This page has not been fully proofread.

1
 
अयं बाणभट्टस्य वंशवृक्ष:-
ब्रह्मा
 

 
अच्युतः ईशानः
 
पुलहः
 
...
वात्स्य:
 

कुबेरः
 

 
उपोद्धातः ।
 
पाशुपतः
 
-
 
अर्थपतिः
 

 
भृगुः हंसः शुचिः कविः महीदत्तः धर्मः जातवेदाः चित्रभानु: त्र्यक्ष: अहिंदत्तः विश्वरूपः
 

 
बाणभट्टः
 

 
भूषणभट्टः
 
बाणसमये सामाजिकी परिस्थितिः
 
तस्मिन्समये वेषविन्यासो विचित्र एव प्राप्यते । राज्ञः शूद्रकस्य वर्णनेन ज्ञायेत यद् राजापि केवलं
विसंस्थुलप्रायं श्वेतवस्त्रं शिरसि वेष्टयति । अङ्गे च केवलमुत्तरीयं स्कन्धयोर्वहति । यतो ह्यङ्गरागः शरीरे
विलिप्यमानः स्फुटमवभासते । सर्वेषामेव पात्राणां वर्णने अङ्गरागस्य सुमहद्दाहुल्यम्, बस्त्रस्य च वैर-
ह्यम् । कादम्बरीप्रेरितः केयूरकनामा वीणावाहकः केवलमधोवस्त्रमेव धारयति, नोत्तरीयमपि - 'अधर-
वास एव केवलं वसानेन' (पृ. १७४ )
 
वेषविन्यासादिषु वैचित्र्येऽपि बहयः सामाजिकप्रथा वर्तमानकाल इव तदाऽध्यासन् । होलिकायां
नानोपद्रवाः, विरूपरूपक ( स्वाँग ) निःसारणादिप्रथा यथा साम्प्रतमस्ति तथा बाणसमयेऽप्यासीदिति
चित्रम् । द्रविडधार्मिकपरिचये यथा --'
-'सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखद्वारोपितवृद्धदासी वि
वाहप्राप्तविडम्बनेन (पृ. ४६३ )
 
बाणस्य समये आन्ध्रद्रविडसिंहलादिदेशीयाः ( आदिम निवासिनः ) मध्यदेशीयै राजभिर्विजित्य
स्वाधीना अक्रियन्त । अत एव कृष्णसुदृढगात्रा वीरप्रायास्ते राज्ञां सेवाकार्येषु बहुलतया उपायोज्यन्त ।
प्रतिष्ठा शोभा च तादृशैः सेवकवर्गैस्तदा भुपालानामज्ञायत । सूच्यते तदिदमैतिहासिकं वृत्तमुज्जयिनी-
राजभवनवर्णने– 'धवलचन्दनस्थास कखचित भुजो रुदण्डेन बद्धासिधेनुकेनान्ध्रद्रविडसिंहलप्रायेण सेव-
कजनेन...' (पृ. १९४ )
 
एवमादयस्तत्सामयिक्यो भूयस्यो घटनाः सूच्यन्तेऽस्मिन् ग्रन्थे, यासां गवेषणेन बहुतरमैतिहासिकं
सामाजिकं च तथ्यमवगतं भवति । किन्तु भूमिकायां भूयान् विस्तरः स्यादिति समयान्तरार्थं तत्परित्यज्य
वर्णिका ('बानगी) मात्रमिह दर्शितम् ।
 
१ 'स्वयं वात्स्यस्तु पुलहात्' इति ब्रह्मवैवर्तपुराणम् । वात्स्यादनन्तराणां बहूनामेव पुरुषाणां नामानि न लभ्यन्ते ।
२ हर्षचरिते स्फुटमिदम् ।