कादम्बरी /160
This page has been fully proofread once and needs a second look.
योगः, [^१]कामिनीकुं [^२]कुचभङ्गेषु वक्रता, करिणां दानविच्छि- त्तिः, अक्षक्रीडासु शून्यगृहदर्शनं
पृथिव्यामासीत् ।
[^३]तस्य च राज्ञो निखिलशा खर्केस्त्र [^४]कला वगाहगम्भीरबुद्धिः, आशैशवा दुपारूढ निर्भरप्रेमरसः,
नीतिशास्त्र प्रयोगकुशलः, भुवन- राज्य [^५]भार नौकर्णधारः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः,
धाम धैर्यस्य, स्थानं स्थितेः, [^६]सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता
धर्मस्य, शेषाहिरिब मँव [^७]महीभार- धारणक्षमः, सलिलनिधिरिव [^८]महासत्वः, जरासंध इव घं[^९]घटित-
→
[ टि ]-- कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवारैरेषु परिच्छदेष्वकुशलमपुण्यं तस्यै
योगः । 'पर्या- प्तिक्षेमपुण्येषु कुशलम्' इत्यनेकार्थः । अकुत्सितं शोभनं चर्म तस्य योगः । अन्यत्राकुशलमक्षेम-
जरादि तेन योगो नास्तीति वा । केचित् 'असिपरिवारेषु कलङ्कयोगः' इति पठन्ति । कलङ्कः श्यामिका ।
अन्यत्र दोष इत्यर्थः । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्र- रचनायां वक्रतारालता । करिणां हस्तिनां दानं
मदः । 'मदो दानप्रवृत्तिश्च' इति कोशः । तस्य विच्छित्ती रचना । न तु लोकानां दानं वितरणं तस्य विच्छि-
त्तिर्नाशः । अक्षक्रीडासु द्यूतक्रीडासु शून्यगृहदर्शनं शून्यगृहावलोकनम् । खेलिन्या शून्यमित्यर्थः । न तु
लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रागेवोक्तः ।
तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्वभूव । अथ प्रथमान्तानि तस्य विशेष-
णानि । निखिलेति । निखिलानि यानि शास्त्राणि कलाश्च तासाभमवगाहस्तदभिप्रायाकलनं तेन गम्भीरा-
Sलब्धमध्या बुद्धिः प्रतिभा यस्य स तथा । आ शैशवादा बाल्यादुपारूढ आश्रितो निर्भरो निबिडः प्रेमरस:
स्नेहरसो यस्मिन्स तथा । नीतीति । नीतिशास्त्रं व्यवहारग्रन्थस्तस्य प्रयोगस्तदर्थ- परीक्षणं तत्र कुशलो दक्षः ।
भुवनेति । भुवनानां राज्यमाधिपत्यं तस्य [^1]भारो वीवधस्तलक्षणा या नौर्द्रोणी तस्याः कर्णधारो नाविकः ।
महत्स्वपीति । महत्खस्वपि गुरुष्वपि कार्यसंकटेषु कृति- कष्टेष्वविषण्णाऽविषादवती धीर्बुद्धिर्यस्य स तथा ।
धामेति । धैर्यस्य धीरि [^2]माया धाम गृहम् । स्थितेर्मर्यादायाः स्थानं स्थलम् । सत्यस्यावितथस्य सेतुः
(पालि: । गुणानां शौर्यादीनां गुरुर्हितोपदेष्टा । आचाराणां शिष्टजनाचीर्णमार्गाणामाचार्य उपदेष्टां । धर्मस्य
बृवृषस्य धाता प्रजापतिः । शेषेति । शेषाहिरनन्तस्तद्वदिव मह्याः पृथ्व्या भारो वीवधस्तस्य धारणमुद्वहनं
तत्र क्षम इत्यभङ्गश्लेषः । सलिलेति । सलिलनिधिः समुद्रस्तद्वदिव । सर्वत्रैकविशेषणेनोभयं विशेषयन्नाह -
महेति । महत्सत्त्वं साहसं यस्मिन् । पक्षे महा- [^3]सत्त्वा जलचारिणः । जरेति । जरा राक्षसी तया साक्षात्सं-
धितत्वाज्जरासंधस्तद्वदिव । कथा चात्र - राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा
अण्डकौशिकेना- म्रफलं प्रदत्तम् । तच्च सोऽर्धार्धं कृत्वा राजमहिषीभ्यां दत्तवान् । तयोश्वाचार्धार्धशरीरं बालकद्वयं
जातम् । तद्दृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमौ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरा-
संधनाम संवृत्तमस्येति वार्ता । उभयं विशिनष्टि- घटितेति । घटितौ विहितौ संधिविग्रहौ येन । तत्र
संधिः साम, विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्येति
en
टिप्प० --[^1]F. राज्यभारग्रहणमेव नौका तस्याः कर्णधार इति सरलोऽर्थः ।
[^2]F. धीरतायाः ( अविचल -
चित्ततायाः ) इत्युचिता व्याख्या ।
[^3]F. सलिलनिधिपक्षे महान्तः सत्त्वाः ( जलजन्तवः ) यस्मिन्नित्यर्थः ।
वस्तुतस्तु - 'महासत्वनिवासः' इत्येव पाठः । महासत्त्वस्य ( उत्कृष्टाध्यवसायस्य ) आश्रयः ( राजपक्षे ) ।
समुद्रपक्षे तु महतां जलजन्तूनां निवासः ।
पाठा० -[^१]G. वक्रता कामिनीनां कुचमङ्गेषु.
[^२]G. कुचपत्र.
[^३]G. तस्य राज्ञो.
[^४]G. कलाकलापावगाहन गभीर; कलापाव-
गाहनगभीर, ; कलापावगाहनगभीर.
[^५]G. भारैक.
[^६]G. सिन्धुः .
[^७]G. सकलमही, .
[^८]G. महासत्त्वनिवासः .
[^९]G. प्रकटित
.
[^३]तस्य च राज्ञो निखिलशा
धाम धैर्यस्य, स्थानं स्थितेः, [^६]सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता
[ टि ]-- कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवा
अन्यत्र दोष इत्यर्थः । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्र- रचनायां वक्रतारालता । करिणां हस्तिनां दानं
लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रागेवोक्तः ।
तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्वभूव । अथ प्रथमान्तानि तस्य विशेष
(
धितत्वाज्जरासंधस्तद्वदिव । कथा चात्र - राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा
टिप्प० --
[^2]F. धीरतायाः ( अविचल
[^3]F. सलिलनिधिपक्षे महान्तः सत्त्वाः ( जलजन्तवः ) यस्मिन्नित्यर्थः ।
समुद्रपक्षे तु महतां जलजन्तूनां निवासः ।
[^२]G. कुचपत्र.
[^३]G. तस्य राज्ञो.
[^४]G. कलाकलापाव
[^५]G. भारैक.
[^६]G. सिन्धुः
[^७]G. सकलमही
[^८]G. महासत्त्वनिवासः
[^९]G. प्रकटित