कादम्बरी /146
This page has not been fully proofread.
उज्जयिनी ]
पूर्वभागः ।
११३
रेणेबोद्धृतसमप्रसागररत्नसारेण संगृहीतगारुडेनापि भुजंगभीरुणा खैलोपजीविनापि प्रणयिज-
नोपजीव्यमानविभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदार-
संतुष्टेनातिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महास•
त्वेनापि परलोकमीरुणा सकलविज्ञान विशेषविदा वेदान्येन दक्षेण स्मितपूर्वाभिभाषिणा परि-
हासपेशलेनोज्वलवेषेण शिक्षिताशेषदेशभाषेणं वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु-
धायकेनेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव । तदुभयं विशिष्टि - उद्धृतेति । उदूर्ध्वं धृतानि समधा-
ण्यखिलानि सागरवत्समुद्रवद्रत्नेषु साराणि मुख्यरत्नानि येन । पक्ष उद्धृतानि बहिनींतानि समग्राणि सागरात्समु-
द्राद्रत्नसाराणि चतुर्दशरत्नानि येन । संगृहीतेनेति । संगृहीतं गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि
भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतिधूर्ती वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवती -
त्येवंशीलेनापि प्रणयिजनेन सज्जनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः । तत्परिहारस्तु
खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजीविना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि
सुभटेनापि विनयवता नमनशीलेनेति विरोधः । तत्परिहारस्तु वीरेण विराजमानेनेत्यर्थात् । प्रियमिति ।
प्रियमेव वदतीति प्रियंवदस्तेनैवंभूतेनापि सत्यवादिनेति विरोधः । तत्परिहारस्तु प्रियो वल्लभो वदों वक्ता यस्ये-
त्यर्थात् । 'अनुखारः श्लेषभङ्गकृन्न भवति' इति प्राञ्चः । अभीति । अभिरूपेणाप्यतिसुन्दरेणापि स्वस्य दाराः
स्त्रियस्तेष्वेव ( स्त्री तस्यां ) संतुष्टेन संतोषिणेति विरोधः । तत्परिहारस्त्वभिरूपेण पण्डितेनेत्यर्थात् । 'कृतिकृष्ट्य-
भिरूपधीराः' इति कोशः । अतिथीति । अतिथिजनोऽभ्यागतजनस्तस्याभ्यागम आगमनं तदर्थिनापि परेषु
यत्प्रार्थनं याचनं तत्रानभिज्ञेनाकुशलेनेति विरोधः । तत्परिहारस्तु साधुजनाभ्यागमस्यार्थिना वाञ्छकेनेय-
र्थात् । कामेति । कामः स्त्रीषु रतिः, अर्थो द्रव्यम् तत्परेण तदासक्तेनापि धर्मप्रधानेनेति विरोधः । तत्प
रिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थस्तत्परेण तत्साधकेनेत्यर्थात् । महेति । महासत्त्वेनापि महासत्त्वव-
तापि परे शत्रवस्तेषां लोकः समूहस्तस्माद्भीरुणा साशकेनेति विरोधः । तत्परिहारस्तु परलोको भवा-
न्तरमित्यर्थात् । सकलेति । सकलं समग्रं यद्विज्ञानं शिल्पादि तस्य यो विशेषस्तारतम्यं तद्विदा तद्वेत्रा ।
वदान्येन दानतत्परेण प्रियंवदेन च । 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः । दक्षेण चतु-
रेण । स्मितेति । अदृष्टरदं हारयं स्मितं तत्पूर्व यथा स्यात्तथाभिभाषिणा जल्पकेन । परीति ।
परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण । 'पेशलं हृद्यसुन्दरम्' इति कोशः । उज्वलेति । उज्ज्वलो
निर्मलो वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिताभ्यस्ताशेषाणां समग्राणां देशानां जनप-
दानां भाषा वाग्येन स तथा तेन । वक्रोक्तीति । वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुणेन दक्षेण ।
आख्यायीति । 'आख्यायिका पुरावृत्तमाख्यानं सांप्रतं च तत्' इति कोशः । तत्र यः परिचयः संस्तवरतत्र
।
टिप्प० – 1 उद्धृतं धनद्वारा संगृहीतं समस्तसागररतानां सारमुत्कृष्टांशो येन ( विलासि० ) , इति
तु सरला व्याख्या । 2 वीरेणापि विनयवता शिक्षावतेति परिहार उचितः । 3 प्रियंवदत्वेपि
मितभाषित्वात्परिहारः सरलः । 4 अभि अभिमतं रूपं यस्य तेन ( रूपपक्षपातिना ) । रूपैकपक्ष-
पातिनः कुरूपभार्यरचे सति सुरूपाऽन्यस्त्रीगामितया संतुष्टत्वं विरुद्धमिति व्याख्यानमुचितम् ।
5 अतिथयोपि परे एवेति विरोधः परेषु अर्थप्रार्थनाऽनभिज्ञेनेति तत्परिहारः ।
पाठा ०१ उद्धतसमस्त. २ भुजंग; भुजंगसङ्ग ३ सकलोपजीविना; कलोपजीविना. ४ विज्ञानविदा.
विद्यावदातेन दानशीलेनादीनेन ६ दक्षिणेन.
१५ का०