कादम्बरी /139
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
मवहत् । अंपहाय मुनिहृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गँत
इत्युदन्तमुपलभ्य जातवैराग्यो धौतदुकूलवल्कलघवलाम्बरः सतारोन्तःपुरपर्यन्तस्थिततनु-
स्तिमिरतमालवृक्षलेखं सप्तर्षिमण्डलाध्युषितमरुंधतीसंचरणपूर्तमुपहिताषाढमालक्ष्यमाणमू-
लमेकान्त स्थितचारुतारकामृगममरलोकाश्रममिव गंगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा-
रूपायाः संध्याया विनाशो ध्वंसस्तेन दुःखिता कष्टं प्राप्ता विभावरी रजन्यभिनवं प्रत्यमं तिमिरोद्गमं ध्वान्तो-
दयं कृष्णाजिनमिवासितचर्मवदवहत् । नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिनसाधर्म्यम् । तिमिरोद्गमस्य कृत्यं
व्याख्यापयन्नाह — अपहेति । तिमिरं ध्वान्तं मुनिहृदयानि तपस्विचेतांसि स्वप्रकाशात्मकप्रकाशवन्तीयतः
स्तिमिरस्यावकाशाभावादन्यत्सर्वं प्रौढप्रकाशहीनं वस्तुजातमन्धकारतामचाक्षुषतामनयत्प्रापयत् । तदुत्तरकालं
चन्द्रेऽपि मित्रवियोगावस्थां वर्णयन्नाह - क्रमेणेति । क्रमेण परिपाट्या रविः सूर्योऽस्तं गतोऽदृश्यतां प्राप्त
इत्युदन्त मिति वृत्तान्तमुपलभ्य प्राप्तोऽमृतदीधितिश्चन्द्रः । अमरेति । अमरा वसिष्ठादयो मुनयस्तेषां
लोकः समुदायस्तस्याश्रमो भुनिस्थानं तदिव गगनतलमम्बरतलमध्यतिष्ठदधितस्थौ । कीदृक्सूर्यः । जातेति ।
जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागो विरागस्तस्य भावस्तत्त्वम् । धौतेति ।
धौतं क्षालितं दुकूलवल्कलमेव धवलं शुभ्रमम्बरं वस्त्रं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमा-
काशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रह्म च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्या-
गमनाते' । एतद्वृत्तौ 'तारत्रयं प्रणवशतत्रयम्' इत्याह विज्ञानेश्वरः । तया सहवर्तमानं यदन्तःपुर मिति
पुरस्य शरीरस्यान्तर्मध्यं कुण्डलिनी नाडीविशेषः । 'कचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः । तस्याः
पर्यन्तः सहस्रारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिकं तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः
सहवर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसा-
म्येन गगनतलं विशेषयन्नाह – तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पङ्कि-
र्यस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः । शेषं पूर्ववत् । सप्तर्षीति । सप्तर्षिसदृशा ये ऋषयो नार-
दाद्यास्तेषां मण्डलं समूहः । 'मण्डलं श्वसमूहयोः' इति धरणिः । तेनाध्युषितमाश्रितम् । पक्षे सप्तर्षयः सप्तता-
रकाः । शेषं प्राग्वत् । अरुंधतीति । अरुंधती वसिष्ठपत्नी तस्याः संचरणं परिभ्रमणं तेन पूतं पवित्रम् ।
पक्षेऽरुंधती ताराविशेषः । शेषं प्राग्वत् । उपहितेति । उपहितः संनिहित आषाढ : पालाशदण्डो यस्मिन् ।
'पालाशो दण्ड आषाढः' इत्यभिधान चिन्तामणिः । पक्ष अषाढा पूर्वाषाढा नक्षत्रम् । आलक्ष्येति । आसम
न्ताल्लक्ष्यमाणानि विलोक्यमानानि मूलानि वसुधान्तर्गत वृक्षप्रदेशा यस्मिन् । पक्षे मूलं मूलनक्षत्रम् । शेषं
प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारको मनोहराकृतयस्तारकामृगाः श्वेतमृगा यस्मिन् । पक्षे
तारकारूपं मृगो मृगनक्षत्रम् । तस्यामेव विभावर्या चन्द्रे जातवैराग्योपमानमम्बर मण्डले चाश्रम रूपक मुक्त्वा
-
ज्योत्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमाङ्गोपमानमाह - चन्द्रेति । चन्द्र एवाभरणं बिभर्तीति
टिप्प० - 1 'सतारान्तःपुरः, पर्यन्तस्थिततनुतिमिरतमालवनलेखम्' इत्येव पाठः साधुः । सतारं
समणवम् अन्तःपुरं हृदयमध्यं यस्य सः ध्याननिष्ठ इत्यर्थः । पक्षे - तारा: ( अश्विन्यादयः ) एव अन्त:-
पुराणि स्त्रियः तैः सहितः (अमृतदीधितिः) । पर्यन्ते प्रान्तभागे स्थिता तनुतिमिरवत् स्वल्पान्धकारवत्
तमालवनानां लेखा यस्मिन् तम् ( आश्रमम् ), पक्षे - पर्यन्ते स्थितं तनुतिमिरं निजोदयेन विरलमन्ध-
कारं तमालवनरेखेव यत्र तत् ( गगनतलम् ) इति तद्व्याख्या ।
३ उपगतः; उपागत.
४ समुपजात.
पांठा -१ शापदग्धमिव भयाद्विदायेव. २ मुनिजनहृदयानि.
५ अन्तःपुर ६ तनुतिमिर ७ वन. ८ पवित्रतम् पवित्रम् ९ उपलक्ष्यमाण. १० तारकमृगम्. ११ गगनम्.