This page has not been fully proofread.

उज्जयिनी ]
 
पूर्वभागः ।
 
भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनीभूषणरवेणाविभाव्यमाना व्यर्थी-
वन्ति प्रभातमङ्गलगीतयः । यस्यां चानिवृत्तिर्मणिमंदीपानाम् अन्तस्तरलता हारा
 
णाम् अस्थिति: संगीतमुरजध्वनीनाम् द्वन्द्ववियोगश्चनाम्नाम्, वर्णपरीक्षा कन
 
,
 

 
कानाम् अस्थिरत्वं ध्वजानांम् मित्रद्वेषः कुमुदानाम् कोशगुप्तिरसीनाम् । किं
बहुना यस्यां सुरासुरचूडामणिर्मरी चिचुम्बितचरणनखमयूख, निशितशूलदारितान्धकमहा-
,
 
.
 
G
 
तिरस्कृतानि गृहसारसानि येन । सारसानीयत्र लक्षणया सारसस्वरस्तादृशेन स्वरामृतेन । विलासिनीति ।
विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरणनिनादेन विस्तारिणा प्रसरणशीलेनाविभाव्यमानाः पराभूयमानाः ।
अथ शुकसारिकासमूहं विशिनष्टि - निशेति । निशाया रजन्या अवसाने प्रान्ते प्रबुद्धस्य जागृतस्य ।
तारेति ! तारतारम प्युच्चस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्था
यिन इत्यर्थः । यस्यां चेति । पूर्ववत् । अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकानामनिवृत्तिरनु -
परमः । 'निवृत्तिः स्यादुपरमे' इति कोशः । क्वचित्' 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् ।
शेपू । अन्तरिति । अन्तर्मध्ये तैरलो मध्यमणिस्तस्य भावस्तस्य । हाराणां मुक्ताप्रालम्बानाम् ।
'नायकस्तरलः' इति कोशः । न तु लोकानामन्तश्चित्ते तरलता चाञ्चल्यम् । 'तरलं कम्पनं कम्प्रम्' इति
कोशः । अस्थितिरिति । अस्थितिस्ताललंयादिष्वनवस्थानं संगीतमुरजध्वनीनां प्रेक्षणार्थप्रयुक्तगीतनृत्य-
वाद्य मृदङ्गशब्दानाम् । न तु लोकानामस्थितिरमर्यादा । द्वन्द्ववियोग इति । द्वन्द्वस्य स्त्रीपुरुषरूपस्य
वियोगो विघटनं चक्रनाम्नां द्वन्द्वचराणाम् । न तु लोकानां द्वन्द्वेन युद्धेन वियोगः स्त्रीपुरुषविश्लेषः । वर्ण
इति । वर्णो वर्णिक तस्याः परीक्षा परीक्षणं कनकानां सुवर्णानाम् । न तु लोकानां वर्णा ब्राह्मणादयस्तेषां
परीक्षा वर्णसांकर्याभावात् । अस्थिरत्वमिति । अस्थिरत्वं चञ्चलत्वं ध्वजानां केतूनाम् ।
तु लोकाना
चाञ्चल्यम् । मित्रद्वेष इति । मित्रः सूर्यस्तेन सह द्वेषोऽप्रीतिः कुमुदानां कैरवाणाम् । चन्द्रविकासि
त्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोश: प्रतीकार ( ? ) स्तन गुप्तिर्गोपनमसीना
खजानाम् । न तु लोकानां कोशस्य भाण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्या
महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षाद्वसति । तं विशिष्टि -- सुरेति । सुरासुराणां यश्चूडामणिः
शिरोरत्नं तस्य मरीचयः किरणास्तै चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं
 
टिप्प० -1 निशावसाने जागरितस्य तारं पठतश्च पञ्जरस्थशुकसारिकासमूहस्य प्रभातमङ्गलगीतयः
( अर्थात् शुकसारिकाभिर्गीताः प्राभातिकगीतयः ) गृहसारसमधुर स्वराभिभाविना विलासिनीभूषणझण
एकारेण अज्ञायमानाः सत्यः व्यर्थीभवन्ति, इत्याशयः । टीकाकारस्तु विचित्रं व्याख्याति येन पौरकृतमा.
भातिकगीतीनां अमो भवति । 2 'अन्तस्तरलता हारलतानाम्' इत्येव ग्रन्थोचितान्यक्षराणि । अन्तस्त-
(रलो मध्यमणियेषां तद्भावः अन्तस्तरलता ( मध्यमणिशालिता ) इति च व्याख्या । 3 संगीतस्य
मुरजस्तस्य च ध्वनीनां अस्थितिः इतस्ततः प्रसरणशीलत्वम्, इत्यर्थ: ( अस्थितिः तृतीयक्षणे अविद्य
मानता वा ) । ताल-लयादिषु अनवस्थानम् ( अर्थात् ताललयाधुलङ्घनम् ) तु गीतवाद्यानां भ्रष्ट
तैव । 4 वर्णः ( रूपम् 'रङ्गः ) तस्य परीक्षा ( वह्निताप - निकषकषणादिद्वारा ) । 5 प्रसिद्धः,
चर्ममयमावरणगृहम् ।
 
.
 
पाठा० -१ रवेण च. २ अभिभाव्य ३ दीपानाम् ४ तरलता ५ हारलतानाम् ६ चक्रनाम्नः ; चक्रवाक-
नाम्नाम्. ७ यस्यां च ८ मरीचिचय ९ त्रिशूल,