कादम्बरी /154
This page has been fully proofread once and needs a second look.
उज्जयिनी ]
पूर्वभागः ।
१२१
त्फुल्लारविन्दहस्तया शूरसमागमव्यंस निन्या निर्व्याजमालिङ्गितो लक्ष्म्या, महामुनिजनसंसे-
वितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंताप-
कारिणः स्थिरस्यापि नित्यं भ्रमतो निर्मलस्यापि मलिनीकृतारातिवनितामुखकमलद्युतेरति-
धवलस्यापि सर्वजनरागकारिण: सुधासूतेरिव सौगर उद्भवो यशसः, पाताल इवाश्रितो
निजपक्षक्षेतिमी तैः भिंतिभृत्कुटिलः, महगण इव बुधानुगतः, मकरध्वज इवोत्सन्नविग्रहः,
1
स्थलं भुजान्तरस्थलं तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा । उदिति ।
उत्फुल्लं विकसितं यदरविन्दं कमलं तद्वद्धस्तौ यस्याः सा तया । शूरेति । शूरेण सुभटेन यः समा-
गमः संबन्धस्तस्मिन्व्यसनमासक्तिविंधते यस्याः सा तया लक्ष्म्या श्रिया निर्व्याजं निष्कपटमालिङ्गित
उपगूहितः । सत्यस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह — महेति । महामुनिजना वसिष्ठादयस्तैः
संसेवितस्य पर्युपासितस्य सत्यस्य प्रभवः । कस्य क इत्र । सुरसरित्प्रवाहस्य स्वर्धुनीरयस्य मधुसूदनचरण
इव हरिपाद इव । यथा हरेः पादः स्वर्धुन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोक्त्या तमेव
विशेषयन्नाह - यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह --- सुधासू तेरिति ।
सुधासूतेश्चन्द्रस्य सागर: समुद्र इव । 'अब्धिजश्चन्द्रः' इति कविरूतिः । अथ च चन्द्रयशसोः
साम्यं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहिजना
वा तेषां संतापो दाहस्तत्कारिण इति विरोधः । तत्परिहारस्तु संतापश्चित्तोद्वेग इत्यर्थात् । स्थिरेति ।
स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकालं भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः' इति कविरुद्वेर्वि-
रोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वात्स्थिरो नित्य इत्यर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्यापि
मलिनीकृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कमलानि वा तेषां द्युतिर्येनेति
विरोधः । तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नियनपुंसकत्वात्तद्विशेषणे द्युति -
पदे न नुमागमः । 'दधिदूर्वादा' मङ्गले' इतिवद्वहुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि
सर्वजनानां समग्रलोकानां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इत्यर्थात् । अत्र
सर्वत्रापिशब्दो विरोधयोतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः
साम्यं प्रदर्शयन्नाह - आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तेषु कुटिला वास्तैराश्रित
आसेवितः । उ॒भयं विशिनष्टि - निजेति । निजा आत्मीया ये पक्षाः स्वजना वाजश्च तेषां क्षतिः
क्षयस्तया भीतास्त्रस्तास्तैः । नृपाः स्वराज्यक्षयभीत्या तमाश्रिताः ।पर्वतास्तु पक्षक्षयभीता रसातलमिति
भावः । ग्रह इति । ग्रहा नक्षत्राणि तेषां गणः समूहस्तद्वदिव । सर्वत्रैक विशेषणेन विशेषयन्नाह - बुधेति ।
बुधाः पण्डितास्तैरनुगतः सहितः । तदुक्तम् – 'व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह' इति । पक्षे बुधः
सौम्यः यः । मकरेति । मकरध्वजः कन्दर्पस्तद्वदिव । उत्सन्नेति । उत्सन्न उच्छेदं प्राप्तो विग्रहः शरीरं यस्य
...
>
टिप्प० – 1 कीर्तेरित्यर्थः । 2 स्थिरं नित्यमिति बोध्यम् । 3 प्रलापोऽयं टीकाकृतः । नित्यनपुंसकस्य
यशसो विशेषणीभूतस्यापि 'मलिनी ० . चुतेः' इति पदस्य भाषितपुंस्कतया पुंवद्भावान्न नुम् अपि तु
घित्वेन गुण इति तस्य तात्पर्यम् । 4 'क्षितिभृत्कुलैः' इत्येव ग्रन्थोचितः पाठः । क्षितिभृतां राज्ञां
पर्वतानां च कुलैरिति च तदर्थः । कुटिलैस्तु नाश्रयितुं शक्यते, इति तदाश्रयणवर्णनं न स्वरसाय ।
5 गरुतः 'पंख' इति हिन्दी ।
पाठा० -१ एकव्यसनिन्या. २ अनवरतम् ; अविरतम्. ३ जलनिधि: ४ पातालवत्. ५ क्षति, ६ क्षितिभृतां
कुलैः; क्षितिभृत्कुलैः; क्षितिभृतः कुलैः.
१६ का०