2023-11-23 11:40:26 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

नादशिशिरकररथ [^१]तुरमखुरशिखरोल्लेखखण्डितोल्लस [^२]ल्लेविङ्गपल्लवादैरावतक[^३]रलूनसल्लकी कि [^४]सल- यदलादाशैलादुदयनाम्नः, कपि [^५]बल विलुप्त विरललवलीलता- [^६]फलादुदधिविनिर्ग [^७]तजलदेवताव [^८]न्द्यमानराघव- पादादचल [^९]पातदलितशङ्खकुलशकलतारकितशिलातलात् नलकर [^१०]तलाकलितशैलसहस्रसंभूतादासेतुबन्धात्, अच्छ- निर्झरजलधौततारकासार्थादमृतमथनोद्यतवैकुण्ठकेयूरपत्रमक-
रकोटिकषणमसृणित [^११]ग्राव्णः [^१२]सुरासुरहेलावलयित- वासुकिसमाकर्षणप्रा [^१३]रम्भ [^१४]चलितचरणभरदलित- [^१५]नितम्बकटकादमृतसीकरतिक्तसानो [^१६]रामन्दरात्, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम-
 
[ टि ]-- पयस्तेनार्द्रा अशुष्काश्चन्दना मलयजा यस्मिन्स तथा तस्मात् । अशिशिरेति । अशिशिरकरः सूर्यस्तस्य ये रथतुरगाः स्यन्दनहयास्तेषां खुराः शफास्तेषां शिखरेण प्रान्तेन य उल्लेख: [^1]संबन्धस्तेन खण्डिता द्विधाकृता इव उल्लसन्तो लविङ्गपल्लवा यस्मिन्स तथा तस्मात् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य यः करः शुण्डा तेन लूनानि छिन्नानि सल्लकी गजप्रिया तस्याः किस- लयदलानि यस्मिन्नेवंविधादाशैलादुदयनाम्न इति प्रागेवोक्तम् । इतः सेतुबन्धविशेषणानि । कपीति । कपिबलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि [^2]विरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेःसमुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरणौ यस्मिन्स तथा तस्मात् । अचलानां पर्वता- नां यः पातस्तेन दलितानि भिन्नानि यानि शङ्खकुलानि जलज- समूहास्तेषां शकलैः खण्डः तारकितं संजाततारकं शिलातलं यस्मिन्स तथा तस्मात् । नलेति । नलेत्युपलक्षणं नीलजाम्बवत्प्र- मुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं
व्याप्तं यच्छैलसहस्रं पर्वतसहस्रं तेन संभूतान्निष्पन्नात्सेतुबन्धात् । समुद्रबन्धादित्यर्थः । लङ्कायां गच्छता रामचन्द्रेण समुद्रबन्धनं विहितमिति लौकिकः । अथ मन्दरविशेषणानि - अच्छमिति । अच्छं निर्मलं यन्निर्झरजलमिति निर्झरो झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकासार्था नक्षत्रसमूहा यस्मिन्स तथा तस्मात् । अमृतेति । अमृतं पीयूषं तदर्थं यन्मथनम् । समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मथनवेलायां पुरः स्थितं मन्दरमालिङ्ग्य स्थितः तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकर- कोटिस्तया यत्कषणं घर्षणं तेन मसृणिता श्लक्ष्णीकृताः ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, असुरा दैत्याः
तैर्हेलया क्रीडया एकोत्साहेन वा वलयितो वलयाकारतां प्रापितो यो वासुकिर्नागराजस्तस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रम- स्तस्माच्चलितः स्वस्थाना [^2]च्च्युतो यश्चरणभरः पादसमूहस्तेन दलितश्चूर्णितो नितम्बकटको यस्मिन्स तथा तस्मात् । अमृतेति । अमृतस्य पीयूषस्य ये सीकराः पृषतास्तैः सिक्तानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मात् । आमन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह - नरेति । नरनारायणौ नामार्जुनवासुदेवौ तयोर्या चरणमुद्रापादन्यासस्तया- ङ्कितश्चिह्नितो यो
 
[^1]F. घर्षणमित्युचितोऽर्थः ।
[^2]F. कपिबलेन विलोपं प्रापितानि ( भक्षणायेत्यर्थः अत एव
विरलानि अल्पीभूतानि लवलीलतानां फलानि यस्मिन्निति व्याख्यो- चिता । एकस्या लतायास्तत्रापि तुच्छाया: सैन्येन फलभक्षणवर्णनं तु दारिद्र्यमेव टीकाकर्तुः ।
[^3]F. तस्मात् चलितानां चरणानां भरेण ( भारेण ) दलित इति व्याख्योचिता ।
 
[^१]G. तुरंग.
[^२]G. लवङ्ग.
[^३]G. करतल; करलूनरोध; करलूनलोध.
[^४]G. कबलात्.
[^५]G. कुल.
[^६]G. पुष्पात्.
[^७]G. निर्गत.
[^८]G. अभिवन्द्यमान.
[^९]G. निपात.
[^१०]G. तलकलित.
[^११]G. ग्रावाण:.
[^१२]G. सुरासुरावलयित.
[^१३]G. आरम्भ.
[^१४]G. चलावलित.
[^१५]G. नितम्बात्.
[^१६]G. आमन्दराचलात्.