This page has not been fully proofread.

सध्यावर्णनम् ]
 
पूर्वभागः ।
 
भरणभृतस्तारकाकपालशकलालंकृतादम्बरतला
त्र्यम्बकोत्तमाङ्गादिष गङ्गा सागरानापूरयन्ती
हंसधवला धरण्यामपतज्योत्स्ना । हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलो-
भादवतीर्णो निश्चलमूर्तिरमृतकलम ईवादृश्यत हरिणः । तिमिरजलधरसँमयापगमानन्तर-
मभिनवसितर्सिन्दुवारकुसुमपाण्डुरैरर्णवागत र वर्गान्त हंसैरिव कुमुदुसरांसि चन्द्रपादैः ।
विगलितसकलोदयरागं रजनिकरबिम्बमम्बरापगावगाहधौत सिन्दूरमैरावतकुम्भस्थलमिव
तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति हिमततिस्रुति, सुधाधूलिपटलेनेव धवलीकृते
 
चन्द्राभरणभृत्तस्मात् । तारकेति । तारका एव कपालशकलानि कर्परखण्डानि तैरलंकृतं भूषितं यस्मात् ।
'अम्बरतलादित्यवधौ पञ्चमी । त्र्यम्बकोत्तमाङ्गादिवेश्वरमौलेरिव गङ्गा जाह्नवी । सागरानिति । अगस्त्य-
गण्डूषेण शुष्कान् सागरान् समुद्रानापूरयन्ती परिपूर्णांकुर्वती । चन्द्रोदयेन सागराणां पूरणं प्रसिद्धम् । हंसव-
'द्धवला शुभ्रा ज्योत्स्ना चन्द्रिका धरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽप्येतादृशोऽभूदित्याह-
हिमकरेति । हिमकरश्चन्द्रः स एव सरस्तस्मिन् । तदेव विशिष्टि-विकचेति । विचकानि विकस्वराणि
यानि पुण्डरीकाणि तद्वत्सिते शुभ्रे । अन्यदपि सरो विकचपुण्डरीकः सितं भवति अतस्तदुपमानम् । चन्द्रि-
केति । चन्द्रिका ज्योत्स्ना सैव जलं पानीयं तस्य पानमास्वादनं तस्य लोभो गर्धजस्मादवतीर्णो मध्यप्रविष्टः ।
'निश्चलेति । निश्चला निरुपन्दा मूर्तिर्यस्य स तथा । अमृतेति । कृष्णत्वसाम्यात्कलङ्क एवामृतपकस्तत्र लग्न
इवान्तर्निगीर्ण इव हरिणो मृगोऽदृश्यतालक्ष्यत । चन्द्रोदयजनितं शोभातिशयं वर्णयन्नाह – तिमिरेति ।
'कृष्णत्वसाम्यात्तिमिरमेव जलधरसमयस्तस्यापगमानन्तरं निवृत्त्यनन्तरम् । अभीति । अभिनवानि प्रत्य-
आणि सितानि शुभ्राणियानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि पुष्पाणि तद्वत्पाण्डुरैः शुम्रैरर्णवः समुद्रस्तत्रा-
गतैः प्राप्तैश्चन्द्रपादैः शशिकिरणैर्हसैरिव मरालैरिव कुमुदसरांसि कैरवोपलक्षिततटाकान्यवागाह्यन्तालो-
ड्यन्त । अतः श्वेतत्वसाधर्म्याद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णय शाह - विगलीति ।
विगलितो विलयं प्राप्तो यः सकल: समग्र उदयसंबन्ध्युद्गमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रज-
निकर बिम्बं चन्द्रमण्डलं तत्क्षणमिव तत्काल इवालक्ष्यत जनैरैक्ष्यत । किमिव । अम्बरेति । अम्बरस्य
व्योम्नो या आपगा नदी तस्या अवगाह आलोडनं तेन धौतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैरावतस्य
हस्ति मल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्याच्चन्द्रबिम्बस्य कुम्भस्थलोपमानम् । अथ मुनिवृत्तं
निरूपयन्नाह - शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायनमादाय गृहीत्वा पितरं
जाबालमुनिमित्यवोचदत्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्नेन दूरोदिते दूरं गते भगवति चन्द्रे ।
हिमेति । हिमं प्रायं तस्य ततिवथी तस्यौः स्रुति स्राविणि । चन्द्रस्य विशेषणम् । सुघेति । श्वेतत्व-
साम्यात्सुधैव धूलिपटलं पांसुसमूहस्तेनेव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति
शुश्रीकृते सति । पुनः केषु सत्सु । निशामुखसमीरणेषु प्रदोषकालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ
 

 
या
 
-
 
टिप्प० - 1 - 'रगाह्यन्त' इत्येव पाठः । अन्यथा तु 'अनागाह्यन्त' इति वक्तव्यमुचितं स्यात् ।
2- निश्चलमूर्तिर्हरिण चन्द्रबिम्बगतचिह्नरूपो मृगः अमृतमेव पङ्गस्तत्र लग्न इव अलक्ष्यत । अन्योऽपि
जलपानलोभादवतीर्णो मृगः पकमग्नो निश्चलमूर्तिस्तिष्ठति । इत्येव व्याख्योचिता । कलङ्क एव हरि-
णत्वाऽऽरोपात् । 3 'हिमस्रुति' इत्येव पाठः । हिमं स्रवति इति हिमसुत ( किप्) तस्मिन्निति विग्रहः ।
 
0
 
पाठा० -१ सागरम्. २ आलक्ष्यत ३ समयादनन्तरम्. ४ सिन्धुवार, ५ गगनागतै ६ अगायन्त; अगृह्यन्त,
७ हिमस्रुति; हिमदी धितो. ८ धवलीकृते जगति