2023-11-21 12:32:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उज्जयिनी ]
 
पूर्वभागः ।
 
११३
 
रेणेबोवो [^१]द्धृतसमप्ग्रसागररत्नसारेण संगृहीतगारुडेनापि [^२]भुजंगभीरुणा खै[^३]स्वलोपजीविनापि प्रणयिज-
नोपजीव्यमान- विभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदार-
संतुष्टेनातिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन कामा-
र्थपरेणापि धर्मप्रधानेन महास
त्त्वेनापि परलोकमीभीरुणा सकल- [^४]विज्ञान विशेषविदा वे[^५]वदान्येन [^६]दक्षेण स्मितपूर्वाभि- भाषिषेणा परि-
हासपेशलेनोज्ज्वलवेषेण शिक्षिताशेषदेशभाषेणं वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु-

 
[ टि]--
धायकेनेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव । तदुभयं विशिष्टि - उद्धृतेति । उदूर्ध्वं धृतानि समधा-
ग्राण्यखिलानि सागर-
व [^1]
त्समुद्रवद्रत्नेषु साराणि मुख्यरत्नानि येन । पक्ष उद्धृतानि बहिनींर्नीतानि समग्राणि सागरात्समु-
द्राद्रत्नसाराणि चतुर्दशरत्नानि येन । संगृहीतेनेति । संगृहीतं गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि

भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतिधूर्तीतो वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवती -
त्येवंशीलेनापि प्रणयि- जनेन सज्जनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरो-
धः । तत्परिहारस्तु
खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजी- विना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि
सुभटे- नापि विनयवता नमनशीलेनेति विरोधः । तत्परिहारस्तु वीरेण
विरा [^2]जमानेनेत्यर्थात् । प्रियमिति ।
प्रियमेव वदतीति प्रियंवद- स्तेनैवंभूतेनापि सत्यवादिनेति विरोधः । तत्परिहारस्तु प्रियो वल्लभो वदों[^3]वदो वक्ता यस्ये-
त्यर्थात् । 'अनुखास्वारः श्लेषभङ्गकृन्न भवति' इति प्राञ्चः । अभीति । अभिरूपेणाप्यतिसुन्दरेणापि स्वस्य दाराः
स्त्रियस्तेष्वेव ( स्त्री तस्यां ) [^4]संतुष्टेन संतोषिणेति विरोधः । तत्परिहारस्त्वभिरूपेण पण्डितेनेत्यर्थात् । 'कृतिकृष्ट्य-
भिरूप- धीराः' इति कोशः । अतिथीति । अतिथिजनोऽभ्यागतजनस्तस्या- भ्यागम आगमनं तदर्थिनापि परेषु
यत्प्रार्थनं याचनं तत्रानभिज्ञेना- कुशलेनेति विरोधः । तत्परिहारस्तु [^5]साधुजनाभ्यागमस्यार्थिना वाञ्छकेनेय-
त्यर्थात् । कामेति । कामः स्त्रीषु रतिः, अर्थो द्रव्यम् तत्परेण तदासक्तेनापि धर्मप्रधानेनेति विरोधः । तत्प
रिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थस्तत्परेण तत्साधकेनेत्यर्थात् । महेति । महासत्त्वेनापि महासत्त्वव-
तापि परे शत्रवस्तेषां लोकः समूह- स्तस्माद्भीरुणा साशकेनेति विरोधः । तत्परिहारस्तु परलोको भवा-

न्तरमित्यर्थात् । सकलेति । सकलं समग्रं यद्विज्ञानं शिल्पादि तस्य यो विशेषस्तारतम्यं तद्विदा तद्वेत्रा ।
वदान्येन दानतत्परेण प्रियं- वदेन च । 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः । दक्षेण चतु-
रेण । स्मितेति । अदृष्टरदं हास्यं स्मितं तत्पूर्वं यथा स्यात्तथाभि- भाषिणा जल्पकेन । परीति ।
परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण । 'पेशलं हृद्यसुन्दरम्' इति कोशः । उज्ज्वलेति । उज्ज्वलो
निर्मलो वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिता- भ्यस्ताशेषाणां समग्राणां देशानां जनप-
दानां भाषा वाग्येन स तथा तेन । वक्रोक्तीति । वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुणेन दक्षेण ।
आख्यायीति । 'आख्यायिका पुरावृत्तमाख्यानं सांप्रतं च तत्' इति कोशः । तत्र यः परिचयः संस्तवरतत्र
 

 
टिप्प० –
स्तत्र
 
 
[^
1]F. उद्धृतं धनद्वारा संगृहीतं समस्तसागररतात्नानां सारमुत्कृ- ष्टांशो येन ( विलासि० ) , इति
तु सरला व्याख्या ।
[^
2]F. वीरेणापि विनयवता शिक्षावतेति परिहार उचितः ।
[^
3]F. प्रियंवदत्वेपि
मितभाषित्वात्परिहारः सरलः ।
[^
4]F. अभि अभिमतं रूपं यस्य तेन ( रूपपक्षपातिना ) । रूपैकपक्ष-
पातिनः कुरूपभार्यरचेत्वे सति सुरूपाऽन्यस्त्रीगामितया संतुष्टत्वं विरुद्धमिति व्याख्यानमुचितम् ।

[^
5]F. अतिथयोपि परे एवेति विरोधः परेषु अर्थप्रार्थनाऽनभिज्ञेनेति तत्परिहारः ।
 
पाठा ०

 
[^
]G. उद्धतसमस्त.
[^
]G. भुजंग; भुजंगसङ्ग .
[^
]G. सकलोपजीविना; कलोपजीविना.
[^
]G. विज्ञानविदा.

[^५]G.
विद्यावदातेन दानशीलेनादीनेन .
[^
]G. दक्षिणेन.
 

१५ का०