कादम्बरी /143
This page has not been fully proofread.
कादम्बरी ।
[ कथामुलेखे---
भिरगस्त्यपरिपीतसलिलैः मागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्वविद्याध -
रोरगाध्यासिताभिश्चित्रशालाभिरविरतोत्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दि-
व्यविमानपङ्क्तिभिरिवालंकृता, मैथनोद्धतेंदुग्धधवलितमन्दरद्युतिभिः कनफमयामलकलश-
शिखरैरनिलदोलायितसितध्वजैरुपरिपतद्भ्रगङ्गैरिव तुषारगिरिशिखरैरमरमन्दिरैर्विराजित-
शृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरत चलितजल घटीय ब्र सिच्यमानहरितोपवनान्ध-
कारैः केतकीधूलिधूसरैरुपशल्यकैरुपशोभिता, मदमुखरमधुकरकुलान्धकारितनिष्कुटा, स्फु-
रंदुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभाग्यघण्टैरालोहितांशुकपताकैराबद्ध-
११०
निचितैर्व्याप्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तन परि-
पीतं सलिलं जलं येषां तैः सागरैरिव समुद्ररिव । महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या
ये पन्थानो मार्गास्तै रुपशोभिता विराजमाना । 'ऋक् -' इति सूत्रेण पर्थोऽकारान्तत्वम् । सुरेति । सुरा देवाः,
असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः एतैरध्या-
सिताभिराश्रिताभिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । काभिरिव । दिव्य विमानपङ्किभिरिव देवयानश्रेणि-
भिरिव । तस्याः कथमत्रागम इत्यारेकायामाह-अविरतेति । अविरतं निरन्तरं य उत्सवो महस्तस्मिन्याः
प्रमदा योषितस्तासां यदव कनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्य तस्मादिति हेत्वर्थे पञ्चमी । अम्बरतला-
दाकाशादवतीर्णाभिरुती भिः । आगताभिरिति यावत् । अमरेति । अमरमन्दिराणि देवप्रासादास्तै-
विराजितानि शोभमानानि शृङ्गाटकानि त्रिमार्गाश्लेषरूपाणि यस्यां सा तया । 'त्रिमार्गाश्लेषः शृङ्गाट'
इति कोशः । कैरिव । तुषार गिरि हिमाद्रिस्तस्य शिखरैः सानुभिरिव । देवगृह- गिरिशिखरयोः साम्यं प्रदर्श-
यामाह -- मथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितो धवलीकृतो यो
मन्दरो मेरुरतद्वद्द्युतिः कान्तिर्येषां तैः । कनकेति । कनकमयाः स्वर्णमया अमला निर्मला ये कलशा
लघुकुम्भारत एव शिखराण्यप्राणि येषां ते तथा तैः, पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनि-
लेति । अनिलैर्वायुभिर्दोलायिताः प्रेङ्खावदाचरिताः सितध्वजाः श्वेतवैजयन्त्यो येषु तैः । कैरिव । उपरिपत-
दभ्रगङ्गैरिवोपरिष्टात्पतन्ती सवन्त्यभ्रगङ्गा स्वर्धुनी येषु तैरिव । सुधैति । सुधा प्रागेव व्याख्याता तयोप-
लक्षिता या वेदिका पीठबन्धस्तयोपशोभिताः शोनां प्रापिता उदपाना: कूपा येषु तैः । 'कूपः स्यादुद-
पानोऽन्धुः' इति कोशः । अनवरतेति । अनवरतं निरन्तरं चलितं भ्रामितं यजलघटीयन्त्रमरघ-
इस्तेन । कारणेन कार्योपचारात् । सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्धकाराणि
येषु तैः । केतकीति । केतक्या मालत्या या धूलि: परागस्तेन धूसरैर्मलिनै रेवंभूतै रुपशल्य कैर्ग्रामसीमाभिः
उपशोभिता विभूषिता । 'ग्रामसीमा तूपशल्यम्' इति कोशः । मदेति । मदेन मधुपानेन मुखराणि
बाचालानि यानि मधुकरकुलानि भ्रमरसमूहाः तैरन्धकारिता जनितान्धकारा निष्कुटा गृहारामा यस्यां
सा । अनेनारामाणां शोभातिशयः सूचितः । स्फुरेति । स्फुरन्त्य उल्लसन्त्यो या उपवनलता उपवनव्रत-
सुमनसस्तेषां परिमलेनामोदेन सुरभिप्रणतर्पण: समीरणो वायुर्यस्यां सा । पुनः
- सदनेति । सदनस्यै गृहस्य यष्टयः प्रसिद्धास्तासु स्थिताः केतवो वैजय-
त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा । अथ च सदनयष्टिमदनयष्टयोः
कुसुमानि
प्रकारान्तरेण नगरीं विशिष्टि
टिप्प० - 1 चतुष्पथानि ( 'चौराहे' हिन्दी ) । 2 कण्टकयुक्तवृक्षविशेषः केतकी, यो हि सीमान्त-
भागे आरोप्यते । मालती तु 'जातिः,' न सा कण्टकिनी, नापि वा सीमनि रोप्यते । न च तस्यां परा-
गधूलिर्भवति । 3 'मदनयष्टिकेतुभिः' इत्येव पाठः । तद्व्याख्या तु- मदनवृक्षनिर्मित कन्दर्पध्वजैः
प्रकाशिता सूचिता मकरध्वजस्य कामस्य पूजा यस्यां सा, कामपूजायां तादृशध्वजोच्छ्रयणस्य शास्त्रोक्तत्वात् ।
पाठा० .१ अनवरत. २ उत्सवावलोकन. ३ मन्थन ४ दुग्धसिन्धुधवल ५ विभूषिता ६ मधुकरपटलान्धकारित.