2023-11-20 13:40:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुलेखे---
 
भिरगस्त्यपरिपीतसलिलैः मासागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्वविद्याध -
रोरगाध्यासिताभिश्चित्रशाला [^१]भिर- विरतो [^२]त्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दि-

व्यविमानपङ्क्तिभिरिवालंकृता, मै[^३]मथनो [^४]द्धतेंदुग्धधवलि- तमन्दरद्युतिभिः कनमयामलकलश-
शिखरैरनिलदोलायित-
सितध्वजैरुपरिपतद्भ्रगङ्गैरिव तुषारगिरिशिखरैरमरमन्दिरैर्विरा- जित-
शृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरत चलितजल घटीय ब्र न्त्रसिच्यमानहरितोपवनान्ध-
कारैः केतकीधूलिधूसरैरुपशल्य- कै [^५]रुपशोभिता, मदमुखरमधु [^६]करकुलान्धकारितनिष्कु- टा, स्फु-
रं
दुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभाग्य- घण्टैरालोहितांशुकपताकैराबद्ध-
११०
 

 
[ टि ]--
निचितैर्व्याप्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तन परि-
तेन परिपीतं सलिलं जलं येषां तैः सागरैरिव समुद्ररिव । महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या
ये पन्थानो मार्गास्तै रुपशोभिता विराजमाना । 'ऋक् -' इति सूत्रेण पर्थोऽकारान्तत्वम् । सुरेति । सुरा देवाः,

असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः एतैरध्या-
सिताभिराश्रिताभिश्चित्रोपलक्षि-
तशालाभिरलंकृता भूषिता । काभिरिव । दिव्य विमानपङ्किभिरिव देवयानश्रेणि-
भिरिव । तस्याः कथमत्रागम इत्यारेकायामाह-अविर- तेति । अविरतं निरन्तरं य उत्सवो महस्तस्मिन्याः
प्रमदा योषित- स्तासां यदव लोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्यं तस्मादिति हेत्वर्थे पञ्चमी । अम्बरतला-
दाकाशादवतीर्णाभिरुती र्णाभिः । आगताभिरिति यावत् । अमरेति । अमरमन्दिराणि देवप्रासादास्तै-

विराजितानि शोभमानानि [^1]शृङ्गाटकानि त्रिमार्गाश्लेषरूपाणि यस्यां सा तया । 'त्रिमार्गाश्लेषः शृङ्गाट'
इति कोशः । कैरिव । तुषार गिरि र्हिमाद्रिस्तस्य शिखरैः सानुभिरिव । देवगृह- गिरि- शिखरयोः साम्यं प्रदर्श-
यामा
यन्नाह -- मथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितो धवलीकृतो यो

मन्दरो मेरुरतद्वद्द्युतिः कान्तिर्येषां तैः । कनकेति । कनकमयाः स्वर्णमया अमला निर्मला ये कलशा
लघुकुम्भास्त एव शिख- राण्यप्ग्राणि येषां ते तथा तैः, पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनि-
लेति । अनिलैर्वायुभिर्दोलायिताः प्रेङ्खावदाचरिताः सितध्वजाः श्वेतवैजयन्त्यो येषु तैः । कैरिव । उपरिपत-
दभ्रगङ्गैरिवो- परिष्टात्पतन्ती स्रवन्त्यभ्रगङ्गा स्वर्धुनी येषु तैरिव । सुधैधेति । सुधा प्रागेव व्याख्याता तयोप-
लक्षिता या वेदिका पीठबन्धस्तयोपशो- भिताः शोनांभां प्रापिता उदपाना: कूपा येषु तैः । 'कूपः स्यादुद-

पानोऽन्धुः' इति कोशः । अनवरतेति । अनवरतं निरन्तरं चलितं भ्रामितं यज्जलघटीयन्त्रमरघ-
रट्टस्तेन । कारणेन कार्योपचारात् । सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्ध- काराणि
येषु तैः । केतकीति । [^2]केतक्या मालत्या या धूलि: पराग- स्तेन धूसरैर्मलिनै रेवंभूतै रुपशल्य कैर्ग्रामसीमाभिः
उपशोभिता विभूषिता । 'ग्रामसीमा तूपशल्यम्' इति कोशः । मदेति । मदेन मधुपानेन मुखराणि
बा
वाचालानि यानि मधुकरकुलानि भ्रमरसमूहाः तैरन्धकारिता जनितान्धकारा निष्कुटा गृहारामा यस्यां
सा । अनेनारामाणां शोभातिशयः सूचितः । स्फुरेति । स्फुरन्त्य उल्ल- सन्त्यो या उपवनलता उपवनव्रत-
सुमनसस्तेषां परिमलेनामोदेन सुरभिप्रर्घ्राणतर्पण: समीरणो वायुर्यस्यां सा । पुनः
- सदनेति ।
सदनस्यै [^3]स्य गृहस्य यष्टयः प्रसिद्धास्तासु स्थिताः केतवो वैजय-

न्
त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा । अथ च सदनयष्टिमदनयष्टयोः
 
कुसुमानि
प्रकारान्तरेण नगरीं विशिष्टि
 
टिप्प० -
ट्यो:
 
 
[^
1]F. चतुष्पथानि ( 'चौराहे' हिन्दी ) ।
[^
2]F. कण्टकयुक्तवृक्षविशेषः केतकी, यो हि सीमान्त-
भागे आरोप्यते । मालती तु 'जातिः,' न सा कण्टकिनी, नापि वा सीमनि रोप्यते । न च तस्यां परा-
गधूलिर्भवति ।
[^
3]F. 'मदनयष्टिकेतुभिः' इत्येव पाठः । तद्व्याख्या तु- मदनवृक्ष- निर्मित कन्दर्पध्वजैः
प्रकाशिता सूचिता मकरध्वजस्य कामस्य पूजा यस्यां सा, कामपूजायां तादृशध्वजोच्छ्रयणस्य शास्त्रोक्तत्वात् ।
पाठा०

 
[^१]G
. अनवरत.
[^
]G. उत्सवावलोकन.
[^
]G. मन्थन .
[^
]G. दुग्धसिन्धुधवल .
[^
]G. विभूषिता .
[^
]G. मधुकरपटलान्धकारित.