कादम्बरी /142
This page has been fully proofread once and needs a second look.
[^१]अपरस्मिञ्जन्मनि कोऽ [^२]यमभूद्भविष्यति [^३]च' इति । एवमुक्तस्तु स [^४]महामुनिरग्रतः स्थितं मामवलोक्य तांश्च सर्वानेकाग्रा [^५]ञ्छ्रवणपरान्मुनीन्बुद्ध्वा [^६]शनैः शनैरब्रवीत् - 'श्रूयतां यदि कौतूह [^७]लम् -
कथारम्भः ।
[^८]अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्म [^९]निवासोचिता भगवता महाकालाभिधानेन भुवनत्रय- सर्गस्थितिसंहार [^१०]कारिणा प्रमथ [^११]नाथेनापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवी [^१२]शङ्कया जलनिधिनेव रसातल- [^१३]गभीरेण परिखा [^१४]वलयेन परिवृता, पशुपति [^१५]नि- वासप्रीत्या [^१६]गगनपरिसरोल्लेखिशिखरमालेन [^१७]कैलास- गिरिणेव सुधासितेन प्राकारमण्डलेन [^१८]परिवृता, प्रकटशङ्ख युक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चामीकर चूर्णसिकैतानि कैरनिचितैरायामि -
[ टि ]-- अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापर- जन्मनि भूते भविष्यति च कोऽयमभूत्कोऽय-
मप्मग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्तप्रकारेणोक्तः प्रश्नविषयीकृतः । तु पुनरर्थे । स महामुनिः
जाबालिमुनिरप्ग्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समझाने का प्ग्रानेकाग्रानेकतानान् । श्रव-
णेति । श्रवणमा- कर्णनं तस्मिन्परान्मुनींस्तपस्विनो बुद्धाध्वा ज्ञात्वा च अतिवृद्धत्वा- त्क्षीणत्वाञ्श्च शनैः शनैर्म-
न्दख स्वरेणाब्रवीदुवाच । किमुवाचेत्याह - श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तर्हि श्रूयतामाकर्ण्यताम् ।
अनेनात्यादरः सूचितः ।
'अस्तीति । उज्जयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वाण्यपि नगरीविशेष-
णानि । अन्येषां त्वन्यविभक्ति- कानीति बोध्यम् । सकलेति । सकलं समग्र यरं यत्त्रिभुवनं त्रिविष्टपं तस्य
ललामभूता तिलकभूता। प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूरिव । आत्मेति । भगवते-
श्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्याऽपरेवैतद्भूभिन्नेव पृथिवी वसुधा समुत्पादिता कृता ।
अथेश्वरं विशेषयन्नाह – महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य
विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति ।
प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयैतव्द्यतिरिक्ता या पृथिवी तस्याः शङ्का आरेका
तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिकामण्डलेन परिवृता परिवेष्टिता । परिखावलयं विशि•
नष्टटि - रसेति । रसातलं पृथ्व्या अधोभागं यावद्गभीरेणालब्धमध्येन । पुनर्विशेषतो नगरीं विशिनष्टि-
प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परिवृता परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वर-
स्तस्य निवासोऽवस्थितिस्तेन या प्रीतिः स्नेहस्तया कैलासगिरिणेव रजताद्रिणेवेत्युपमानम् । वप्रकैलासौ युगपद्वि-
शेषयन्नाह — गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । 'पर्यन्तभूः परिसर : ?' इत्यभिधानचि-
न्तामणिः । तदुल्लेखिनी तत्संघर्षकारिणी शिखरमाला सानु श्रेणिर्यस्य स तथा । पक्षे गगनोल्लेखिनी शिखरमा-
लाप्ग्रमाला अर्थात् कपिशीर्षाणि यस्मिन् । 'शिखरं पुलकाप्ग्रयोः' इत्यनेकार्थः । सुघेधेति । सुधा गृहधवलीकरण-
करण द्रव्यं तेन सितेन शुभ्रूरेण । पक्षे सुधावच्छुभ्रेणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खः कम्बुः शुक्ति-
रब्धिमण्डूकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहा येषु तैः ।
चामीकरेति । चामीकरचूर्णणं पर्वतादौ 'चूकी' इति प्रसिद्धं तदेव सितानिकरो वालुकासमूहस्तेन
ENSIN
पाठा० -[^१]G. अन्यस्मिन्.
[^२]G. को वायम्.
[^३ वा. ]G. वा.
[^४]G. अग्रस्थितम् .
[^५]G. श्रवणतत्परान्.
[^६]G. शनैः .
[^७]G. कुतूहलम्.
[^८]G. अस्ति किल.
[^९]G. निवासोचिता महा.
[^१०]G. कारणेन .
[^११]G. नाथेनेवापरेव .
[^१२]G. शङ्कया च जल.
[^१३]G. गम्भीरेण.
[^१४]G. जलपरिखा.
[^१५]G. प्रीत्या च गगन.
[^१६]G. गगनतलोल्लेखि .
[^१७]G. गिरिणा सुधा.
[^१८ परिगता. ]G. परिगता.
[^१९]G. वालुका.
[^२०]G. रचितैः,
.
कथारम्भः ।
[^८]अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्म [^९]निवासोचिता भगवता महाकालाभिधानेन भुवनत्रय- सर्गस्थितिसंहार [^१०]कारिणा प्रमथ [^११]नाथेनापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवी [^१२]शङ्कया जलनिधिनेव रसातल- [^१३]गभीरेण परिखा [^१४]वलयेन परिवृता, पशुपति [^१५]नि- वासप्रीत्या [^१६]गगनपरिसरोल्लेखिशिखरमालेन [^१७]कैलास- गिरिणेव सुधासितेन प्राकारमण्डलेन [^१८]परिवृता, प्रकटशङ्ख युक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चामीकर चूर्णसिकैतानि कैरनिचितैरायामि -
[ टि ]-- अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापर- जन्मनि भूते भविष्यति च कोऽयमभूत्कोऽय
मप्
अनेनात्यादरः सूचितः ।
विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति ।
शेषयन्नाह — गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । 'पर्यन्तभूः परिसर
करण
पाठा० -
[^२]G. को वायम्.
[^३
[^४]G. अग्रस्थितम्
[^५]G. श्रवणतत्परान्.
[^६]G. शनैः
[^७]G. कुतूहलम्.
[^८]G. अस्ति किल.
[^९]G. निवासोचिता महा.
[^१०]G. कारणेन
[^११]G. नाथेनेवापरेव
[^१२]G. शङ्कया च जल.
[^१३]G. गम्भीरेण.
[^१४]G. जलपरिखा.
[^१५]G. प्रीत्या च गगन.
[^१६]G. गगनतलोल्लेखि
[^१७]G. गिरिणा सुधा.
[^१८
[^१९]G. वालुका.
[^२०]G. रचितैः