This page has not been fully proofread.

तारापीड: ]
 
पूर्वभागः ।
 
१२५
 
कौशादिव हंसनिवहो निर्जगाम गुणगणः । यस्य चामृतामोदसुरभिपरिमलया मन्दरोद्वैत-
बहुलदुग्ध सिन्धुफेनलेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमै भ्रम्यत
कीर्त्या । यस्य चातिदुःसहप्रताप संतापखिद्यमानेव क्षणमपि न मुमोचातैपत्रच्छायां राज-
लक्ष्मीः। तथा च यस्य "दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मँङ्गलमिव बहु मेने,
मन्त्रमिव जजाप, आँगममिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता,
प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां
 

 
न्दकारी प्रमोदकृत् । कः कस्मादिव । क्रौञ्चत्क्रौञ्चनाम्नः पर्वतैकप्रदेशाद्धंसनिहः सितच्छदसमूह इव । यस्येति ।
चः पूर्वोक्तसमुच्चये । यस्य राज्ञः कीर्त्याभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथा भ्रम्यतागम्यत । भावे
रूपम् । अथ कीर्तिविशेषणानि – अमृतेति । अमृतस्य पीयूषस्य य आमोदस्तद्वत्सुरभिः प्रकटितः प्रकटः
सुगन्धिश्च परिमलो यस्याः सा तया । 'कीर्त्याः सौगन्ध्यं वर्ण्यते' इति कविसमयः । धवलीति । धवलीकृतः
शुभ्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया । कयेव । मन्दरेति । मन्दरेण स्वर्णाद्रिणोद्धतो दुर्दान्तो
यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य लेखयेव वीथ्येव । मन्थनक्षणे तयापि सुरासुर-
लोकः शुश्रीकृत इति तदुपमानमिति भावः । यस्य चेति । यस्य राज्ञो राजलक्ष्मी राज्यश्रीरातपत्रस्य छत्रस्य
छायामातपाभावलक्षणं क्षणमपि निमेषमात्रमपि न मुमोच न तत्याज । तपआक्रान्तायास्तत्र शीतलस्थलाश्रयण
स्यादित्याशयेनाह — अतीति । अतिदुःखेन सोढुं शक्योऽतिदुःसहः एवंविधो यः प्रतापः कोशदण्डजनितं तेज-
स्तस्माद्यः संतापो घर्मस्तेन खिद्यमानेव पीड्यमानेव । अथ पञ्चक्रियाणामेकेनैव कर्त्रा संबन्धं दर्शयन्नाह - तथा
चेति । यस्य राज्ञश्चरितं शौर्यविस्फूर्जितं दिष्टिवृद्धिमिव भाग्याभ्युदयमिव जनो लोकः शुश्रावाकर्णितवान् । उप-
देशमिव गुरुनिदेशमिर्वै जग्राह गृहीतवान् । मङ्गलमिव श्वोवसीयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् । मन्त्री
देवताधिष्ठातृकस्तमिव जजाप जपितवान् । आगमः सिद्धान्तस्तमिव न विसस्मार न विस्मृतवान् । जन इत्यस्य
सर्वत्र संबन्धः । यस्मिंश्चेति । यस्मिंस्तारापीडे राजनि । 'डिश्योर्वा' इति वाकारलोपः । इदं पृथिव्यामासीत् ।
तदेव दर्शयति — गिरीत्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् । इन्द्रेण पक्षारिछन्ना गिरीणामिति
प्रागेवोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययानां स्वादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां
परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेनेत्यभिमुखावस्थानम् । कर्मणि ल्युट् । दर्पणानां मुकु
राणाम् । न तु लोकानां कस्यचित्पुरतः कस्याप्यवस्थानम् । सर्वेषां लक्ष्मीवत्त्वादिति भावः । शूलपाणिरीश्वर-
स्तस्य प्रतिमाया मूर्तेर्दुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थलं तेन आश्लेषः संबन्धः ।
राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्रधनुर्धारणम् । न तु लोकानाम् । भयाभावान धनुरादा-
a
 
टिप्प० - 1 पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य स्कन्दस्य स्पर्धया बाणेन
कौ बिभेद यद्विवराद्धंससमूहो निर्जगामेति पुराणम् । 2 मथितः क्षोभित इत्याशयः । 3 दैवज्ञ
मुखात्स्वभाग्योदयं लोको यथा झुणोति तथा शुश्राव । उभयत्रापि लालसा कौतुकातिशयश्च हेतुः ।
4 उभयत्र अभ्युदयसंपादकत्वप्रत्याशा हेतुः । 5 उभयत्रापि सुखजनकत्वं हेतुः । 6 असकृज्जपेन
(उच्चारणेन ) तादृशानुकरणसिद्धि: ( चरितपक्षे ), अभीष्टसिद्धि: ( मत्रपक्षे ) । 7 वेदादिविसरणे
पापं स्यात्, यशस्तु मनोहरतथा स्वत एव न विस्मर्यते ।
 
पाठा० -१ उद्धत; उद्धते. २ अभ्राम्यत ३ आतपच्छायाम् ४ अस्य ५ दिष्टवृद्धिम् ६ बहुमङ्गलमिव मेने,
७ आगमवचनम् ८ दर्पाणाम्.