कादम्बरी /144
This page has not been fully proofread.
उज्जयिनी ]
पूर्वभागः ।
रक्तचामरैर्विद्रुममयैः प्रतिगृहमुच्छ्रितैर्मकैराङ्क: संदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा,
सतत प्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिलसीकरासारस्तब-
कर चितदुर्दिनेषु पर्यस्तरँविकिरणरचितसुरचापचारुषु धारागृहेषु मंत्तमयूरैर्मण्डलीकृतशि-
खण्डैस्टाण्डवव्यसनिमिराबध्यमान के काकोलाहला, विकचकुवलयकान्तैरुत्फुल्लकुंमुधवलोद-
रैर निमिषदर्शन रमणीयैराखण्डललोचनैरिव सहस्रसंख्यैरुद्भासिता सरोभिः, अविरलकदलीव-
१११
साम्यं प्रदर्शयन्नाह - रणितेति । रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोर्न्यस्ता
घण्टा बृहत्किङ्किण्यो येषु तैः । आलोहीति । आलोहितं रक्तमंशुकं तस्य पताका वैजयन्त्यो
येषु तैः । आबद्धेति । आबद्धानि बद्धानि रक्तचामराणि लोहितवालव्यजनानि येषु तैः । विद्रुमेति ।
विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः । प्रतिगृहं प्रतिसद्मोच्छ्रितरूवकृतैः । मकरो मत्स्यस्तस्याङ्कञ्चिहं येषु
तैः । एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा । सततमिति । सततं निरन्तरं प्रवृत्तः
प्रसृतोऽध्ययनस्य शास्त्रपाठस्य ध्वनिः शब्दस्तेन धौतं क्षालितं कल्मषं पातकं यस्यां सा । पुनः प्रकारान्तरेण
तो विशिष्ट - धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिराबध्यमानोऽन्योन्याश्लिष्टतया
क्रियमाण: केका मयूरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम् । यन्त्रगृहाणां जलधरसादृश्यं विशेष-
णमुखेन दर्शयन्नाह - स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं
घोरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेग-
वान्वर्षो येष्वेवंविधाः स्तबका गुच्छकास्तै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेषु । आसारस्य स्तबका
इति समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं, विहितं यत्सुरचा.
मिन्द्रधनुस्तेन चारुषु मनोहरेषु । रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरुत्प्रेक्षा । अथ मयू-
रान्विशिनष्टि-मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा बर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो
मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः अत एव ताण्डवव्यसनिभिर्नृत्यरसिकैः । पुनः कीदृशी । सरोभिस्खटा-
कैः उद्भासिता उपशोभिता । अथ च सरोविशेषणानि — विकचेति । विकचानि विकस्वराणि कुवल-
यान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुल्लानि विनिद्राणि यानि कुमुदानि कमलानि
तद्वद्धवलं शुभ्रदरं मध्यभागो येषां तैः । कैरिव । सहस्रसंख्यैराखण्डलस्येन्द्रस्य लोचनैरिव । अथोभौ
विशेषयन्नाह
– अनिमिषेति । अनिमिषा मत्स्यास्तेषां दर्शनं विलोकनं तेन रमणीयैर्मनोहरैः । पक्षेऽनिमिषं
पक्ष्मपातरहितं यद्दर्शनमीक्षणं तेन रमणीयैः मनोहरैः । गृहवर्णनद्वारा तां पुनर्विशिष्टि - दिशीति ।
दिशि दिशि प्रतिदिशं दन्तवलभिकाभिर्गजदन्तनिर्मितच्छँदिभिराधारभूताभिर्धवलीकृता । अथ वलभीवि-
शेषणानि – अविरलेति । अविरलानि निबिडानि यानि कदलीवनानि रम्भावनानि तैः कलिताभिः ।
टिप्प० - 1 पर्यस्तैः काचकपाटादिषु निपतितै रविकिरणैर्नाना वर्णशालिनः सुरपतिधनुषः संसिद्धिः
स्वाभाविक्येव, न तन्त्र संभावनेति नोव्प्रेक्षा । किन्तु समग्रे वाक्यार्थे – अन्योन्याश्लिष्टकेका कोलाह-
लेन मयूराणां मुरजरवादौ मेघगर्जनादिभ्रान्तिः प्रतीयत इति वस्तुना अन्तिमदलंकारध्वनिः । 2 क्षत्र
हि आखण्डलोचनैः सह सरसां साम्यात्पूर्णोपमा । तेन सर्वाणि विशेषणान्युभयसंबद्धानि । ततश्च - विक-
चकुवलयवत्कान्तैः (इति लोचनपक्षे ), उत्फुल्लैः कुसुदैर्धवलानि मध्यस्थलानि येषां तैः ( इति सरःपक्षे )
व्याख्यानमप्यत्र योजनीयम् । 3 अविरलं यत्कदलीवनं पताकासमूहस्तेन कलिताभिः फेनपुञ्जपाण्डुराभिः
दन्तवलभिकाभिः उपरितलगतलघुगृहै: ('अटारी' हिन्दी ) 'शुद्धान्ते वलभी चन्द्रशाले सौधोर्ध्ववेश्मनि'
इति रभसः । 'यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः' इति माघश्च । कदली पताका ।
'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । उपरितनटीका तु असंबद्धत्वात्प्रामादिकी ।
पाठा०
-१ प्रतिभवनम् २ मकराङ्कितै: ३ मदन. ४ आसाररचित ५ पर्यन्त ६ दिवसकर किरणस्त न करचित.
७ चारुधारा ८ मयूरमण्डलैरा मण्डलीकृत ९ केकारव. १० कमल.
●