This page has not been fully proofread.

कादम्बरी ।
 
वर्णनायामत्युक्तयः
 
S-
सौन्दर्यवर्णनादिपवत्युक्तयः प्रायः पूर्वत एव प्रचलिताः कवीनां स्वभावसिद्धा इव । 'मुखं दृष्ट्वा चन्द्रो •
यमिति बुद्ध्या पूर्णिमावतकारिणम्तदप्रत एवं कुसुमाध्यं व्यंतरन् ।' 'तस्या मुखकान्त्या तत्प्रतिवेशे सर्वा
स्तिथयः पूर्णिमा एव भवन्ति । अभ्यास्तिथयस्तु पञ्चाङ्गेनैव बोध्या:' इत्यादि । एवमुदात्तालंकारविधया
राजादीनां समृद्ध्यतिशयोपि पुराततैः प्रचुरं प्रख्यापित एव । 'राजाश्रितानां कवीनामपि सदनेषु महाधं-
मुक्तामणयः संमार्जनीभिरमवक्षिप्यन्ते ।' 'वृक्षाणामालवालाश्चन्द्रकान्तमणिभिर्निर्मिताः । अत एव
चन्द्र किरण संस्पर्शात्प्रस्रवज्जलपूर्णेषु तेषु स्वतः सिच्यन्ते पार्दपाः ।'
 
१०
 
बाणोऽप्यस्मिन्विषये न कस्माञ्चिहीण: । कादम्बर्याः शीतोपचाराय मौकिकान संचूर्ण्य प्रतिक्षणं
जलं विकिरतां यत्रवृक्षाणामालवाला विरचिताः । हरिचन्दनद्रवस्य दीर्घिकाः पूरिताः । गन्धोदकपूरितेषु
कूपेषु घटीयत्राणि (अरहट ) ताइवानि कृतानि यत्र केतकपत्रमयानि पुटकान्येव जलाधारपात्राणि ।
कुवलयावलीनां रजुः' इत्यादि (पृ. ४३९ ) । कादम्बरी गन्धर्वराजपुत्री । अत एव दिव्यमिदं वैभवं
संभवेत् । किन्तूज्जयिनीराजभवनेपि निष्कुटेषु मणिभिः क्रीडापर्वता एव निर्मिताः । येषां मणिशिलासु
अवलानां चरणालक्तकैरद्भुतैव शोभा भवति । जालवातायनविवरेभ्यो महार्धरत्न किरणास्तथा निष्पतन्ति
ये मणिवचितकनकशङ्खला इव बहिर्निःसरन्तः प्रतीयन्ते ( पृ. १९०) ।
 
S
 
एतत्सर्वं धनसमृद्धि प्राचुर्यम् । प्राकृतशोभाप्राचुर्यमपि समृद्धिशालिषु भूपभवनेष्वत्यद्भुतमेव । गृहो-
थानेषु चकोरकादम्बहारीतादयस्तु वृक्षेषु विहरन्तः शोभन्त एव । किन्तु कस्तूरिकाकुरङ्गा अपि तत्रेत-
स्ततः संचरन्ति । ते च नैकद्वाः, अभि जपरिमिताः, गृहवासिनां च परिचिताः । येषां नाभिपरिमलेन
दिङ्मुखान्येव सुरभितानि भ ( पु. १९५ ) । कस्तूरिकामृगो न यन्त्रकुत्रचित्स्थातुं शक्कोति । हिमा-
लयस्य हिमाच्छादितस्थले जब स प्रकृतिनियमतः प्राप्यते इत्यभिज्ञा वदन्ति । किन्तु कविप्रतिभा तमपि
राजभवने निगडयामास ।
 
34
 
समृद्धिमिव राज्ञां संमानमध्यसामान्यं कविरेष चित्रयामास । न केवलमाश्रिता एव, अपि तु मू-
भिषिका राजानोपि तारापीडस्य चरणौ मौलिमालाभिरुपरञ्जयन्ति । राजकीय पुरुषं दृष्ट्वैव सर्वे ससंमान-
मभिगच्छन्ति । राजा, राजसचिवादयोऽपि राजधर्मे परिनिष्ठिताः, सद्व्यवहारिणः । अतीवनम्रा उपचार-
चतुराश्च । राजकुमारश्चन्द्रापीडोऽप्युपचारस्य चरमसीमानं स्पृशति । 'चरणरजोरूपाः दासानुदासा वय'मि-
त्यादीनि विनम्रवचनानि प्रसिद्धान्येव । यवनभाषा पटवोपि 'खाकसार' इत्यात्मानं व्यपदिशन्तो विनयाति-
शयमसामान्यमभिनयन्ति । किन्तु बाणेन तत्सीमाध्यतिलङ्घिता । चन्द्रापीडः स्वविनयमभिव्यनक्ति-
'असज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डाल: ।' [पु. ४५२]।
 
कादम्बरीकथा
 
.
 
सेयं कादम्बरीकथा बाणभट्टेन तत्समयसुप्रसिद्वाया बृहत्कथाया आधारेण गुम्फिता । यतो हि सद्ग-
तमकरन्द कोपाख्यानमेतत्या मूलम् । तदीयपात्राणां नामान्तराणि विधाय, कथायाश्च रसानुकूल्येन
किचिव्यत्यासमारचय्य सेयं कथोद्भाविता । महाकविक्षेमेन्द्रसोमदेवयोः समयपर्यन्तम् (नि. १०६३
 
नू) गुणाढ्यरचिता बृहत्कथा सुलभासीत् । अत एव हि तदाधारेण ताभ्यां बृहत्कथामअरी-
कथासरित्सागरौ रचितौ । एवं च खि. षष्ठशतकोत्पन्नस्य बाणस्य सा समुपजीव्या स्यादन किमाश्चर्यम् ।
 
१ 'हसितः प्रशंतसा सखि चिरमावसथिकजनः पत्या । विधुरिति तव किल वदने बितीर्णकुसुमाञ्जलिविलक्षः ॥"
( गायासत ४१४६ )२ 'पत्रा ही तिथि पाइये वा घरके चहुँपास । नितप्रति पूर्वोही रहत आनन ओप उजास । '
( बिहारी ) 'तद्गृहमभितस्तिथिमहो पञ्चाङ्गादवयाति । वदनविभाप्रतिभासतः प्रतितिथि पूर्णा भाति ॥' [ साहित्यवैभवम् ]
३ 'संमार्जनीभिः परतः क्रियन्ते विसूत्रहारावलिमौक्तिकानि ॥' (नवसाहसाङ्कचरितम् ) ४ नैषधीयचरिते प्रसिद्धमेव ।