुषास्तेषां सहस्रं तस्य
 
-
 
हिन्द
 

 
-

 
[^
1]F. घटितो विहितः सन्धि: ( उभयखण्डयोः संयोगः ) यस्य तादृशो विग्रहः शरीरं यस्य
स इति स्पष्टोऽर्थः ।
[^
2]F. भ्रमंश्चासौ इत्यर्थः ।
[^
3]F. अनेके इत्यवगन्तव्यम् ।
 
पाठा •

 
[^
]G. मण्डलैक.
[^

]G. दमनक इव भीमस्य, सुमतिरिव नलस्य.
[^३]G. अप्रतिहत.
[^४]G. नामाभवत्.
[^
]G. शस्त्रभीषण.
[^
]G. मन्दरनिर्दय.

[^७]G. समासाद्य.
[^८]G. महापादपमनेकगहना.
[^९]G. उपाययौ.
[^१०]G. यस्यानेक.
[^
११]G. परिचिते; विचिते.
 
दमनक इव भीमस्य, सुमतिरिव नलस्य. ३ अप्रतिहत. ४ नामाभवत्.
 
७ समासाद्य. ८ महापादपमनेकगहना ९ उपाययौ १० यस्थानेक.