This page has not been fully proofread.

१२०
 
कादम्बरी ।
 
[ कथामुखे-
सुरः, गौरीनूपुरकोटिघृष्टशेखरचन्द्रशकलः, त्रिपुरभस्मरजः कृताङ्गरागः मकरध्वजध्वंस-
विधुरया रत्या प्रसादयन्त्या प्रसारित करैयुगविगलितवैलयनिकरार्चितचरणः, प्रलयानलशि-
खाकलाप कपिलजटाभारभ्रान्तसुरॅसिन्धुरम्धे कारातिर्भगवान्, उत्सृष्टकैलासवासप्रीतिर्महा-
कालाभिधः स्वयं वसति ।
 
."
 
तस्यां चैवंविधायां नगर्या नॅलनहुषययातिधुन्धुमारभरतभगीरथदशरथप्रतिमः, भुजबे
लार्जितभूमण्डलः, फलितशक्तित्रयः, मतिमान् उत्साहसंपन्नः, नीतिशास्त्राखिन्नबुद्धिः,
अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः अनेकसप्ततन्तुपूतमूर्तिः,
उपशमितसकलजगदुपप्लवः, विहाय कमलवनान्यवगणय्य नारायणवक्षःस्थलवसतिसुखमु-
तीक्ष्णं यच्छूलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धकमहासुरो येन स तथा । गौरीति । गौरी मानवती
तस्याः सान्त्वनावसरे तन्नूपुरस्य या कोटिस्तैस्य घृष्टं वर्षणां प्रापितं शेखरेऽवतंसे चन्द्रशकलं यस्य स तथा ।
त्रिपुरेति । त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वय-
मेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति । मकरध्वजस्य कंदर्पस्य यो ध्वंसो दाहस्तेन विधु-
रया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं
यत्करयुगं हस्तयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेनार्चितौ
पूजितौ चरणौ पादौ यस्य सः । प्रलयेति । प्रलयसंबन्ध्यनलो वह्निस्तस्य शिसा ज्वालास्तासां कलापः समू-
हस्तेन कपिलः पिङ्गलो यो जटाभारः जटासमूहस्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारा-
तिरन्धकनाम्नो दैत्यस्यारातिः शत्रुर्भगवान्माहात्म्यवान् । उत्सृष्टेति । उत्सृष्टा व्यक्ता कैलासवासप्रीतिः
रजतावस्थानस्नेहो येन सः ।
 
तस्यां चेति । तस्यां नगर्या उज्जयिन्याम् । एवमिति । एवंविधायां पूर्वोक्तप्रकारेण व्यावर्णित
स्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि - तत्र प्रथमान्तानि सर्वा-
यपि राजविशेषणानि । नलो नैषधः; नहुषो नृपविशेषो योऽगस्तिशापादजगरो जातः, ययातिर्यदु-
पिता, धुन्धुमारः कुवलाश्वः, भरतो दौष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः
सदृशः । 'प्रख्यः प्रकारः प्रतिमः' इति कोशः । भुजेति । भुजबलेन बाहुबलेनार्जितमुपार्जितं भूमण्डलं
पृथ्वीमण्डलं येन स तथा । फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्र शक्तिरुत्साह-
शक्तिश्चेति शक्तित्रयम् । मतिमान्बुद्धिमान् । उत्साहः प्रगल्भता तेन संपन्नः सहितः । नीतीति । नीति-
शास्त्रे व्यवहारग्रन्थेऽखिन्ना अरीणी बुद्धिः प्रतिभा यस्य स तथा । धर्म इति । अधीतं पठितं धर्मशास्त्रं
येन स तथा । सूर्येति । सूर्याचन्द्रमसोः शशिभास्करयोस्तृतीय इव । 'देवताद्वन्द्वे पूर्वपदस्य दीर्घ : '
इति दीर्घः । केन । तेजसा कान्त्या च । तत्र तेजः प्रकाशः कान्तिश्चन्द्रिका । राज्ञि तेजः प्रतापः,
कान्तिः शोभा देहदीप्तिर्वा । अनेकेति । अनेके ये सप्ततन्तवो यज्ञास्तैः पूता पवित्रा मूर्तिः शरीरं
यस्य स तथा । प्रयाजादीनि षडङ्गानि सप्तमः प्रधानमिति सप्ततन्तवः । उपशमितेति । उपश-
मितः शान्ति प्रापितः सकलजगतः समग्र विष्टपस्योपप्लव उपद्रवो येन स तथा । प्रकारान्तरेण तमेव
विशेषयन्नाह - विहायेति । कमलवनानि नलिनखण्डानि विहाय त्यक्त्वा । नारायणस्य कृष्णस्य यद्वक्षः-
टिप्प० - 1 तेन घृष्टं शेखर ( शिरोभूषण ) भूतं चन्द्रशकलं यस्येति स्पष्टोऽर्थः ।
भ्रान्ता धूर्णमाना सुरसिन्धुर्यस्य स इति स्फुटोऽर्थः । 3 अश्रान्तेत्यर्थः ।
 
2 तस्मिन्
 
पाठा - १ चन्द्र शकलशेखरः .
१. ९ करयुगल, ३ वलयततिकरम्बित ४ अमरसिन्धु ५ अन्धकारिः
प्रतिदसति, ७ नृगनल; नृग, ८ दशरथजनमेजयार्जुन, ९ उपार्जिंत.
 
६ निवसति;