2023-11-13 08:26:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

रात्रिवर्णनम् ]
 
पूर्वभागः ।
 
१०५
 
वेदि [^१]विकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाण [^२]दिग्देवता बलिसिक्थमा-
श्रमपदमभवत् । काक्वापि विहृत्य [^३]दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्त-
माना संध्या [^४]तपोधनैरदृश्यत । अचिरैर [^५]प्रोषिते सवितरि शोकविधुरा कमलमुकुलकमण्डलु-
धरणी हंसतिसितदुकूल- परिधाना मृणालघवलयै [^६]यज्ञोपवीतिनी मधुकरमण्डलाक्षवलय- मुइँ [^७]द्वहन्ती
कमलिनी [^८]दिर्नपतिसमागमत्व्रतमिवाचरत् । अपरसागराम्भसि पतिते [^९]दिवेसकरे वेगोत्थित-
[^१०]मम्भः- सीकर निकरमिव तारा [^११]गणमम्बरमधारयत् । अचिराञ्च्च सिद्धकम्न्यकाविक्षिप्तसंध्यार्चनकु-
सुमशलमिव तौ[^१२]तारकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनोर्ध्वविप्रकीर्णैः प्रणामाञ्ज-

लिसलिलै : क्षौ[^१३]क्षल्यमान इवागलदखिल: संध्यारागः ।
 

 
क्षय भु[^१४]मुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव-

 
[ टि ]--
अग्भिनिवेद्या॑ांयां वह्निस्थापनचतुरस्रभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुशा नीलदर्भा यस्मिन् । ऋषीति ।
ऋषि- कुमारिका भिर्मुनिपुत्रीभिरितस्ततो विक्षिप्यमाणानि समन्ताद्विकीर्य- माणानि दिग्देवतानां बलिसि-
F
क्थानि बलिसंबन्धिसिद्धान्जानानि यस्मिं- स्तत्तथा । पुनरवस्थान्तरमाह -क्कावापीति । काक्वापि कुत्रचित्प्रदेशे

विहृत्य पर्यटनं कृत्वा दिवसावसाने दिनपर्यन्ते कपिला तपोवन- धेनुरिव 'लोहिततारका परिवर्तमाना तपोधनैः
मुनिभिः संध्यादृश्यतालोक्यत । गौरपि कपिलखात्वाल्लोहिततारका रक्त- कनीनिका । संध्या तु लोहिततारका

रक्तनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्तत्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलि-

•नी सूर्ययोर्नायिका नायकत्वेन तौ वर्णयन्नाह

– अचिरेति । अचिरप्रोषिते तत्कालीन प्रोषिते गते सवितरि

श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थं स्वकीयनायकस्यागमन हेतोव्रतं

नियम विशेष माचरदिवाकरोदिव । कमलेति । संकुचित मुख साम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव

दधातीत्येवंशीला सा तथा । हंसेति । श्वेतसाम्याद्धंसा एव सितदुकूलानि परिधानमघोंशुकं यस्याः सा

तथा । मृणालेति । श्वेततन्तुसारूप्यान्मृणालान्येव धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा ।

मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका

तदुद्वहन्ती धारयन्ती । अपरामवस्थां वर्णयन्नाह

- अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानी ये पतिते

दिवसकरे सूर्ये वेगेन रभसोत्थितं प्रादुर्भूतमम्भःसीकरनिकरं पानीयपृषत्समूहं तारागणमिव नक्षत्रवृन्दमिवा

म्बरमाकाशमधारयद्दधार । अतिश्वेतरूपत्वसाम्यात्ताराजलबिन्द्वो रुपमानोपमेयभावः । अचिराञ्चेति । अचि-

रात् स्वल्पकालेन सिद्धा विद्या सिद्धास्तेषां कन्यकाः पुत्र्यस्ता भिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुसुमानि

सायंकालीन पूजार्थमानीतानि पुष्पाणि तैः शबलमिव कर्बुरमिव तारकितम् । 'तारकादिभ्य इतच्' । संजा-

•ततारकोदयं वियदाकाशमराजताशोभत । अतीतसंध्यावस्थां प्रकटयन्नाह - क्षणेनेति । क्षणेन सपद्येव ।

च समुच्चये । उन्मुखेनोर्ध्वमुखेन मुनिजनेन तापसजनेनोर्ध्व विप्रकीर्णैरूर्ध्वं विक्षितैः प्रणामाञ्जलिसलिलैर्नमस्क-

तिसमयाअलिपानीयैः ः क्षाल्यमान इव प्रक्षाल्यमानोऽखिलः समग्रोऽपि संध्यारागोऽगलत्तत्स्थानात्प्रच्युतः ।
 

 
क्षयमिति । संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् । तदिति । तस्याः स्वसानिध्यात्सखी-

टिप्प० - 1 भ्रान्तोऽत्र टीकाकृत् । अम्बरम् ( कर्तृ) तारागणम् अम्भः सीकरमिनाऽधारयदित्युत्प्रेक्षा ।
 

 
पाठा० -१ विप्रकीर्यमाण, २ दिग्देवतार्चनबलिसिक्थकम् ३ दिनावसाने ४ मुनिभिः; मुदितैस्तपो-

धनैः ५ प्रोषिते च सवितरि. ६ यज्ञोपवीता. ७ अक्षमालावलयम्. ८ रवि. ९ दिनकरे; दिवाकरे पतन;

तरपतन. १० पननवेगोत्थितम् ; पतङ्गवेगोत्थितम् ; पतनवेगोत्थितम्. ११ अम्बरतलम्. १२ सतारम्. १३ मक्षा-

बयमानः, १४ उपागतायां च संभ्यायाम्। उपगतायां च संध्यायाम.
 

 
१४ का०