2023-09-03 11:42:47 by Lakshmainarayana achar

This page has been fully proofread twice.

किञ्च बृहत्कथाधारेणैव कादम्बरी व्यरच्यतेत्यस्याऽन्यदपि चिह्नमधिगम्यते । कथाभागेन सह क्वचित्कवि- चमत्कारकोऽर्थोऽलंकारादिकश्चापि बाणेनाविकलं बृहत्कथाया एवोपजीवितः । यतो हि बृहत्कथामञ्जर्यां यो बृहत्कथागतो वर्णनाचमत्कारः संक्रान्तः कादम्बर्यामपि सोऽविकलमुपलभ्यते । यथा 'कर्णीसुतश्च कटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञकौ ॥ शशो मन्त्रिवरस्तस्य'.......
"इति ( मकरन्दिकोपाख्याने बृहत्कथामञ्जरी ) । एवं विन्ध्याटवी- वर्णने– 'कर्णीसुतकथेव संनिहितविपुलाचला, शशोपगता च ।' ( कादम्बरी ) । 'यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥' इति (कथासरित्सागरः ) । 'प्रलयानलशिखाकलापकपिलजटाभारभ्रान्तसुरसिन्धु- रन्धकारातिर्भगवानुत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं निवसति' इति ( उज्जयिनीवर्णनकादम्बरी ) । 'पुरा मुनयः किन्नरराज्ये द्रुमनामकं नृपमभिषेचयामासुः' इति बृहत्कथा । 'किंपुरुषाधिराज्यमिव मुनिजनगृहीतकलशाभिषिच्यमानद्रुमम्' इति जाबाल्याश्रमवर्णनकादम्बरी ।
 
कथासरित्सागराधारेण कादम्बरी विरचितेति वदतां श्रीहरिदाससिद्धान्तवागीशादीनां मन्ये कथासरित्सागरपदेन बृहत्कथातस्तात्पर्यम् । अन्यथा सुतरां प्राचीनः खि. षष्ठशतकोत्पन्नो बाण एकादशशतकोत्पन्नं कथासरित्सागरं कथंकारमुपजीवेत् ? अस्तु बृहत्कथागता कादम्बरीमूलकथा संप्रति कथासरित्साग-
रस्य ऊनषष्टितमतरङ्गान्तर्मकरन्दिकोपाख्याने द्रष्टुं शक्या । तत्र हि कानि नामानि, बाणभट्टेन च कानि
परिवर्तितानीत्यधो दीयन्ते -
 
कथासरित्सागरे
 
काञ्चनपुरी
सुमनाः
मुक्तालता
शास्त्रगङ्गः (शुकः )
हिमालयपादे रोहिणतरुः
मरीचिः
पौलस्त्यः
रत्नाकरं पुरम्
ज्योतिष्प्रभः
हर्षवती
सोमप्रभः
प्रभाकरः
प्रियङ्करः
आशुश्रवाः (उच्चैःश्रवसः पुत्रः)
पद्मकूट:
हेमप्रभा
मनोरथप्रभा
दीधितिमान्
रश्मिवान्
सिंहविक्रमः ( विद्याधरराजः )
मकरन्दिका
देवजय:
सिंहविक्रमः शुको जातः
रश्मिवान् सुमना अभूत् ।
 
कादम्बर्याम्
 
विदिशा
शूद्रकः
चाण्डालदारिका
वैशम्पायनः
विन्ध्याटव्यां शाल्मलीतरुः
हारीतः
जाबालिः
उज्जयिनी नगरी
तारापीड:
विलासवती
चन्द्रापीड:
शुकनासः
वैशम्पायन:
इन्द्रायुधः
हंसः
गौरी
महाश्वेता
श्वेतकेतुः
पुण्डरीक:
चित्ररथः (गन्धर्वराजः )
कादम्बरी
केयूरकः
पुण्डरीको मध्ये वैशम्पायननामा मन्त्रिपुत्रः
परस्ताच्च तन्नामक एव शुकोभवत्
चन्द्रापीडः शूद्रकोऽभवत् ।