2023-11-13 17:00:54 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मवहत् । [^१]अपहाय मुनि [^२]हृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं [^३]गत इत्युदन्तमुपलभ्य [^४]जातवैराग्यो धौतदुकूलवल्कलधवलाम्बरः सता [^५]रान्तः- पुरपर्यन्त [^६]स्थिततनु [^1]स्तिमिरतमाल [^७]वृक्षलेखं सप्तर्षिमण्डलाध्युषितमरुंधतीसंचरण [^८]पूत मुपहिता [^९]षा- ढमालक्ष्यमाणमूलमेकान्तस्थितचारु [^१०]तारकामृगममरलोका- श्रममिव [^११]गगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा-
 
[ टि ]-- रूपायाः संध्याया विनाशो ध्वंसस्तेन दुःखिता कष्टं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तोदयं कृष्णाजिन- मिवासितचर्मवदवहत् । नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिन- साधर्म्यम् । तिमिरोद्गमस्य कृत्यं व्याख्यापयन्नाह — अपहेति । तिमिरं ध्वान्तं मुनिहृदयानि तपस्विचेतांसि स्वप्रकाशात्मकप्रकाश- वन्तीयतस्तिमिरस्यावकाशाभावादन्यत्सर्वं प्रौढप्रकाशहीनं वस्तुजातमन्धकारतामचाक्षुषतामनयत्प्रापयत् । तदुत्तरकालं
चन्द्रेऽपि मित्रवियोगावस्थां वर्णयन्नाह - क्रमेणेति । क्रमेण परि- पाट्या रविः सूर्योऽस्तं गतोऽदृश्यतां प्राप्त इत्युदन्तमिति वृत्तान्तमुपलभ्य प्राप्तोऽमृतदीधितिश्चन्द्रः । अमरेति । अमरा वसिष्ठादयो मुनयस्तेषां लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्बरतलमध्यतिष्ठदधितस्थौ । कीदृक्सूर्यः । जातेति ।
जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागो विरागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूल- वल्कलमेव धवलं शुभ्रमम्बरं वस्त्रं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रह्म च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागमनादृते' । एतद्वृत्तौ 'तारत्रयं प्रणवशतत्रयम्' इत्याह विज्ञानेश्वरः । तया सहवर्तमानं यदन्तःपुरमिति पुरस्य शरीरस्यान्तर्मध्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः । तस्याः पर्यन्तः सहस्रारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिकं तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सहवर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतलं विशेषयन्नाह – तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पङ्क्ति-
र्यस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः । शेषं पूर्ववत् । सप्तर्षीति । सप्तर्षिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । 'मण्डलं श्वसमूहयोः' इति धरणिः । तेनाध्युषितमाश्रितम् । पक्षे सप्तर्षयः सप्ततारकाः । शेषं प्राग्वत् । अरुंधतीति । अरुंधती वसिष्ठपत्नी तस्याः संचरणं परिभ्रमणं तेन पूतं पवित्रम् । पक्षेऽरुं- धती ताराविशेषः । शेषं प्राग्वत् । उपहितेति । उपहितः संनिहित आषाढ : पालाशदण्डो यस्मिन् । 'पालाशो दण्ड आषाढः' इत्यभि- धान चिन्तामणिः । पक्ष अषाढा पूर्वाषाढानक्षत्रम् । आलक्ष्येति । आसमन्ताल्लक्ष्यमाणानि विलोक्यमानानि मूलानि वसुधान्तर्गत- वृक्षप्रदेशा यस्मिन् । पक्षे मूलं मूलनक्षत्रम् । शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारवो मनोहराकृतयस्तारका- मृगाः श्वेतमृगा यस्मिन् । पक्षे तारकारूपं मृगो मृगनक्षत्रम् । तस्या- मेव विभावर्यां चन्द्रे जातवैराग्योपमानमम्बरमण्डले चाश्रमरूपक- मुक्त्वा ज्योत्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमाङ्गोप- मानमाह - चन्द्रेति । चन्द्र एवाभरणं बिभर्तीति
 
[^1]F. 'सतारान्तःपुरः, पर्यन्तस्थिततनुतिमिरतमालवनलेखम्' इत्येव पाठः साधुः । सतारं सप्रणवम् अन्तःपुरं हृदयमध्यं यस्य सः ध्याननिष्ठ इत्यर्थः । पक्षे - तारा: ( अश्विन्यादयः ) एव अन्त:पुराणि स्त्रियः तैः सहितः (अमृतदीधितिः) । पर्यन्ते प्रान्तभागे स्थिता तनुतिमिरवत् स्वल्पान्धकारवत् तमालवनानां लेखा यस्मिन् तम्
( आश्रमम् ), पक्षे - पर्यन्ते स्थितं तनुतिमिरं निजोदयेन विरलमन्ध-
कारं तमालवनरेखेव यत्र तत् ( गगनतलम् ) इति तद्व्याख्या ।
 
 
[^१]G. शापदग्धमिव भयाद्विदाहायेव.
[^२]G. मुनिजनहृदयानि.
[^३]G. उपगतः; उपागत.
[^४]G. समुपजात.
[^५]G. अन्तःपुर.
[^६]G. तनुतिमिर.
[^७]G. वन.
[^८]G. पवित्रतम्; पवित्रम्.
[^९]G. उपलक्ष्यमाण.
[^१०]G. तारकमृगम्.
[^११]G. गगनम्.