कादम्बरी /155
This page has been fully proofread once and needs a second look.
दशरथ इव सुमित्रोपेतः, पशुपतिरिव महा [^१]सेनानुयातः, भुजग- राज इव क्षमाभरगुरुः, नर्मदाप्रवाह इव महावंशप्रभवः, अवतार इव धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, [^२]परिहतप्रजापीडो राजा तारापीडोऽ [^३]भूत् ।
यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमा- मूलतो धर्मं दशाननेव [^४]कैलासं पशुपतिरिवावष्टभ्य पुनरपि [^५]स्थिरीचक्रे । यं च रतिप्रला [^६]पजनितदयार्द्रहृदयहर- [^७]निर्मितमपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरङ्ग- धौतमेखला [^८]त्पत्रान्तर्विचारितारागणद्विगुणिततटतरुकुसुम- प्रकरादुद्यदिन्दुबिम्बवि [^९]गलदमृत [^१०]बिन्द्वासारार्द्रचन्द -
[ टि ]-- स तथा । पक्षे विग्रहो युद्धादिकलहः । दशरथ इव दश- रथो रामपिता तद्वदिव । सुमित्रेति । सुष्ठु
शोभनं यन्मित्रं सुहृत्तेनोपेतः सहितः । पक्षे सुमित्रा लक्ष्मणजननी । पश्चिविति । पशुपतिरीश्वरस्तद्वदिव ।
महेति । महती या सेना सैन्यं तया- नुयातोऽनुगतः । पक्षे महासेनः षण्मुखः । भुजगेति । भुजगरा-
जोऽनन्तस्तद्वदिव । क्षमेति । क्षमा क्षान्तिस्तस्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी । शेषेण
स्वपृष्ठे वसुधा धृतेति लोक- रूढिः । नर्मदेति । नर्मदा मेकलाद्रिजा तस्याः प्रवाहो रयस्तद्वदिव । महेति ।
महावंशो महत्कुलं तस्मात्प्रभव उत्पत्तिर्यस्य स तथा । पक्षे महावंशो महावेणुः । वंशर् [^1]मूलान्नर्मदाप्रवाहः
प्रादुर्भूत इति लोकोक्तिः । अवतार इव धर्मस्य श्रेयसोऽवतार इव जन्मान्तरमिव । प्रतीति । पुरुषोत्तमस्य
विष्णोः प्रतिनिधिः प्रतिभास इव । परीति । परि सामस्त्येन हता ध्वस्ता प्रजापीडा प्रकृतिपीडा येन स तथा ।
अन्वयस्तु प्रागेवोक्तः ।
-
स य इति । यः तारापीड : पशुपतिरिव कलिकालेन दशाननेनेवा मूलतः मूलं बुधं आ मर्यादीकृत्य
चालितं कम्पितं धर्ममवष्टभ्या- वष्टम्भं दत्त्वा कैलासमिव पुनरपि स्थिरीचक्रे दृढीचकार । अथ कलिकाल-
विशेषणानि - तम इति । तमोऽज्ञानं तस्य प्रसरः प्रसरणं तेन मलिनं कश्मलं वपुः शरीरं यस्य स
तथा तेन । पापेति । पापे-
नै [^2]नसा बहुलेन दृढेन । 'बहुलं दृढम्' इति कोशः । यं चेति । यं तारापी
डं लोको जनोऽपरं भिन्नं मकरकेतुं मदनममंस्ताभिमत- वान् । तमेव विशिनष्टि - रतीति । रतेः प्रलापेन
परिदेवनेन जनि- तोत्पादिता या दया करुणा तयार्द्ररं स्विन्नं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तेन निर्मितं
विहितम् । यं चेति । यं राजानम् । आशैलेति । उदयनाम्न आ शैलात् उदयाचलं शैलं आ
मर्यादीकृत्य । आसे- त्विति । आ सेतुबन्धात् सेतुबन्धं आ मर्यादीकृत्य । आ मन्दरादिति । मन्दरं
मेरुमा मर्यादीकृत्य । आगन्धमादनादिति । गन्धमादनं पर्वतमा मर्यादीकृत्य । पूर्वदक्षिणपश्चिमो
त्तरमवधीकृत्येति भावः । अवनिपा राजानः प्रणेमुर्नमश्चकुक्रुरित्यन्वयः । अथोदयाद्रिं विशेषय- न्नाह -
जलेति । जलनिधिः समुद्रस्तस्य तरंगाः कल्लोलास्तैधर्धौता क्षालिता मेखला मध्यभागो यस्य स तथा
तस्मात् । पत्रेति । पत्राणां पर्णानामन्तर्मध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणि
तोऽधिकीभूतस्तटतरूणां भृगुवृक्षाणां कुसुमप्रकरः पुष्प- समूहो यस्मिन्स तथा तस्मात् । उद्यदिति । उद्यदु-
दयं प्राप्नुवयद्य- दिन्दुबिम्बं तस्माद्विगलन्तः स्रवन्तो येऽमृतबिन्दवः पीयूषविप्रुषस्त- स्तल्लक्षणो य आसारो मेघजं
टिप्प० -[^1]F. मेकलाचलस्थवेणुनिकरान्नर्मदाप्रवाहः पूर्वमुद्रगत इति प्रसिद्धिरित्याशयः ।
[^2]F. पापमेव
बहुलम् अधिकं यस्मिन् ( आहिताम्ग्न्यादि ) इति तु स्पष्टोऽर्थः ।
पाठा० - [^१]G. अनुगतः .
[^२]G. परिहृत .
[^३]G. नामाभूत्; अभवत् .
[^४]G. कैलासमिव .
[^५]G. चकार, .
[^६]G. उपजनित .
[^७]G. अपरमिव.
[^८]G. पत्रान्तर .
[^९]G. गलत् .
[^१०]G. बिन्दुदुर्दिनार्द्र.
यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमा- मूलतो धर्मं दशाननेव [^४]कैलासं पशुपतिरिवावष्टभ्य पुनरपि [^५]स्थिरीचक्रे । यं च रतिप्रला [^६]पजनितदयार्द्रहृदयहर- [^७]निर्मितमपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरङ्ग- धौतमेखला [^८]त्पत्रान्तर्विचारितारागणद्विगुणिततटतरुकुसुम- प्रकरादुद्यदिन्दुबिम्बवि [^९]गलदमृत [^१०]बिन्द्वासारार्द्रचन्द -
[ टि ]-- स तथा । पक्षे विग्रहो युद्धादिकलहः । दशरथ इव दश- रथो रामपिता तद्वदिव । सुमित्रेति । सुष्ठु
जोऽनन्तस्तद्वदिव । क्षमेति । क्षमा क्षान्तिस्तस्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी । शेषेण
अन्वयस्तु प्रागेवोक्तः ।
नै [^2]नसा बहुलेन दृढेन । 'बहुलं दृढम्' इति कोशः । यं चेति । यं तारापी
[^2]F. पापमेव
[^२]G. परिहृत
[^३]G. नामाभूत्; अभवत्
[^४]G. कैलासमिव
[^५]G. चकार
[^६]G. उपजनित
[^७]G. अपरमिव.
[^८]G. पत्रान्तर
[^९]G. गलत्
[^१०]G. बिन्दुदुर्दिनार्द्र.