कादम्बरी /151
This page has not been fully proofread.
११८
कादम्बरी ।
[ कथायाम्-
दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्वालातपपिञ्जरा इवे रजन्यः । यांच
संनिहित विषमलोचनामनवरतमतिमधुरो रतिप्रलाप ईव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहे-
तुभूतो भवनकुलेहंसकुलकोलाहलः । यस्यां च निशि निशि पवन विलोलैर्दुकूलपल्लवैरुल्लसद्भि-
र्मालवीमुखकमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितध्वजभुजाः प्रासादा
लक्ष्यन्ते । यस्यां च सौधर्शिखरशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव
पतितः प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः ।
यस्यां च निशावसानप्रबुद्धस्य तौरतारमपि पठतः पञ्जरभाज: शुकसारिकासमूहस्या..
गृहमणयो यस्यां सा । अनुपजाततिमिरत्वादेवेति भावः । तत्रापि हेतुमाह - कामिनीति । कामि-
नीनां योषितां भूषणान्याभरणानि तेषां प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमि-
रत्वम् । तेन चाविघटितचक्रवाक मिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः । प्रभाभिः कीदृशा इव । संजा-
तैति । संजातः समुत्पन्नो यो मदनानलो मदनवहिः स एव दिग्दाहो यासु तादृशा इन बालातपो नवीन-
सूर्यातपस्तेन पिञ्जराः श्वेतरक्तास्तादृशा इव । यां चेति । यां नगरीं भवनं गृहं तस्य कुलं समुदायस्तत्र हंस-
कुलानि तेषां कोलाहलो मुखरीकरोति वाचाली करोति । 'अभूततद्भावे च्विः' । कीदृशः । अतिमधुरोऽति-
मिष्टः अनवरतं प्रसर्पन्प्रसरन् कीदृश इव । रतीति । रतिर्मदनस्त्री तस्याः प्रलाप इव विलाप इव । मक-
रेति । मकरकेतुना मदनेन दाहस्तस्य हेतुभूतः । अन्यत्र मकरकेतोर्दाहो हेतुभूतोऽस्य रतिप्रलापस्येति
विग्रहः । रतिप्रलापसाम्यं कोलाहले वक्तुमाह - संनिहितेति । संनिहितः समीपस्थो विषमलोचनः शंभु-
र्यस्यां सा । यस्यां चेति । यस्यां नगर्यां प्रासादा आवासा ईदृशा लक्ष्यन्त इत्यन्वयः । तान्वि-
शिनष्टि — दूरेति । दूरमूर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव ।
इन्दोश्चन्द्रस्य कलङ्क मालिन्यमपनयन्त इव दूरीकुर्वन्त इव । चन्द्रं विशिष्टि - मालवीति । मालव्यः
मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लज्जितस्य त्रपितस्य । तत्करणे कारणं दर्श-
यन्नाह - निशि निशीति । निशि निशि प्रतिनिशमुल्लसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दु-
कूलपल्लवैर्वस्त्राञ्चलैः । यस्यां चेति । यस्यां नगर्या मृगलाञ्छनश्चन्द्रो मणिकुट्टिमेषु प्रतिमाच्छलेन प्रतिनि-
म्बमिषेण लुठति प्रसरति । कीदृशः । मदनेन कंदर्पेण परवशः परायत्त इव । हेतुमाह - किं कुर्वन् । पश्य-
विलोकयन् । कानि । सौधशिखरशायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वद -
नानि । कीदृशेषु मणिकुट्टिमेषु । बहलेति । बहलं यच्चन्दनजलं मलयजंद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन
शिशिरेषु शीतलेषु । अत एव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः ।
यस्यां चेति । प्रभाते प्रत्यूषे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थीभवने
हेतुद्वयं प्रदर्शयन्नाह – शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूहः संघातस्तस्य । अभिभूतानि
टिप्प० - 1 अत्र चक्रवाकानां विघटनसंबन्धेऽपि तदसंबन्धात्, प्रदीपानां व्यर्थीकरणाऽसंबन्धेपि
तत्संबन्धोक्तेर तिशयोक्तिद्वयम् । संजातदिग्दाहा इव पिअरा इव चेत्युत्प्रेक्षाद्वयम् । एतेषामलंकाराणामे-
कस्मिन्वाक्ये निरपेक्षतयाऽवस्थानात्संसृष्टिः । 2 संनिहित विषमलोचना ( पुरी ), अत एव तस्कर्तृकमक-
रकेतु कर्मकदाहकारणात् रते: प्रलापः ( विलापः ) इव हंसकोलाहलो यां पुरीं मुखरयति । वस्तुतस्तु --
मकरकेतुना यो दाहः ( कामकर्तृको यो लोकानां संतापः हंसरवस्योद्दीपकत्वात् ) तस्य हेतुभूतः हंसको●
लाहलो यां मुखरीकरोति । इत्याशयः ।
पाठा० -- १ पिञ्जरत्वं रजन्य : २ इव प्रतिवासरं प्रसर्पन्. ३ कल. ४ हंसकोलाहल: ५ पवनवश ६ ऊर्ध्व-
ध्वज. ७ यस्यां सौध. ८ शिखरोत्सङ्ग ९ शिशिरेषु मृग. १० निशांवसाने. ११ तारतरमतिपठत: १२ रवेणाभि
भूता गृहसारविरुतेनं.