कादम्बरी /142
This page has been fully proofread once and needs a second look.
पूर्वभागः ।
कथारम्भः ।
[^८]अस्ति सकलत्रिभुवन
अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापरजन्मनि भूते भविष्यति च कोऽयमभूत्कोऽय-
मप्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्तप्रकारेणोक्तः प्रश्नविषयीकृतः । तु पुनरर्थे । स महामुनिः
जाबालिमुनिरप्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समझाने का प्रानेकतानान् । श्रव-
ति । श्रवणमाकर्णनं तस्मिन्परान्मुनींस्तपस्विनो बुद्धा ज्ञात्वा च अतिवृद्धत्वात्क्षीणत्वाञ्च शनैः शनैर्म-
न्दख रेणाब्रवीदुवाच । किमुवाचेत्याह - श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तर्हि श्रूयतामाकर्ण्यताम् ।
अनेनात्यादरः सूचितः ।
'अस्तीति । उज्जयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वाण्यपि नगरीविशेष-
णानि । अन्येषां त्वन्यविभक्तिकानीति बोध्यम् । सकलेति । सकलं समग्र यत्रिभुवनं त्रिविष्टपं तस्य
ललामभूता तिलकभूता। प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूरिव । आत्मेति । भगवते-
श्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्याऽपरेवैतद्भूभिन्नेव पृथिवी वसुधा समुत्पादिता कृता ।
अथेश्वरं विशेषयन्नाह – महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य
विष्टपत्रयस्य यः सर्गः सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति ।
प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयैतव्यतिरिक्ता या पृथिवी तस्याः शङ्का आरेका
तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिकामण्डलेन परिवृता परिवेष्टिता । परिखावलयं विशि•
नष्ट - रसेति । रसातलं पृथ्व्या अधोभागं यावद्भीरेणालब्धमध्येन । पुनर्विशेषतो नगरीं विशिनष्टि-
प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परिवृता परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वर-
स्तस्य निवासोऽवस्थितिस्तेन या प्रीतिः स्नेहस्तया कैलासगिरिणेव रजताद्रिणेवेत्युपमानम् । वप्रकैलासौ युगपद्वि-
शेषयन्नाह — गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । 'पर्यन्तभूः परिसर : ? इत्यभिधानचि-
न्तामणिः । तदुल्लेखिनी तत्संघर्षकारिणी शिखरमाला सानु श्रेणिर्यस्य स तथा । पक्षे गगनोल्लेखिनी शिखरमा-
लाप्रमाला अर्थात् कपिशीर्षाणि यस्मिन् । 'शिखरं पुलकाप्रयोः' इत्यनेकार्थः । सुघेति । सुधा गृहधवली-
करणद्रव्यं तेन सितेन शुभ्रूण । पक्षे सुधावच्छुभ्रेणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खः कम्बुः शुक्ति-
रब्धिमण्डूकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहा येषु तैः ।
चामीकरेति । चामीकरचूर्ण पर्वतादौ 'चूकी' इति प्रसिद्धं तदेव सितानिकरो वालुकासमूहस्तेन
ENSIN
पाठा० - १ अन्यस्मिन्. २ को वायम्. ३ वा. ४ अग्रस्थितम् ५ श्रवणतत्परान्. ६ शनैः ७ कुतूहलम्.
८ अस्ति किल. ९ निवासोचिता महा. १० कारणेन ११ नाथेनेवापरेव १२ शङ्कया च जल. १३ गम्भीरेण.
१४ जलपरिखा. १५ प्रीत्या च गगन. १६ गगनतलोल्लेखि १७ गिरिणा सुधा. १८ परिगता. १९ वालुका.
२० रचितैः,