2023-11-23 04:00:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१२०
 
कादम्बरी ।
 
[ कथामुखे-
सुरः, गौरीनूपुरकोटिघृष्ट [^१]शेखरचन्द्रशकलः, त्रिपुरभस्मरजः- कृताङ्गरागः, मकरध्वजध्वंस-
विधुरया रत्या प्रसादयन्त्या प्रसारित करै- [^२]करयुगविगलितवै [^३]वलयनिकरार्चितचरणः, प्रलयानलशि-

खाकलाप कपिलजटाभारभ्रान्त [^४]सुरॅसिन्धुरम्धे [^५]रन्धकारा- तिर्भगवान्, उत्सृष्टकैलासवासप्रीतिर्महा-
कालाभिधः स्वयं वसति ।
 
."
 
[^६]वसति ।
 
तस्यां चैवंविधायां नगर्या नॅयां [^७]नलनहुषययातिधुन्धुमारभरत-
भगीरथदशरथप्रतिमः, भुजबे
[^८]बलार्जितभूमण्डलः, फलित- शक्तित्रयः, मतिमान् उत्साहसंपन्नः, नीतिशास्त्राखिन्नबुद्धिः,

अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः अनेकसप्ततन्तुपूतमूर्तिः,
उपशमितसकलजगदुपप्लवः, विहाय कमलवनान्यवगणय्य नारायणवक्षःस्थलवसतिसुखमु-

 
[ टि ]--
तीक्ष्णं यच्छूलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धक- महासुरो येन स तथा । गौरीति । गौरी मानवती
तस्याः सान्त्वना- वसरे तन्नूपुरस्य या कोटिस्तै [^1]स्तस्य घृष्टं वर्षणां प्रापितं शेखरेऽव- तंसे चन्द्रशकलं यस्य स तथा ।
त्रिपुरेति । त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वय-
मेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति । मकरध्वजस्य कंदर्पस्य यो ध्वंसो दाहस्तेन विधु-
रया दुःखितया
रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं
यत्करयुगं हस्तयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेना- र्चितौ
पूजितौ चरणौ पादौ यस्य सः । प्रलयेति । प्रलयसंबन्ध्यनलो वह्निस्तस्य शिसा ज्वालास्तासां कलापः समू-
हस्तेन कपिलः पिङ्गलो यो जटाभारः जटासमूह [^2]स्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारा-
तिरन्धकनाम्नो दैत्यस्यारातिः शत्रु- र्भगवान्माहात्म्यवान् । उत्सृष्टेति । उत्सृष्टा व्यक्ता कैलासवासप्रीतिः

रजताद्र्यवस्थानस्नेहो येन सः ।
 

 
तस्यां चेति । तस्यां नगर्यायां उज्जयिन्याम् । एवमिति । एवंविधायां पूर्वोक्तप्रकारेण व्यावर्णित
स्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि - तत्र प्रथमान्तानि सर्वा-

ण्
यपि राजविशेषणानि । नलो नैषधः; नहुषो नृपविशेषो योऽगस्ति- शापादजगरो जातः, ययातिर्यदु-
पिता, धुन्धुमारः कुवलाश्वः, भरतो दौष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः

सदृशः । 'प्रख्यः प्रकारः प्रतिमः' इति कोशः । भुजेति । भुजबलेन बाहुबलेनार्जितमुपार्जितं भूमण्डलं
पृथ्वीमण्डलं येन स तथा । फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्र
शक्तिरुत्साह-
शक्तिश्चेति शक्तित्रयम् । मतिमान्बुद्धिमान् । उत्साहः प्रगल्भता तेन संपन्नः सहितः । नीतीति । नीतिशास्त्रे व्यवहार-
शास्त्रे व्यवहार
ग्रन्थेऽखिन्ना [^3]अरीणीणा बुद्धिः प्रतिभा यस्य स तथा । धर्म इति । अधीतं पठितं धर्मशास्त्रं
येन स तथा । सूर्येति । सूर्याचन्द्रमसोः शशिभास्करयोस्तृतीय इव । 'देवताद्वन्द्वे पूर्वपदस्य दीर्घ : '
इति दीर्घः । केन । तेजसा कान्त्या च । तत्र तेजः प्रकाशः कान्ति- श्चन्द्रिका । राज्ञि तेजः प्रतापः,
कान्तिः शोभा देहदीप्तिर्वा । अनेकेति । अनेके ये सप्ततन्तवो यज्ञास्तैः पूता पवित्रा मूर्तिः शरीरं

यस्य स तथा । प्रयाजादीनि षडङ्गानि सप्तमः प्रधानमिति सप्त- तन्तवः । उपशमितेति । उपश-
मितः शान्ति प्रापितः सकलजगतः समग्र विष्टपस्योपप्लव उपद्रवो येन स तथा । प्रकारान्तरेण तमेव

विशेषयन्नाह - विहायेति । कमलवनानि नलिनखण्डानि विहाय त्यक्त्वा । नारायणस्य कृष्णस्य यद्वक्षः-
टिप्प० -

 
[^
1]F. तेन घृष्टं शेखर ( शिरोभूषण ) भूतं चन्द्रशकलं यस्येति
स्पष्टोऽर्थः ।

[^2]F. तस्मिन्
भ्रान्ता धूघूर्णमाना सुरसिन्धुर्यस्य स इति स्फुटोऽर्थः । 3 अश्रान्तेत्यर्थः ।
 
2 तस्मिन्
 
पाठा -

 
[^
]G. चन्द्र शकलशेखरः .

[^२]G
. करयुगल, .
[^
]G. वलयततिकरम्बित .
[^
]G. अमरसिन्धु .
[^
]G. अन्धकारिः
प्रतिदसति,
.
[^६]G. निवसति; प्रतिवसति.
[^
]G. नृगनल; नृग, .
[^
]G. दशरथजनमेजयार्जुन, .
[^
]G. उपार्जिंजित.
 
६ निवसति;