2023-11-13 10:24:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

वेदि [^१]विकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाण [^२]दिग्देवता बलिसिक्थमाश्रमपदमभवत् । क्वापि विहृत्य [^३]दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना संध्या [^४]तपोधनैरदृश्यत । अचिर [^५]प्रोषिते सवितरि शोकविधुरा कमलमुकुलकमण्डलुधरणी हंससितदुकूल- परिधाना मृणालघवल [^६]यज्ञोपवीतिनी मधुकरमण्डलाक्षवलय- मु [^७]द्वहन्ती कमलिनी [^८]दिनपतिसमागमव्रतमिवाचरत् । अपरसागराम्भसि पतिते [^९]दिवसकरे वेगोत्थित [^१०]मम्भः- सीकरनिकरमिव तारा [^११]गणमम्बरमधारयत् । अचिराच्च सिद्धकन्यकाविक्षिप्तसंध्यार्चनकुसुमशबलमिव [^१२]तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्वविप्रकीर्णैः प्रणामाञ्ज-
लिसलिलै: [^१३]क्षल्यमान इवागलदखिल: संध्यारागः ।
 
क्षय [^१४]मुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव-
 
[ टि ]-- अग्निवेद्यां वह्निस्थापनचतुरस्रभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुशा नीलदर्भा यस्मिन् । ऋषीति । ऋषि- कुमारिकाभिर्मुनिपुत्रीभिरितस्ततो विक्षिप्यमाणानि समन्ताद्विकीर्य- माणानि दिग्देवतानां बलिसिक्थानि बलिसंबन्धिसिद्धान्नानि यस्मिं- स्तत्तथा । पुनरवस्थान्तरमाह -क्वापीति । क्वापि कुत्रचित्प्रदेशे
विहृत्य पर्यटनं कृत्वा दिवसावसाने दिनपर्यन्ते कपिला तपोवन- धेनुरिव लोहिततारका परिवर्तमाना तपोधनैः मुनिभिः संध्यादृश्य- तालोक्यत । गौरपि कपिलत्वाल्लोहिततारका रक्त- कनीनिका । संध्या तु लोहिततारका
रक्तनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्त- त्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलि-
नी- सूर्ययोर्नायिका नायकत्वेन तौ वर्णयन्नाह
– अचिरेति । अचिरप्रोषिते तत्कालीन प्रोषिते गते सवितरि
श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थं स्वकीयनायकस्यागमन हेतोर्व्रतं
नियम विशेष माचरदिवाकरोदिव । कमलेति । संकुचित- मुख साम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव
दधातीत्येवं- शीला सा तथा । हंसेति । श्वेतसाम्याद्धंसा एव सितदुकूलानि परिधानमघोंधोंशुकं यस्याः सा
तथा । मृणालेति । श्वेततन्तुसारू- प्यान्मृणालान्येव धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा ।
मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका
तदुद्वहन्ती धारयन्ती । अपराम- वस्थां वर्णयन्नाह
- अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानी ये पतिते
दिवसकरे सूर्ये वेगेन रभसोत्थितं प्रादुर्भूतमम्भःसीकरनिकरं पानीयपृषत्समूहं तारा [^1]गणमिव नक्षत्रवृन्दमिवा
म्बरमाकाशम- धारयद्दधार । अतिश्वेतरूपत्वसाम्यात्ताराजलबिन्द्वो रुपमानोपमेय- भावः । अचिराञ्च्चेति । अचि-
रात् स्वल्पकालेन सिद्धा विद्या सिद्धा- स्तेषां कन्यकाः पुत्र्यस्ता भिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुसुमानि
सायंकालीन पूजार्थमानीतानि पुष्पाणि तैः शबलमिव कर्बुरमिव तारकितम् । 'तारकादिभ्य इतच्' । संजा-
ततारकोदयं वियदाकाशमराजताशोभत । अतीतसंध्यावस्थां प्रकटयन्नाह - क्षणेनेति । क्षणेन सपद्येव ।
च समुच्चये । उन्मुखे- नोर्ध्वमुखेन मुनिजनेन तापसजनेनोर्ध्व विप्रकीर्णैरूर्ध्वं विक्षिप्तैः प्रणामाञ्जलिसलिलैर्नमस्क-
कृतिसमयाञ्जलिपानीयैः क्षाल्यमान इव प्रक्षाल्यमानोऽखिलः समग्रोऽपि संध्यारागोऽगलत्तत्स्थानात्प्रच्युतः ।
 
क्षयमिति । संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् । तदिति । तस्याः स्वसानिध्यात्सखी-
टिप्प० -
[^
1]F. भ्रान्तोऽत्र टीकाकृत् । अम्बरम् ( कर्तृ) तारागणम् अम्भः- सीकरमिनावाऽधारयदित्युत्प्रेक्षा ।
 
पाठा० -[^]G. विप्रकीर्यमाण, .
[^
]G. दिग्देवतार्चनबलिसिक्थकम् .
[^
]G. दिनावसाने .
[^
]G. मुनिभिः; मुदितैस्तपो-
धनैः
[^
]G. प्रोषिते च सवितरि.
[^
]G. यज्ञोपवीता.
[^
]G. अक्षमालावलयम्.
[^
रवि. ]G. रवि.
[^
]G. दिनकरे; दिवाकरे पतन;
तरपतन.
तत्पतन.
[^
१० पन]G. पवनवेगोत्थितम् ; पतङ्गवेगोत्थितम् ; पतनवेगोत्थितम्.
[^
११]G. अम्बरतलम्.
[^
१२]G. सतारम्.
[^
१३]G. प्रक्षा-
ल्यमानः,
[^
१४]G. उपागतायां च संभ्यायाम्; उपगतायां च संध्यायाम.
 
म्.
१४ का०