कादम्बरी /145
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
नैकलिताभिरमृतफेनपुञ्जपाण्डुराभिर्दिर्शि दिशि दन्तवलभिकाभिर्धवलीकृता, यौवनमदमत्त-
मालवीकुचकलशलुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरितमालोक्यो पैजातेय-
येव सतत्समावद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, सँकलभुवनख्या-
तयशसा हरजटाचन्द्रेणेव कोटिसारेण मैनाकेनेवाविदितपक्षपातेन मन्दाकिनीप्रवाहेणेव प्रक-
टित कनकपझराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपारामसुरर्सदनसेतुयन्त्र प्रवर्तकेन मन्द-
११२
अमृतेति । अमृतस्य पीयूषस्य यः फेनपुञ्जो डिण्डीरपिण्डस्त द्वत्पाण्डुराभिः शुभ्राभिः । सिप्रावर्णनद्वारा नगरीं
वर्णयञ्जाह — यौवनेति । यौवनमदेन तारुण्याभिमानेन मत्ता उच्छृङ्खला या मालव्यो मालवदेशोद्भवाः
त्रियस्तासां कुचा एव कलशास्तैर्लुलितमान्दोलितं सलिलं यस्याः सा तया । भगवत इति । भगवतो महा-
कालस्य महाकालाभिधानस्येश्वरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समाबद्धा
सम्यक्प्रकारेणाबद्धा बन्धं प्रापिता ये तरंगाः कल्लोलास्त एव भृकुटिलेखा भृकुटिपयिया सा तथोपजाते-
येवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति । खमाकाशं क्षालयन्त्येव निर्मलं
कुर्वत्येवंविधया सिप्रया सिप्रानद्या परिक्षिप्ता परिवेष्टिता । इभ्यजनवर्णनद्वारा नगरी विशेषयन्नाह - विलासि-
जनेनाधिष्ठितेति दूरेणान्वयः । नत्र विलासिनीनां जनो, विलासी यो जन इत्येवं समासमेदेन द्वयोर्ब्रहणम् ।
अथ विलासिजनविशेष - कीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वर जटा स्थनिशानाथेनेव । उभयं
विशिनष्टि-सकलेति । सकलं समग्रं यद्भुवनं विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्येषां ते तथा ।
पक्षे यशः कान्तिर्यस्येति विग्रहः । कोटीति । कोटि: संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा ।
' सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटिरप्रभागस्तेन सारः प्रधानः । पुनः केनेव । मैनाकेनेव
हिमाचलात्मजेनेव । उभयं विशिनष्टि - अविदितेति । अविदितोऽनंनुभूतः पक्षयोः पातरछेदो येन
स तथा तेन । इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः, पर मैनाकस्य न कृत इति प्रसिद्धिः । पक्षेऽवि-
दितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्याः प्रवाहो रयस्तेनेव ।
उभयं विशेषचनाह– प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णस्य । पद्मेति । पदैकदेशे पदस-
मुदायोपचारात्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः ।
स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेव । उभयं विशिष्ट – समेति । सभा संसदावसथं छात्र-
व्रतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम् सुरसदनं देव-
गृहम, सेतुः पालिः, यन्त्रोऽरघट्टका दिगृहायाश्रमस्थत्वात् एतेषां प्रवर्तकेन प्रयोजन । पक्षे धर्मजनकत्वात्तद्वि-
"
>
:
टिप्प० - 1 'उपजातेयेयेव जावद्धतरंगभुकुटिलेखया' इतिक्रमेण व्याख्यानमुचितम्, सेर्ण्यत्वे एव
भुकुटिबन्धौचित्यात् । अत्र कार्येण ( भुकुटिबन्धेन ) शिप्रायां सपत्नीव्यवहारसमारोपात रूपकगर्भा
समासोक्तिः, 'समुपजातेयेयेव' खमिव क्षालयन्त्या, इत्युत्प्रेक्षाद्वयेन अङ्गभूतेन संकीर्यते । 2 स्वर्गङ्गा
इत्यर्थः, तस्यामेव कनककमलसद्भावात् । 3 वस्तुतस्तु - प्रकटितः कनकानां सुवर्णानां पद्मराशिः
'पद्म' संख्यकपुओ येन । कोटि - अर्बुदवत् 'पद्म' इति संख्या । एतेन अप्रकटः ( गुप्तः ) धनराशिस्तु
विलासिजनस्य न जाने कियान् स्यादिति व्यङ्ग्यम् ।
पाठा० -१ कदलिताभिः.
8 समानद्धभूकुटि; भागद्धतरंगञ्जुकुटी
२ दिशि दन्त. ३ क्षुभित. ४ आलोक्यमुपजात.
७ निखिलभुबनतल ८ सदने,
9
५ समुपजातेयेया.