This page has not been fully proofread.

कादम्बरी ।
 
[ कथामुखे-
१०८
 
चन्द्रातपेम जगति, अवश्यायजलबिन्दुमन्दगतिषु विघटमानकुमुदर्वनकषायपरिमलेषु समुपो-
ढनिद्राभरालसतारकैरन्योन्य प्रथितपक्ष्मपुटैरारब्ध रोमन्थमन्थरमुखः सुखासीनैराश्रममृगैर-
भिनन्दितागमनेषु प्रैवहत्सु निशामुखसमीरणेषु, अर्धयाममात्रावखण्डितायां विभावर्या हा-
दीतः कृताहारं मामादाय सर्वेस्तै महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रास-
नोपविष्टर्मन सिदूरवर्तिना जालपादनाम्ना शिष्येण दर्भपवित्रधवित्रपाणिना भन्दमुपवीज्यमानं पि-
तरमेवोचत्– 'हे "तात, सकलेय माश्चर्यश्रवणकुतूहलार्केलितहृदया समुपस्थिता तापसपरिष-
दाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमञ्च कृतोऽयं पतत्रिपोतः । तदावेद्यतां 'यदनेन कृतम् ।
 
GRA
 
वायूनां विशेषणानि
– अवश्येति । अवश्यायो हिमं तस्य जलबिन्दवः पानीय विप्रुषस्तैर्मन्दा मन्थरा गतिर्ग-
मनं येषां ते । विघटेति । विघटमानानि विकास प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो
गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं श्लाघतमागमनं येषां ते तथा । कैः । आश्रममृगैर्मु-
निस्थानस्थहरिणैः ः । अथ च तेषां विशेषणानि - समुपोढेति । समुपोढा सम्यक्प्रकारेणोपोढा या निद्रा
प्रमीला तस्या भरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं
र प्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुटानि येषां ते तथा तैः । आरब्ध इति । आरब्धो
यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासीनै-
रुपविष्टैः । अर्धेति । त्रियामाशयेनार्धयाममात्रमर्धप्रहरमात्रमवखण्डितं खण्डनां प्राप्तं यस्याः सा तथा ।
तस्यामप्रहरन्यूनाया मित्यर्थः । एवंविधायां विभावर्या रजन्यां सर्वैस्तैर्महामुनिभिर्महातपस्विभिरुपसृत्या-
गत्य । कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्राबल्येन शोभत इत्येवंशीलः स तथा
तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशरतस्मिन्नधिकरणीभूते । अथ जाबालि-
मुनिं विशेषयन्नाह — वेत्रेति । वेत्रासनमासन्दी तत्रोपविष्टमासीनम् । अनतीति । अनतिदूरवर्तिना
नातिसमीपवर्तिना । जालेति । जालपाद इति नाम यस्य स तथा तेन शिष्येण विनेयेन । दर्भेति । दर्भः
कुशस्तद्वत्पवित्रं यद्धवित्रं मृगचर्मनिर्मितं तालवृन्तं पाणौ हस्ते यस्य स तथा तेन । 'धवित्रं मृगचर्मणः
इति कोश: । मन्दं यथा स्यात्तथोपवीज्यमानं दूरी क्रियमाणमक्षिकम् । अन्वयस्तु पूर्वमुक्तः । तदनुसारेण
किमुवाचेत्याह - हे तात हे पितः, सकला समग्रेयं प्रत्यक्षगता ताप सपरिषत्तपस्विसंसत्समुपस्थितागता ।
आश्चर्येति । आश्चर्यस्याद्भुतवस्तुनो यच्छ्रवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेषस्तेनाकलितं व्याप्तं
हृदयं चेतो यस्याः सा । परिषद्विशेषणम् । आबद्धेति । आबद्धमारचितं मण्डलं यथा सा । प्रतीक्षत
इति । भवन्त मिति शेषः । भवद्विलम्बेन विलम्ब इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह-व्यप-
नीतेति । अयं पतत्रिपोतः शुकशिशुर्घ्यपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवंभूतः कृतो विहितः । चेति
पूर्वोक्तसमुच्चये । तदिति हेत्वर्थे । आवेद्यतामिति । यदनेन शुकेन कृतं विहितं तदावेद्यतां निवेद्यताम् ।
 
टिप्प० – 1 'सर्वैस्तैः सह मुनिभिः' इत्येव पाहः । अन्यथा महामुनिभिरिति पाठस्वीकारे सहार्थस्या-
ऽऽश्चेषः कर्तव्यः स्यात् । किञ्च महामुनिस्तत्र जाबालिरेव, न सर्वे । 2 'दर्भ पवित्रपाणिना' इत्येव ग्रन्थशय्या.
क्षराणि । पवितु 'पवित्रधवित्र' इति सहृदयलवित्रपदसंग्रहः प्रिय एव तर्ह्यपि 'दूरीक्रियमाणमक्षिकम् '
इति ब्याक्यानं तु विचित्रमेव, रात्रौ मक्षिकाणामभावात् ।
 
पाठा - १ बिन्दुपतनमन्द; बिन्दुपतनशीतेषु मन्द २ खण्ड ३ आगमेषु ४ प्रवात्सु. ५ समीरेषु. ६ तह
मुनिभिः ७ वेत्रासने सुखोपविष्टम् ८ नातिदूर ९ पवित्रपाणिना. १० मन्दमन्दम् ११ उवाच. १२ तात.
११ माकुलित. १४ प्रतीक्ष्यते १५ किमनेन.