2023-11-19 05:12:40 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रातपेन जगति, अवश्यायजल [^१]बिन्दुमन्दगतिषु विघटमान- कुमुद [^२]वनकषायपरिमलेषु समुपोढनिद्राभरालसतारकै- रन्योन्य ग्रथितपक्ष्मपुटैरारब्ध रोमन्थमन्थरमुखःखै: सुखासीनैराश्रम- मृगैर-
भिनन्दि [^३]तागमनेषु [^४]प्रैवहत्सु निशामुख [^५]समीर- णेषु, अर्धयाममात्रावखण्डितायां विभावर्यायां हा-
दी
रीतः कृताहारं मामादाय सर्वे[^६]सर्वैस्तै र्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे [^७]वेत्रास-
नोपविष्टर्मन सि [^८]मनतिदूरवर्तिना जालपादनाम्ना शिष्येण [^९]दर्भपवित्रधवित्रपाणिना [^१०]मन्द-
मुपवीज्यमानं पि-
तरमे
तर [^११]मवोचत्– 'हे [^१२]"तात, सकलेय- माश्चर्यश्रवणकुतूहलार्के [^१३]कलितहृदया समुपस्थिता तापसपरिष-
दाबद्धमण्डला [^१४]प्रतीक्षते । व्यपनीतश्रमञ्श्च कृतोऽयं पतत्रि- पोतः । तदावेद्यतां '[^१५]यदनेन कृतम् ।
 
GRA
 
[ टि ]-- वायूनां विशेषणानि
– अवश्येति । अवश्यायो हिमं तस्य जलबिन्दवः पानीय विप्रुषस्तैर्मन्दा मन्थरा गतिर्ग-
मनं येषां ते । विघटेति । विघटमानानि विकासं प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो
गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं श्लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मुनिस्थानस्थ-
निस्थानस्थ
हरिणैः ःणै: । अथ च तेषां विशेषणानि - समुपोढेति । समुपोढा सम्यक्प्रकारेणोपोढा या निद्रा
प्रमीला तस्या भरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं
परस्परं प्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुटानि येषां ते तथा तैः । आरब्ध इति । आरब्धो
यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासीनै-
रुपविष्टैः । अर्धेति । त्रियामाशयेनार्धयाममात्रमर्धप्रहरमात्रमवखण्डितं खण्ड- नां प्राप्तं यस्याः सा तथा ।
तस्यामप्रहरन्यूनाया मित्यर्थः । एवंविधायां विभावर्यायां रजन्यां सर्वैस्तैर्महा [^1]मुनिभिर्महातपस्विभिरुपसृत्या-
गत्य । कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्राबल्येन शोभत इत्येवंशीलः स तथा
तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशरतस्मिन्नधिकरणीभूते । अथ जाबालि-
मुनिं विशेषयन्नाह — वेत्रेति । वेत्रासनमासन्दी तत्रो- पविष्टमासीनम् । अनतीति । अनतिदूरवर्तिना
नातिसमीपवर्तिना । जालेति । जालपाद इति नाम यस्य स तथा तेन शिष्येण विनेयेन । दर्भेति । दर्भः
कुशस्तद्वत्पवित्रं [^2]यद्धवित्रं मृगचर्मनिर्मितं ताल- वृन्तं पाणौ हस्ते यस्य स तथा तेन । 'धवित्रं मृगचर्मणः
' इति कोश: । मन्दं यथा स्यात्तथोपवीज्यमानं दूरी क्रियमाणमक्षिकम् । अन्वयस्तु पूर्वमुक्तः । तदनुसारेण
किमुवाचेत्याह - हे तात हे पितः, सकला समग्रेयं प्रत्यक्षगता ताप सपरिषत्तपस्विसंसत्समुपस्थिता- गता ।
आश्चर्येति । आश्चर्यस्याद्भुतवस्तुनो यच्छ्रवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेषस्तेनाकलितं व्याप्तं
हृदयं चेतो यस्याः सा । परिषद्विशेषणम् । आबद्धेति । आबद्धमारचितं मण्डलं यथा सा । प्रतीक्षत
इति । भवन्त मिति शेषः । भवद्विलम्बेन विलम्ब इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह-व्यप-
नीतेति । अयं पतत्रिपोतः शुकशिशुर्घ्व्यपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवं- भूतः कृतो विहितः । चेति
पूर्वोक्तसमुच्चये । तदिति हेत्वर्थे । आवेद्यतामिति । यदनेन शुकेन कृतं विहितं तदावेद्यतां निवेद्यताम्
 
टिप्प० –

 
[^
1]F. 'सर्वैस्तैः सह मुनिभिः' इत्येव पाहःठ: । अन्यथा महामुनिभि- रिति पाठस्वीकारे सहार्थस्या-
ऽऽश्चेषःक्षेप: कर्तव्यः स्यात् । किञ्च महामुनिस्तत्र जाबालिरेव, न सर्वे ।
[^
2]F. 'दर्भ पवित्रपाणिना' इत्येव ग्रन्थशय्या.
क्षराणि । पवियदि तु 'पवित्रधवित्र' इति सहृदयलवित्रपदसंग्रहः प्रिय एव तर्ह्यपि 'दूरीक्रियमाणमक्षिकम् '
इति ब्व्याक्ख्यानं तु विचित्रमेव, रात्रौ मक्षिकाणामभावात् ।
 
पाठा - [^]G. बिन्दुपतनमन्द; बिन्दुपतनशीतेषु मन्द .
[^
]G. खण्ड .
[^
]G. आगमेषु .
[^
]G. प्रवात्सु.
[^
]G. समीरेषु.
[^
]G. स
मुनिभिः .
[^
]G. वेत्रासने सुखोपविष्टम् .
[^
]G. नातिदूर .
[^
]G. पवित्रपाणिना.
[^
१०]G. मन्दमन्दम् .
[^
११]G. उवाच.
[^
१२]G. तात.
[^३]G. माकुलित.
[^
१४]G. प्रतीक्ष्यते
[^
१५]G. किमनेन.