2023-11-22 12:12:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उज्जयिनी ]
 
पूर्वभागः ।
 
११७
 
मरकतवेदिकासु, [^१]गगनपै [^२]पर्यस्ता इव वैडूर्यमणिभूमिषु, तिमिरपटलविघटनोद्यता इव कृष्णा गुरु
[^३]धूममण्डलेषु, अभि- भूततारकापय इव ङ्क्तय इव [^४]मुक्ताप्रालम्बेषु, विकचकमलचुम्बिन इव नितम्बि-
नीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव स्फे[^५]स्फटि-
कभित्तिप्रभासु, गगनसिन्धु [^६]तरंगावलम्बिन
इव सितपताकां- शुकेषु, पल्लविता इव सूर्यकान्तोपलेषु, राहुमुखकुहरप्रविष्टा इवेन्द्रनीलवाता-
यन विवरेषु विरा [^1]जन्ते रविगभस्तयः ।
 

 
[^१]
यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाक मिथुना [^८]व्यर्थीकृतसुरतप्रदीपाः संजातम-
-
 
P
 

 
[ टि ]--
पीठिकास बैसु वैडूर्यमणिनैर्मल्य प्रतिबिम्बादाह
-गगनेति । अधःप्रसृता अपि नैल्यसाम्याद्गगन आकाशे पर्यस्ता
विस्तीर्णा इव दृश्यन्ते । वैडूर्यमणयो बालवायजानि तेषां भूमिषु । तन्मणिबद्ध- स्थलीष्वित्यर्थः । किरणेषु धूमरूपप्रति-
बिम्बादाह - तिमिरेति । तिमिरपटलस्य ध्वान्तसमूहस्य यद्विघटनं भेदनं तत्रोद्यता इव कृतप्रयत्ना इव । केषु ।
कृष्णागुरुः काकतुण्डस्तस्य धूमस्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह — अभि- भूतेति ।
अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पङ्क्तयो लेखा यैस्तादृशा इव मुक्ताप्रालम्बेषु मुक्ताक
लापेषु । मुखस्य विकचकमलसाम्यादाह — विकचेति । विकचानि विक- स्वराणि यानि कमलानि चुम्बिन
इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैडूर्यधूमेषु तद्रूपविशेषातिशयो व्यज्यते । मुखे-
Sभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्त्वा- त्स्फटिकरूपसंक्रमादाह — प्रभातेति । प्रभातस्य प्रत्यू -
षस्य या चन्द्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटि- कस्य चान्द्रोपलस्य भित्तयः
कुड्यानि तासां प्रभासु कान्तिषु । उदये चन्द्रिकाया रक्तत्वात्, मध्ये च पाण्डुरत्वात्, प्रातस्तु स्फटिकसा-

म्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते । तरंगसादृश्यात्सितपता- कानां तत्संबन्धवशादाह - गगनेति ।
गगनसिन्धुः स्वर्धुनी तस्या- स्तरंगाः कल्लोलास्तानवलम्बत इत्येवंशीला इव सितपताकांशुके- षूज्ज्वलवैजयन्तीप-
टेषु । पताकायां श्वेतातिशयो व्यज्यते । सूर्य- कान्तेषु संक्रमवशादाह - सूर्येति । पल्लववदाचरन्तीति पल्लविता'

अङ्कुरितास्तादृशा इव सूर्यकान्ता एवोपलाः प्रस्तरास्तेषु । इन्द्र- नीलसंपर्कवशादाह
- राहिह्विति । राहुः
सै
सैंहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टास्तदन्तर्गता इवेन्द्रनीलमणीनां ये वातायना गवाक्षास्तेषां
विवरेषु छिद्रेषु विराजते । अन्वयस्तु प्रागेवोक्तः ।
 

 
यस्यां चेति । यस्यामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न चिविघटितं न
विभिन्नं चक्रवाकानां कोकानां मिथुनं [^2]द्वन्द्वं याभिस्ताः । तत्र हेतुमाह- अनुपजातेति । अनुपजातं तिमिरं
यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थीकृता निष्प्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका
 
टिप्प० -

 
[^
1]F. रविगभस्तयः सिन्दूरमणि ( प्रवाल ) कुहिट्टिमेषु ( पतिताः सन्तः ) सन्ध्यारागारुणा इव
विराजन्ते । मरकत ( हरितमणि ) वेदिकासु ( पतिताः ) प्रारब्धं नीलकमलिनीषु परिमण्डलं मण्डला
-
कारेणाऽवलुण्ठनं यैस्ते व विराजन्ते इत्यादिः तत्तदाधारसंबन्धात्रद्र- विकिरणेषु नानाविधगुणक्रियादेरुत्प्रेक्षा ।
एवं सर्ववाक्येषु व्याख्याऽनुसंधेया ।
[^
2] F. भूषणप्रभाभिरन्धकाराभावाद्दिवस एवायमिति चक्रवाकानी
नां
भ्रमः । तथा चात्र भ्रान्तिमानलंकारो व्यज्यते, (वाच्यस्त्वाभावात् ) ।
 
• पाठा -

 
[^
]G. गगनत.
[^
प्रखता]G. प्रसृता.
[^३]G.
धूप.
[^
]G. मुक्ताफल, .
[^
]G. स्फटिकमणि .
[^
]G. तरंगसङ्गिन, :.
[^
]G. यस्यामनु
.
[^
]G. प्रकटीकृत.