This page has not been fully proofread.

कादम्बरी ।
 
११४
 
[ कथायाम
 
रेण सर्वलिपिज्ञेन महाभारतपुराणरामायणानुरागिणा बृहत्कथाकुशलेन द्यूतादिकलाकलापणा-
रगेण श्रुतरागिणा सुभाषितव्यसनिना प्रशान्तेन सुरभिमासमारुतेनेव सततदक्षिणेन हिमगि-
रिकाननेनेवान्तःसरलेन लक्ष्मणेनेव रामाराधनानिपुणेन शत्रुघ्नेनेवाविष्कृत भरतपरिचयेन
दिवसेनेव मित्रानुवर्तिना बौद्धेनेव सर्वास्तिवादशूरेण सांख्यागमेनेव प्रधान
पुरुषोपेतेन जिन-
धर्मेणेव जीवानुकम्पिना विलासिजनेनाधिष्ठिता, सरौलेव प्रासादैः, सशाखानगरेव महा-
चतुरेणाभिज्ञेन । सर्वेति । सर्वाः समग्रा या लिपयोऽक्षरविन्यासास्तासां ज्ञेन तज्ज्ञानवता । महेति ।
महाभारतं प्रसिद्धम्, पुराणं पञ्चलक्षणम्, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतस्नेहेन । बृहदिति ।
बृहत्कथा वासिष्ठादिकथा तत्र कुशलेन तद्रहस्यवेदिना । द्यूतादीति । द्यूतादयो दुरोदरप्रभृतयो याः
कला विज्ञानैकदेश स्तासां कलापः समूहस्तस्य पारगेण पारदृश्वना । श्रुतं शास्त्रमात्रं तत्र रागिणा-
भ्यन्तरप्रीतिमता । सुभाषितेति । सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन क्रोध-
निर्मुक्तेन । केनेव । सुरभीति । सुरभिमासो वसन्तमासस्तस्य मारुतो वायुस्तेनेव । सततेति । सततं
निरन्तरं दक्षिणा त्यागो यस्य स तथा तेन । पक्षे सततं दक्षिणेन दक्षिण दिग्गामिना । हिमेति । हिम-
गिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव । अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन । पक्षे सरला वृक्ष-
विशेषाः । लक्ष्मणेति । लक्ष्मणः सौमित्रिस्तेनेव । रामेति । रामस्य दाशरथेर्यदाराधनं समुपासनं
तत्र निपुणेन कुशलेन । पक्षे रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्ते नेवा वि
ष्कृतः प्रकटीकृतो भरते नाट्यशास्त्रे परिचयः परिचितिर्येन स तथा । पक्षे भरतः शत्रुघ्नभ्राता । दिवसेनेव
वारेणेव । मित्रमिति । मित्रं सुहृत्तदनुवर्तिना तच्चित्ताराधकेनेत्यर्थः । पक्षे मित्रः सूर्यस्तदनुवर्तिना तदा -
यत्तेनेत्यर्थः । बौद्धेति । बौद्धः सुगतस्तेनेव । सर्वेति । सर्वस्य वस्तुनो योऽस्तिवादः सर्वमस्तीति जल्पनं
तत्र शूरेण धीरेण । कदाचिदपि नास्तीति न ब्रुवतेति भावः । पक्षे सर्वास्तिवादो बौद्धानां निकायभेदः
सच शूरो यस्मिन् । अतः परं सिद्धान्ताभावात् । यद्वा सर्वेषां पदार्थानां सर्ववादिनां वा योऽस्ति -
वादोऽक्षणिकवादस्तत्र शूरेण तदवक्षेपण । सांख्येति । सांख्याः कापिलास्तेषामागमः सिद्धान्तस्तेनेव ।
प्रधानेति । प्रधाना मुख्या ये पुरुषाः पुमांसस्तैरुपेतेन सहितेन । पक्षे प्रधानं सत्त्वादीनां साम्यावस्था,
पुरुषश्चेतनारूप आत्मा । यदुक्तम्- 'अजामेकां लोहितशुक्लकृष्णाम्' 'अजो ह्येकः' इत्यादि । प्रधानश्वासौ
पुरुषश्च तेनोपेतेन । जिनेति । जिनः सर्वज्ञस्तस्य धर्मो वृषस्तेनेव । जीवेति । जीवे प्राणिन्यनुकम्पा
यस्येत्यर्भंङ्गलेषः । पुनः प्रकारान्तरेण नगरीं वर्णयन्नाह --- सरौलेति । सशैलेव सपर्वतेव । कैः ।
प्रासादैर्देवभूपसदनैः । अतिमहत्त्वाच्छैलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव ।
 

 
टिप्प० - 1 गुणाढ्यकृतः प्राकृतग्रन्थ इति व्याख्योचिता । 2 सततं दक्षिण: उदारचरितस्तेने ति
सरलोऽर्थः । 3 सर्वेषां भूतभौतिकानां बाह्यानां चित्तचैत्तानाञ्चाभ्यन्तराणां पदार्थानाम् अस्तिवादे
अस्तित्वभाषणे शूरेण, तदस्तित्वस्य युक्त्यादिना समर्थनान्नितान्तदक्षेण । तथाच शारीरकभाष्यम् -
'बौद्धसिद्धान्ते एते त्रयो वादिनो भवन्ति । केचित् सर्वास्तित्ववादिनः केचिद्विज्ञानास्तित्वमात्रवादिनः,
अन्ये पुनः सर्वशून्यत्ववादिनः । तत्र ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं
भौतिकं चित्तं चैत्तं चेति तांस्तावत् प्रति ब्रूमः ।' 4 इदं विशेषणमुभयन्नापि सममित्यर्थः ।
 
पाठा० - १ सर्वदा नास्तिवादशूरेण; सर्वास्तिवादशून्येन. २ पुरुषगुणोपेतेन विकासि, ३ सर्वजीवानुक-
म्पिना; सर्वभूतानुकम्पिना. ४ सशाखेव.