This page has not been fully proofread.

उज्जयिनी ]
 
पूर्वभागः ।
 
११५
 
भवनैः, सकल्पवृक्षेव सत्पुरुषः, दर्शितविश्वरूपेव चित्रभित्तिभिः, संध्येव पद्मरागानुरा-
गिणी, अमराधिपमूर्तिरिव मखशतानलधूमपूता, पशुपतिलास्यक्रीडेव सुधाधवलाट्टहासा,
वृद्धेव जातरूपक्षया, गरुडमूर्तिरिवाच्युत स्थितिरमणीया, प्रभातवेलेव प्रबुद्धसर्वलोका, शब-
रवसतिरिवावे लम्बितचामैरनागदन्तघवलगृहा, शेषतनुरिव सदासन्नवसुधाघरा, जलधिम-
थनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेक भूमिरिव संनिहितकनकँघटकसहस्रा, गौ-
रीव महासिंहासनोचितमूर्ति: अदितिरिव देवकुलसहस्रसेव्या, महावराहलीलेव दर्शितहि-
कैः । महाभवनैरुत्तुङ्गगृहै: । सद्मनामतिदैर्घ्येण शाखापुरोपमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजा-
तेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि
प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्य सहितकुज्यैः । चित्रस्य
सकलवस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूवि । पद्मेति । पद्मरागो भणिस्तस्यानुरागो रक्तिमा
यस्यां सा । अनेन रत्नबाहुल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमरा-
धिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा ।
एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । पक्षे मखशतं शताश्वमेधाः । शेषं पूर्ववत् । पश्चिति । पशुपति-
रीश्वरस्तस्य लास्यकीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला विपर्णय एव
अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्वद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव
स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति
कोश: । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांरतस्य मूर्तिरिव ।
अच्युतेति । न च्युताच्युता सर्वदा स्थिरा' या स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य
कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य वेलाम्भसो वृद्धि: ( ? ) सेव ।
प्रबुद्धेति । प्रबुद्धा विशेषाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तोत्थिताः । शेषं पूर्ववत् ।
शबरेति । शबरा भिल्लास्तेषां वसतिर्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चाम
राणि वालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि ववलगृहाणि राजगृहाणि यस्यां सा ।
पक्षेऽवलम्बितानि चामराणि नागदन्ता गजन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनु-
रिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्नाः समीपस्था वसु-
धाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनीं वसुधां पृथ्वीं धारयति सा तथा ।
 
· जलधीति । जलधिः समुद्रस्तस्य मथन आलोडने या वेला सेव । महेति । महाघोषा महत्य आभीरप-
लिकास्ताभिः पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपलिका' इति कोशः । पक्षे महा-
घोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषे कोऽभिषिञ्चनं तस्य या भूमिः
पृथ्वी सेव । संनिहितेति । संनि समीपस्थाः कनकर्घटकाः सौवर्णिकारतेषां सहस्रं यस्यां सा
तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहस्राः सुवर्ण-
कुम्भसहस्रा यस्यामिति विग्रहः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महा-
सुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां
देवगृहाणां सहस्रं सेव्यं यस्यां सा, बेवकुलसहस्रैः सेव्या सेवनीया । देवमातृत्वात् । महावराहेति ।
महावराह आदिवराहस्तस्य लीला क्रीडा सेव । दर्शितेति । दर्शितो दृग्विषयीकारितो हिरण्य
 
टिप्प०-1 सुधया धवलानाम् अहानामहालिकानां हासः प्रकाशो यस्यां सा, इत्यर्थः । 2 'कम-
कघटसहस्रा' इति पाठे तु अभिषेक भूमौ स्त्रानीयघटसहस्रम्, नगर्यां तु मङ्गलार्थ द्वारेषु स्थापितं घटसहस्रं
बोध्यम् । 3 गौरीप - महासिंहरूपे भासने उचितेत्यर्थः ।
 
पाठा०—१ रागारुणा. २ आलम्बित ३ चारुचामर, ४ जलनिधि ५ भूमी; वेलेव. ६ सदासंनिहित,
 
७ मटः कलश.