2023-11-22 11:20:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

११६
 
कादम्बरी ।
 
[ कथायाम्-
रण्याक्षपाता, कैदू[^१]कद्रूरिवानन्दित भुजंगलोका, हरिवंश कथेवानेक- बालक्रोरीडारमणीया, प्रकटाङ्ग-
नोपभोगाव्य प्यखण्डित चरित्रा, रक्त- वर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभू-
षणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोकद्युतिरवन्तीपूषूज्जयिनी नाम नगरी ।
 

 
यस्यामुत्तुङ्गसौधो [^२]त्सङ्गसंगीत सङ्गिनी नामङ्गनाना मतिमधुरेण गीतरवे [^३]णाकृष्यमाणाधोमुख-
रथतुरंग: [^४]पुरःपर्यस्तरथ-पताकापटः कृतमहाकालप्रणाम इव प्रे[^५]प्रतिदिनं [^६]लक्ष्यते गच्छ
[^७]न्दिवसकरः । यस्यां च संध्यारागारुणा इव सिन्दूरमणि- कुट्टिमेषु, [^८]प्रारब्धकमलिनीपे [^९]परिमण्डला इव
 

 
[ टि ]-
सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्य- [^1]दैत्यस्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् ।
कदूरिति । कटू
कद्रूरिति । कद्रूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोद प्रापितो भुजंगलोको [^2]गणिका-
पतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदायः । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा
प्रबन्धः सेव । अनेकेति । अनेकेषां बालानां शिशूनां या क्रीडा खेलनं तथा रमणीया मनोहरा ।
पक्षेऽनेका बढ्ह्व्यो / [^3]बालनाम्रो नृपश्स्य क्रीडोद्यानगमनादिरूपा तया मनोहरा चित्ताकर्षिणी । प्रकारान्त- रेण
पुनस्तामेव वर्णयन्नाह - प्रकटेति । प्रकटं स्पष्टमङ्गनायाः स्त्रिय उपभोगो यस्यामेवंभूताप्यखण्डितचरित्रेत्ि
ति विरोधः । तत्परिहारस्तु प्रकटाङ्गना नामुपभोगस्ताम्बूलादिरित्यर्था
दखण्डितं चरित्रं लोक- प्रशंसारूपमस्यामि-
त्यर्थाद्वा । रक्तेति । रक्तवर्णाप्य रुणवर्णापि सुधा पूर्वव्याख्यातवद्धवलेति विरोधः । तत्परिहारस्तु रक्ता अनु-

रक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित- आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्बो
ययैवंभूतापि विगतस्त्रुटितो रतादौ यो हारः स एव भूषणमलंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा
जैनप्रासादा इत्यार्थात् । 'विहारो जिनसद्मनि' इति कोशः । बहिह्विति । बह्वी प्रकृतिर्यस्यामेवंविधापि स्थिरेति
विरोधः । तत्परिहारस्तु बह्वयःव्य: प्रकृतयः पौरलोकाः । विजीति । विशेषेण जिता अमरलोकस्य देवलोकस्य
द्युतिः कान्तिर्यया सा । अवन्तीषु मालवेषु । अन्वयस्तु प्रागेवोक्तः ।
 

 
A
 

 
यस्यामिति । यस्याम् उज्जयिन्याम् । उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदे-
शस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण
गानस्वरेणाकृष्यमाणा अधोमुखा अवाङ्मुखा रथस्य स्यन्दनस्य तुरंगा अश्वा यस्य सः । पुरोऽग्रे पर्यस्तः
क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्न्व्रजन्दिवसकरः सूर्यः । आकृष्यमाणाधोमुखरथतु-
रगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिङ्गात्मकशंकरस्य प्रणामो येनैवंभूत इव प्रतिदिनमहर्निशं

लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दू-
रेति । सिन्दूरमणयो मणिविशेषा- स्तेषां कुट्टिमेषु तदारुण्यप्रतिबिम्बात्संध्यारागेणारुणा इव । संल- क्ष्यन्त इति
क्रियायाः पूर्वतः परतो वा राजन्त इति क्रियायाः सर्वत्रा- नुषङ्गः । किरणेषु मरकतहरित प्रतिबिम्बादाह-
प्रारब्धेति । प्रारब्धमाचरितं कमलिनीषु परिमण्डलं लुठनं यैस्ते तादृशा इव । मरकतवेदिकास्वंश्मगर्भ घटित-
टिप्प० -

 
 
[^
1]F. दर्शितो हिरण्याक्षस्य तदाख्यस्य दैत्यस्य पातो विनाशो यस्यामित्यर्थ उचितः ।
[^
2]F. विट-
जन इति सरलोर्थः ।
[^
3]F. यदुवंशीयानां बालानां नानाविधक्रीडाकथाभी रमणीयेति स्पष्टोऽर्थः ।

[^
4]F. दुश्चरित्रत्वेन लज्जासंकोचाद्यभावादभिव्यक्तः अङ्गनाना- मुपभोगो यस्यामेवं सत्त्वेपि अखण्डितचरित्रत्वं
विरुद्धम् । परि- हारस्तु - प्रकटः सौरभोद्वागारादिना अङ्गनानां ताम्बूलाडुपभोग
इति ।
 
पाठा० -

 
[^
]G. आस्तीकतनुरिव .
[^
]G. उत्संगीतसंगिनीनाम्; उत्सङ्गसंगिनीनाम् .
[^
]G. कृष्यमाणा .
[^
]G. पुरपर्यस्त .
[^
]G. प्रतिदिव-
म्.
[^
]G. आलक्ष्यते, .
[^
]G. भगवान्दिवस.
[^
]G. नीलकमलिनी .
[^
]G. परिमलिनी; परिमिलना; परिमलना; परिमला; परिमीलना.