कादम्बरी /148
This page has been fully proofread once and needs a second look.
भवनैः, सकल्पवृक्षेव सत्पुरुषै:, दर्शितविश्वरूपेव चित्रभित्तिभिः, संध्येव पद्म [^१]रागानुरागिणी, अमराधिपमूर्तिरिव मखशतानल- धूमपूता, पशुपतिलास्यक्रीडेव सुधाधवलाट्टहासा, वृद्धेव जातरूप- क्षया, गरुडमूर्तिरिवाच्युतस्थितिरमणीया, प्रभातवेलेव प्रबुद्धसर्व- लोका, शबरवसतिरिवा [^२]वलम्बित [^३]चामरनागदन्तघवल- गृहा, शेषतनुरिव सदासन्नवसुधाघरा, [^४]जलधिमथनवेलेव महा- घोषपूरितदिगन्तरा, प्रस्तुताभिषेक [^५]भूमिरिव [^६]संनिहित- कनक [^७]घटकसहस्रा, गौरीव महासिंहासनोचितमूर्ति: अदिति- रिव देवकुलसहस्रसेव्या, महावराहलीलेव दर्शितहि-
[ टि ]-- कैः । महाभवनैरुत्तुङ्गगृहै: । सद्मनामतिदैर्घ्येण शाखापुरो- पमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजातेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्यसहितकुड्यै: । चित्रस्य
सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूरिव । पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नबाहु- ल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमराधिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । पक्षे मखशतं शताश्वमेधाः । शेषं पूर्ववत् । पश्विति । पशुपतिरीश्वरस्तस्य लास्यक्रीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला [^1]विपणय एव अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्वद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति कोश: । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांरतस्य मूर्तिरिव । अच्युतेति । न च्युताच्युता सर्वदा स्थिरा' या स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य
कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धि: ( ? ) सेव । प्रबुद्धेति । प्रबुद्धा विशे- षाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तो- त्थिताः । शेषं पूर्ववत् । शबरेति । शबरा भिल्लास्तेषां वसति- र्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चाम-
राणि वालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा । पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनुरिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसुधाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव । महेति । महाघोषा महत्य आभीरपल्लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपल्लिका' इति कोशः । पक्षे महाघोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः पृथ्वी सेव । संनि- हितेति । संनिहिता समीपस्थाः कनक [^2]घटकाः सौवर्णिका- स्तेषां सहस्रं यस्यां सा तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहस्राः सुवर्णकुम्भ- सहस्रा यस्यामिति विग्रहः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महासुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां
देवगृहाणां सहस्रं सेव्यं यस्यां सा, बेवकुलसहस्रैः सेव्या सेवनीया । देवमातृत्वात् । महावराहेति ।
महावराह आदिवराहस्तस्य लीला क्रीडा सेव । दर्शितेति । दर्शितो दृग्विषयीकारितो हिरण्य
टिप्प०-[^1]F. सुधया धवलानाम् अहाट्टानामहाट्टालिकानां हासः प्रकाशो यस्यां सा, इत्यर्थः ।
[^2]F. 'कम-
नकघटसहस्रा' इति पाठे तु अभिषेक भूमौ स्त्रानानीय- घटसहस्रम्, नगर्यां तु मङ्गलार्थथं द्वारेषु स्थापितं घटसहस्रं
बोध्यम् ।
[^3]F. गौरीपक्षे - महासिंहरूपेभाआसने उचितेत्यर्थः ।
पाठा०—[^१]G. रागारुणा.
[^२]G. आलम्बित .
[^३]G. चारुचामर, .
[^४]G. जलनिधि .
[^५]G. भूमी; वेलेव.
[^६]G. सदासंनिहित,.
[^७ म]G. घटः कलश.
[ टि ]-- कैः । महाभवनैरुत्तुङ्गगृहै: । सद्मनामतिदैर्घ्येण शाखापुरो- पमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजातेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्यसहितकुड्यै: । चित्रस्य
सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूरिव । पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नबाहु- ल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमराधिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । पक्षे मखशतं शताश्वमेधाः । शेषं पूर्ववत् । पश्विति । पशुपतिरीश्वरस्तस्य लास्यक्रीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला [^1]विपणय एव अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्वद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति कोश: । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांरतस्य मूर्तिरिव । अच्युतेति । न च्युताच्युता सर्वदा स्थिरा' या स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य
कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धि: ( ? ) सेव । प्रबुद्धेति । प्रबुद्धा विशे- षाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तो- त्थिताः । शेषं पूर्ववत् । शबरेति । शबरा भिल्लास्तेषां वसति- र्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चाम-
राणि वालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा । पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनुरिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसुधाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव । महेति । महाघोषा महत्य आभीरपल्लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपल्लिका' इति कोशः । पक्षे महाघोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः पृथ्वी सेव । संनि- हितेति । संनिहिता समीपस्थाः कनक [^2]घटकाः सौवर्णिका- स्तेषां सहस्रं यस्यां सा तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहस्राः सुवर्णकुम्भ- सहस्रा यस्यामिति विग्रहः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महासुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां
[^2]F. 'क
[^3]F. गौरीपक्षे - महासिंहरूपे
[^२]G. आलम्बित
[^३]G. चारुचामर
[^४]G. जलनिधि
[^५]G. भूमी; वेलेव.
[^६]G. सदासंनिहित