कादम्बरी /160
This page has not been fully proofread.
शुकनासवर्णनम् ]
पूर्वभागः ।
१२७
योगः, कामिनीकुंचभङ्गेषु वक्रता, करिणां दानविच्छित्तिः, अक्षक्रीडासु शून्यगृहदर्शनं
पृथिव्यामासीत् ।
तस्य च राज्ञो निखिलशा खर्केला वगाहगम्भीरबुद्धिः, आशैशवा दुपारूढ निर्भरप्रेमरसः,
नीतिशास्त्र प्रयोगकुशलः, भुवनराज्यभार नौकर्णधारः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः,
धाम धैर्यस्य, स्थानं स्थितेः, सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता
धर्मस्य, शेषाहिरिब मँहीभारधारणक्षमः, सलिलनिधिरिव महासत्वः, जरासंध इव घंटित-
→
कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवारैषु परिच्छदेष्वकुशलमपुण्यं तस्यै
योगः । 'पर्याप्तिक्षेमपुण्येषु कुशलम्' इत्यनेकार्थः । अकुत्सितं शोभनं चर्म तस्य योगः । अन्यत्राकुशलमक्षेम-
जरादि तेन योगो नास्तीति वा । केचित् 'असिपरिवारेषु कलङ्कयोगः' इति पठन्ति । कलङ्कः श्यामिका ।
अन्यत्र दोष इत्यर्थः । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्ररचनायां वक्रतारालता । करिणां हस्तिनां दानं
मदः । 'मदो दानप्रवृत्तिश्च' इति कोशः । तस्य विच्छित्ती रचना । न तु लोकानां दानं वितरणं तस्य विच्छि-
त्तिर्नाशः । अक्षक्रीडासु द्यूतक्रीडासु शून्यगृहदर्शनं शून्यगृहावलोकनम् । खेलिन्या शून्यमित्यर्थः । न तु
लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रागेवोक्तः ।
तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्वभूव । अथ प्रथमान्तानि तस्य विशेष-
नि । निखिलेति । निखिलानि यानि शास्त्राणि कलाश्च तासाभवगाहस्तदभिप्रायाकलनं तेन गम्भीरा-
Sलब्धमध्या बुद्धिः प्रतिभा यस्य स तथा । आ शैशवादा बाल्यादुपारूढ आश्रितो निर्भरो निबिडः प्रेमरस:
स्नेहरसो यस्मिन्स तथा । नीतीति । नीतिशास्त्रं व्यवहारग्रन्थस्तस्य प्रयोगस्तदर्थपरीक्षणं तत्र कुशलो दक्षः ।
भुवनेति । भुवनानां राज्यमाधिपत्यं तस्य भारो वीवधस्तलक्षणा या नौणी तस्याः कर्णधारो नाविकः ।
महत्स्वपीति । महत्खपि गुरुष्वपि कार्यसंकटेषु कृतिकष्टेष्वविषण्णाऽविषादवती धीर्बुद्धिर्यस्य स तथा ।
धामेति । धैर्यस्य धीरिमाया धाम गृहम् । स्थितेर्मर्यादायाः स्थानं स्थलम् । सत्यस्यावितथस्य सेतुः
(पालि: । गुणानां शौर्यादीनां गुरुर्हितोपदेष्टा । आचाराणां शिष्टजनाचीर्णमार्गाणामाचार्य उपदेष्टां । धर्मस्य
बृषस्य धाता प्रजापतिः । शेषेति । शेषाहिरनन्तस्तद्वदिव मयाः पृथ्व्या भारो वीवधस्तस्य धारणमुद्वहनं
तत्र क्षम इत्यभङ्गश्लेषः । सलिलेति । सलिलनिधिः समुद्रस्तद्वदिव । सर्वत्रैकविशेषणेनोभयं विशेषयन्नाह -
महेति । महत्सत्त्वं साहसं यस्मिन् । पक्षे महासत्त्वा जलचारिणः । जरेति । जरा राक्षसी तया साक्षात्सं-
धितत्वाज्जरासंधस्तद्वदिव । कथा चात्र - राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा
अण्डकौशिकेनाम्रफलं प्रदत्तम् । तच्च सोऽर्धार्धं कृत्वा राजमहिषीभ्यां दत्तवान् । तयोश्वार्धार्धशरीरं बालकद्वयं
जातम् । तद्दृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमौ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरा-
संधनाम संवृत्तमस्येति वार्ता । उभयं विशिष्टि- घटितेति । घटितौ विहितौ संधिविग्रहौ येन । तत्र
संधिः साम, विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्येति
en
टिप्प० -- 1 राज्यभारग्रहणमेव नौका तस्याः कर्णधार इति सरलोऽर्थः । 2 धीरतायाः ( अविचल -
चित्ततायाः ) इत्युचिता व्याख्या । 3 सलिलनिधिपक्षे महान्तः सत्त्वाः ( जलजन्तवः ) यस्मिन्नित्यर्थः ।
वस्तुतस्तु - 'महासत्वनिवासः' इत्येव पाठः । महासत्त्वस्य ( उत्कृष्टाध्यवसायस्य ) आश्रयः ( राजपक्षे ) ।
समुद्रपक्षे तु महतां जलजन्तूनां निवासः ।
पाठा० -१ वक्रता कामिनीनां कुचमङ्गेषु. २ कुचपत्र. ३ तस्य राज्ञो. ४ कलाकलापावगाहन गभीर; कलापाव-
गाहनगभीर, ५ भारैक. ६ सिन्धुः ७ सकलमही, ८ महासत्त्वनिवासः ९ प्रकटित