2023-09-03 11:22:29 by Lakshmainarayana achar

This page has been fully proofread twice.

वर्णनायामत्युक्तयः
सौन्दर्यवर्णनादिष्ववत्युक्तयः प्रायः पूर्वत एव प्रचलिताः कवीनां स्वभावसिद्धा इव । 'मुखं दृष्ट्वा चन्द्रोऽयमिति बुद्ध्या पूर्णिमाव्र- तकारिणस्तदग्रत एवं कुसुमार्घ्यं [^१]व्यतरन् ।' 'तस्या मुखकान्त्या तत्प्रतिवेशे सर्वास्तिथयः पूर्णिमा एव भवन्ति । अन्या- स्तिथयस्तु पञ्चाङ्गेनैव [^२]बोध्या:' इत्यादि ।एवमुदात्तालंकारविधया राजादीनां समृद्ध्यतिशयोपि पुरातनै: प्रचुरं प्रख्यापित एव । 'राजाश्रितानां कवीनामपि सदनेषु महार्घं-
मुक्तामणयः संमार्जनीभिर्दूरमवक्षि [^३]प्यन्ते ।' 'वृक्षाणामालवालाश्चन्द्रकान्तमणिभिर्निर्मिताः । अत एव
चन्द्रकिरणसंस्पर्शात्प्रस्रवज्जलपूर्णेषु तेषु स्वतः सिच्यन्ते [^४]पादपा:।'
 
बाणोऽप्यस्मिन्विषये न कस्माच्चिप्रहीण: । कादम्बर्याः शीतोपचाराय मौक्तिकानि संचूर्ण्य प्रतिक्षणं जलं विकिरतां यन्त्रवृक्षाणामालवाला विरचिताः । हरिचन्दनद्रवस्य दीर्घिकाः पूरिताः । गन्धोदकपूरितेषु कूपेषु घटीयन्त्राणि (अरहट ) तादृशानि कृतानि यत्र केतकपत्रमयानि पुटकान्येव जलाधारपात्राणि ।
कुवलयावलीनां रज्जुः' इत्यादि (पृ. ४३९ ) । कादम्बरी गन्धर्वराजपुत्री । अत एव दिव्यमिदं वैभवं संभवेत् । किन्तूज्जयिनीराजभवनेपि निष्कुटेषु मणिभिः क्रीडापर्वता एव निर्मिताः । येषां मणिशिलासु अबलानां चरणालक्तकैरद्भुतैव शोभा भवति । जालवातायनविवरेभ्यो महार्घरत्नकिरणास्तथा निष्पतन्ति ये मणिखचितकनकशृङ्खला इव बहिर्निःसरन्तः प्रतीयन्ते ( पृ. १९०) ।
 
एतत्सर्वं धनसमृद्धिप्राचुर्यम् । प्राकृतशोभाप्राचुर्यमपि समृद्धिशालिषु भूपभवनेष्वत्यद्भुतमेव । गृहोद्यानेषु चकोरकादम्बहारीतादयस्तु वृक्षेषु विहरन्तः शोभन्त एव । किन्तु कस्तूरिकाकुरङ्गा अपि तत्रेतस्ततः संचरन्ति । ते च नैकद्वाः, अपि
तु अपरिमिताः, गृहवासिनां च परिचिताः । येषां नाभिपरिमलेन
दिङ्मुखान्येव सुरभितानि भासन्ते ( पु. १९५ ) । कस्तूरिकामृगो न यत्रकुत्रचित्स्थातुं शक्नोति । हिमालयस्य हिमाच्छादितस्थलेष्वेव स प्रकृतिनियमतः प्राप्यते इत्यभिज्ञा वदन्ति । किन्तु कविप्रतिभा तमपि राजभवने निगडयामास ।
 
समृद्धिमिव राज्ञां संमानमप्यसामान्यं कविरेष चित्रयामास । न केवलमाश्रिता एव, अपि तु मूर्द्धाभिषिक्ता राजानोपि तारापीडस्य चरणौ मौलिमालाभिरुपरञ्जयन्ति । राजकीयपुरुषं दृष्ट्वैव सर्वे ससंमानमभिगच्छन्ति । राजा, राजसचिवादयोऽपि राजधर्मे परिनिष्ठिताः, सद्व्यवहारिणः । अतीवनम्रा उपचारचतुराश्च । राजकुमारश्चन्द्रापीडोऽप्युपचारस्य चरमसीमानं स्पृशति । 'चरणरजोरूपाः दासानुदासा वय'मित्यादीनि विनम्रवचनानि प्रसिद्धान्येव । यवनभाषापटवोपि 'खाकसार' इत्यात्मानं व्यपदिशन्तो विनयातिशयमसामान्यमभिनयन्ति । किन्तु बाणेन तत्सीमाप्यतिलङ्घिता । चन्द्रापीडः स्वविनयमभिव्यनक्ति-
'असज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डाल: ।' [पु. ४५२]।
 
कादम्बरीकथा
 
सेयं कादम्बरीकथा बाणभट्टेन तत्समयसुप्रसिद्धाया बृहत्कथाया आधारेण गुम्फिता । यतो हि तद्गतमकरन्दिकोपाख्यानमेतस्या मूलम् । तदीयपात्राणां नामान्तराणि विधाय, कथायाश्च रसानुकूल्येन किञ्चिद्व्यत्यासमारचय्य सेयं कथोद्भाविता । महाकविक्षेमेन्द्रसोमदेवयोः समयपर्यन्तम् (नि. १०६३------) गुणाढ्यरचिता बृहत्कथा सुलभासीत् । अत एव हि तदाधारेण ताभ्यां बृहत्कथामञ्जरी-कथासरित्सागरौ रचितौ । एवं च खि. षष्ठशतकोत्पन्नस्य बाणस्य सा समुपजीव्या स्यादत्र किमाश्चर्यम् ।
 
[^१]G. 'हसितः प्रशंतसा सखि चिरमावसथिकजनः पत्या । विधुरिति तव किल वदने विस्तीर्णकुसुमाञ्जलिविलक्षः ॥"
( गाथासप्त ४।४६ )
[^२]G. 'पत्रा ही तिथि पाइये वा घरके चहुँपास । नितप्रति पूर्नोही रहत आनन ओप उजास‌‌॥ '( बिहारी ) 'तद्गृहमभितस्तिथिमहो पञ्चाङ्गादवयाति । वदनविभाप्रतिभासतः प्रतितिथि पूर्णा भाति ॥' [ साहित्यवैभवम् ]
[^३]G. 'संमार्जनीभिः परतः क्रियन्ते विसूत्रहारावलिमौक्तिकानि ॥' (नवसाहसाङ्कचरितम् )
[^४]G. नैषधीयचरिते प्रसिद्धमेव ।