This page has not been fully proofread.

१२४
 
कादम्बरी ।
 
[ कथामुखे-
रमणीया स्कुबेरपुरसुन्दरीभूषणरव मुखरशिखरात्सप्तर्षिसंध्योपासनपूत प्रस्रवणाम्भसो वृकोदरो-

इलितसौगन्धिकखण्डसुगन्धि मण्डलाद गन्धमादनात्, सेवाञ्जलिकमलमुकुलदन्तुरैः शिरो

भिश्चरणनखमयूँखप्रेथित मुकुटपत्रलताग्रन्थयो भयचकित तरलतारहशो भुजबल विजिताः

प्रणेमुरवनिपाः ।
 

 
येन चानेकरब्रांशुपद्धविते डेयालम्बिमुक्ताफलजालके दिग्गजेनेव कल्पतरावाकान्ते

सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सैर्वदिशः । यस्मै च

मैन्ये सुरपतिरपि स्पृहयांचकार । यस्माच्च धवलीकृतभुवनतलः सकललोकहृदयानन्दकारी
 

 
[commentary]
 
बदरिकाश्रमस्तेन रमणीयात्सुन्दरातू । कुबेरेति । कुबेरपुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूषणरवे-

णाभरणशब्देन मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तर्षीति । सप्तर्षीणां संध्योपा-

सनेन संध्यावन्दनेन पूतं पवित्रं प्रस्रवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण

भीमेनोद्दलितं 'छेदितं सौगन्धिकखण्डं सौगन्धिकाभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो यस्य स

तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिताः सन्तो विन्ध्याटवीं प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः

सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जित्वा तत्कन्यकां चोलूप्याख्यां परिणीय

सौगन्धिककुसुमानि गृहीत्वा स्वाश्रममाययौ । गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषय-

नाह - शिरोभिरिति । शिरोभिर्मस्तकैरुपलक्षिताः । कीदृशैः । सेवेति । सेवायै योऽञ्जलिः स एव कमलमुकुलं

तेन दन्तुरैर्विषमैः । चरणेति । तस्य राज्ञश्चरणौ पादौ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्ग्रथिता

मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा । भयेति । भयेनं साध्वसेन चकिता त्रस्ता तरला

कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा । भुजेति । भुजवलेन बाहुबलेन विजिता

निर्जिताः । अन्वयस्तु प्रागेवोक्तः ।
 

 
येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरौ सिंहासने नृपासन आक्रान्ते सति भरेण भारेणायासिन्यो

विस्तारवत्यः सर्वदिशो नेमुः प्रणता बभूवुः । का इव । लता इव व्रतत्य इव । कीदृश्यः । शिलीमुखा भ्रम-

रास्तेषां व्यतिकरः संबन्धस्तेन कम्पिता धूताः, दिक्पक्षे शिलीमुखा बाणाः । अथ च सिंहासनविशेषणानि -~-~

अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पल्लविते किसलयिते । व्यालम्बीति । व्यालम्बी-

न्यालम्बमानानि मुक्ताफलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति

मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां

चतुर्थी । इन्द्रस्पृहणीयतामाह -- यस्मादिति । यस्माद्राज्ञो गुणाः शौर्यादयस्तेषां गणः समूहो निर्जगाम

बहिर्निर्नयौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिष्टि - धवलीति । धवलीकृतं शुश्रीकृतं भुवनतलं

विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान -
टिप्प० -

 
[footnotes
1]
 
[^1]
छिन्नमिति तात्पर्य ।
[^
2] भीमसेनः स्वाश्रममाययौ इति तात्पर्यम् ।
[^
3] न केवलं सिंहासन-
विशेषण । हृदं विशेषणद्वयं कल्पतरावप्यन्वेति । संजाता अनेकरतांशव एव पल्लवा यस्मिन्निति
तस्पक्षेऽर्थः । व्यालम्बिमुक्ताफलेत्यादि विशेषणव्याख्या तूभयत्र समाना । 4 इन्द्रस्पृहणीयतायां नाग्रिमो
हेतुः, किन्तु 'यस्मै च मन्येऽनन्यसाधारणशक्तिसंपदे :: :..' इत्यादिरेव प्रन्थानुकूलः पाठः । अनन्य-

साधारणी शक्तिसंपद् यस्य ईदृशाय यस्मै इन्द्रोऽपि स्पृहयांचकारेति तदर्थः । ईडशी शक्तिसंपद् ममापि

स्यादितीन्द्रस्पृहायास्तापर्यम् ।
 
1
 
पाठा० -

 
[footnotes2]
 
[^
] खण्डमण्डलात्.
[^
] मेकलात्.
[^
] मुकुलैर्दन्तुरै:
[^
] मयूखाग्र
[^
] ग्रथिता.
[^
] तारकदृशो.
[^
] अव-
नीपतयः•
[^
] रक्तांशुक; रलांशुजात
[^
] व्यलग्बि
[^
१०] मुक्ताजालके.
[^
११] सर्वा दिश:.
[^
१२] मन्येऽनन्यसाधारणश-
क्तिसंपदे सुरपति :.