2023-11-23 06:02:33 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१२२
 
कादम्बरी ।
 
[ कथायाम्-
दशरथ इव सुमित्रोपेतः, पशुपतिरिव महा [^१]सेनानुयातः, भुजग- राज इव क्षमाभरगुरुः,
नर्मदाप्रवाह इव महावंशप्रभवः, अवतार इव धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, पे[^२]परिह-
तप्रजापीडो राजा तारापीडोऽ [^३]भूत् ।
 

 
यस्तमः प्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमा- मूलतो धर्मं दशानने-
व [^४]कैलासं पशुपतिरिवावष्टभ्य पुनरपि स्थैि[^५]स्थिरीचक्रे । यं च रतिप्रला [^६]पजनितदयार्द्रहृदयहर-
नेव
हृदयहर
[^७]निर्मितमपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरङ्ग- धौतमेखलाप -
[^८]त्पत्रान्तर्विचारितारागण द्विगुणिततटत रुकुसुम- प्रकरादुद्यदिन्दुबिम्ब विर् [^९]गलदमृत [^१०]बिन्द्वासारार्द्रचन्द -
 
24
 

 
स तथा । पक्षे विग्रहो युद्धादिकलहः । दशरथ इव दशरथो रामपिता तद्वदिव । सुमित्रेति । सुष्ठु

शोभनं यन्मित्रं सुहृत्तेनोपेतः सहितः । पक्षे सुमित्रा लक्ष्मणजननी । पश्चिति । पशुपतिरीश्वरस्तद्वदिव ।

महेति । महती या सेना सैन्यं तयानुयातोऽनुगतः । पक्षे महासेनः षण्मुखः । भुजगेति । भुजगरा-

जोऽनन्तस्तद्वदिव । क्षमेति । क्षमा क्षान्तिस्तस्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी । शेषेण

स्वपृष्ठे वसुधा धृतेति लोकरूढिः । नर्मदेति । नर्मदा मेकलाद्रिजा तस्याः प्रवाहो रयस्तद्वदिव । महेति ।

महावंशो महत्कुलं तस्मात्प्रभव उत्पत्तिर्यस्य स तथा । पक्षे महावंशो महावेणुः । वंशर्मूलान्नर्मदाप्रवाहः

प्रादुर्भूत इति लोकोक्तिः । अवतार इव धर्मस्य श्रेयसोऽवतार इव जन्मान्तरमिव । प्रतीति । पुरुषोत्तमस्य

विष्णोः प्रतिनिधिः प्रतिभास इव । परीति । परि सामस्त्येन हता ध्वस्ता प्रजापीडा प्रकृतिपीडा येन स तथा ।

अन्वयस्तु प्रागेवोक्तः ।
 

 
-
 

 
सय इति । यः तारापीड : पशुपतिरिव कलिकालेन दशाननेनेवा मूलतः मूलं बुधं आ मर्यादीकृत्य

चालितं कम्पितं धर्ममवष्टभ्यावष्टम्भं दत्त्वा कैलासमिव पुनरपि स्थिरीचक्रे दृढीचकार । अथ कलिकाल-

विशेषणानि - तम इति । तमोऽज्ञानं तस्य प्रसरः प्रसरणं तेन मलिनं कश्मलं वपुः शरीरं यस्य स

तथा तेन । पापेति । पापेनैनसा बहुलेन दृढेन । 'बहुलं दृढम्' इति कोशः । यं चेति । यं तारापी

लोको जनोऽपरं भिन्नं मकरकेतुं मदनममंस्ताभिमतवान् । तमेव विशिनष्टि - रतीति । रतेः प्रलापेन

परिदेवनेन जनितोत्पादिता या दया करुणा तयार्द्र स्विन्नं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तेन निर्मितं

विहितम् । यं चेति । यं राजानम् । आशैलेति । उदयनाम्न आ शैलात् उदयाचलं शैलं आ

मर्यादीकृत्य । आसेत्विति । आ सेतुबन्धात् सेतुबन्धं आ मर्यादीकृत्य । आ मन्दरादिति । मन्दरं

मेरुमा मर्यादीकृत्य । आगन्धमादनादिति । गन्धमादनं पर्वतमा मर्यादीकृत्य । पूर्वदक्षिणपश्चिमो

त्तरमवधीकृत्येति भावः । अवनिपा राजानः प्रणेमुर्नमश्चकुरित्यन्वयः । अथोदयाद्रिं विशेषयन्नाह -

जलेति । जलनिधिः समुद्रस्तस्य तरंगाः कल्लोलास्तैधता क्षालिता मेखला मध्यभागो यस्य स तथा

तस्मात् । पत्रेति । पत्राणां पर्णानामन्तर्मध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणि

तोऽधिकीभूतस्तटतरूणां भृगुवृक्षाणां कुसुमप्रकरः पुष्पसमूहो यस्मिन्स तथा तस्मात् । उद्यदिति । उद्यदु-

दयं प्राप्नुवयदिन्दुबिम्बं तस्माद्विगलन्तः स्रवन्तो येऽमृतबिन्दवः पीयूषविप्रुषस्तलक्षणो य आसारो मेघजं
 

 
टिप्प० -1 मेकलाचलस्थवेणुनिकरान्नर्मदाप्रवाहः पूर्वमुद्रत इति प्रसिद्धिरित्याशयः । 2 पापमेव

बहुलम् अधिकं यस्मिन् ( आहिताम्यादि ) इति तु स्पष्टोऽर्थः ।
 

 
पाठा० - १ अनुगतः २ परिहृत ३ नामाभूत् अभवत् ४ कैलासमिव ५ चकार, ६ उपजनित ७ अपरमिव.

८ पत्रान्तर ९ गलत् १० बिन्दुदुर्दिना.