2023-11-13 07:47:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१०४
 
कादम्बरी ।
 
[ कथामुखे-

 
जत् । उद्यत्सप्तर्षि [^१]सार्थस्पर्शपरिजिहीर्ष [^२]येवं संहृतपादः पाराव [^३]तपादपाटलरागो रविरम्बरतला-
दे
[^४]दवालम्बत । आलोहितांशुजालं जलशयनमैथ् [^५]मध्यगतस्य [^६]मधुरिपो- र्विगलन्मधुधारमिव [^७]नाभिन -
लिनं प्रतिमागतमपरार्णवे सूर्य- मण्डलम [^८]लक्ष्यत । विहाया [^९]म्बरतल [^१०]मुन्मुच्य च कमलिनी [^११]वनानि
शकुनय इव दिवसावसाने तै[^१२]तरु- शिखरेषु पर्वतात्ग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलमै [^१३]लग्न- लो-
हितातपच्छेदा मुनिभिरैराल [^१४]राल [^१५]म्बितलोहितवल्कला इव तै[^१६]तरवः क्षण [^१७]मदृश्यन्त । अस्तमुपगते च
भगवति सहस्र- दीधितावपरार् [^१८]वतला [^१९]दुल्लसन्ती विद्रुमलतेव पौ[^२०]पाटला संध्या समदृश्यत । यस्या-
माबध्यमानध्यानम्, एक- देशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतरातिमै [^२१]मनोहरम्, अॅ[^२२]अग्नि-

 
[ टि ]--
आतप आलोको यस्य स तथा तनिमानं तनोर्भावस्तनिमा तमभजत् । क्षीणत्वं प्रापेत्यर्थः । उद्यदिति । उद्य-
दुदयं प्राप्नुवन्यः सप्तर्षिसार्थः सप्तर्षिसमूहस्तेन यः स्पर्शः संबन्धस्तस्य या परिजि- हीर्षा परिहर्तुमिच्छा तया संहृताः
संकोचिताः [^1]पादा येन स तथा । पारावत इति । पारावतः कलरवस्तस्य पादौ चरणौ तद्वत्पाटलः श्वेतरक्तो
रागो यस्मिन्नवंविधो रविः सूर्यः । अम्बरतलादित्यवधौ पञ्चमी । अवालम्बताललम्बे । तदनन्तरमालोहितां-
शुजालमीष- द्रक्तकिरणसमूहं सूर्यमण्डलं रविबिम्बमलक्ष्यतैक्ष्यत । कमिव । अपरेति । अपरार्णवे पश्चिमसमुद्रे
प्रतिमागतं [^2]स्वमूर्तिरूपेणा- गतं बहिर्निःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभि- नलिन मिव नाभिपद्म-
मिव । तदेव विशिनष्टि—विगलदिति । विगलन्ती स्रवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विहा
-
येति । अम्बरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्युन्मुच्य च शकुनय इव पतत्रिण
इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु पर्वतात्रेषु च रविकिरणाः सूर्य- रश्मयः स्थितिमवस्थानमकुर्वत
कृतवन्तः । तत्कालीनतरुशोभा- माह - आलग्नेति । आलग्नेषत्संबन्धं प्राप्ता लोहितातपस्य रक्तालोकस्य
मध्ये मध्ये छेदा रचनाविशेषा येषां ते तथा । अत एव 'भक्तिच्छेदैरिव विरचितां भूमिमङ्गे गजस्य' इति ।
मुनिभिस्तपस्वि- भिरालेम्बिता आश्रिता अत एव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावालो-
क्यन्त । संध्यावस्थां प्रदर्शयन्नाह – अस्तेति । अस्तमुपगतेऽदृश्यतां प्राप्ते भगवति सहस्रदीधितावपरा
-
परार्ण
वतलात्पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवल्लीव पाटला श्वेतरक्ता संध्या सायं-
कालः समदृश्यत समालोक्यत । यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदम- भवत् । बभूवेत्यर्थः ।
कीदृशम् । आबध्येति । आबध्यमानं क्रिय- माणं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । अनस्तं गत एव सूर्ये
संध्या- वन्दनार्घयोरुक्तत्वाद्ध्यानग्रहणम् । एकेति । एकदेश एकस्मिन्प्र- देशे दुह्यमाना या होमधेनवो होमार्
थं गावस्तासां दुग्धधारा पयःश्रेणी तत्र यद्ध्वनितं शब्दितं तेन धन्यतरं सदतिमनोहरमतिचारु । अग्नीति ।
 
-
 
2
 
टिप्प० -

 
[^
1]F. पाद ( किरण ) द्वारा पूज्यानामृषीणां स्पर्शजनितोऽपराधो माऽस्त्विति हेतुना उपसं-
हृतपादः ( किरणः ) सूर्योऽम्बरादलम्ब- तेत्युत्प्रेक्षा । किरण-चरणयोर्भेदेऽपि 'पाद' शब्दश्लेषेणाऽभेदाध्य-

वसायादतिशयोक्तिः । पारावतपादवत् पाटलो रागो यस्येत्युपमा च । जगद्वन्द्यस्य रवेः कान्तौ पाराव-
तपादसादृश्य कल्पनादुपमाऽनौ- चित्यं तु न शङ्कनीयम्, सायं तेजोविरहितरक्तिमसादृश्येन रवेर्मन्द- प्रभता-
तिशयव्यञ्जनात् ।
[^
2]F. प्रतिबिम्बरूपेण पतितं सूर्यमण्डलं मधुरिपोर्नाभिपद्म- मिवाऽऽलक्ष्यतेत्यर्थः ।

[^
3]F. आलमाग्ना: कोहितातपच्छेदा येषु ईदृशा आश्रमतरवः, मुनि-
भिरालम्बितानि उपरिस्थापितानि लोहित-
ल्कलानि येषु ईदृशा इव अलक्ष्यन्तेत्युत्प्रेक्षा ।
 
पाठा० -

 
[^
]G. सार्थपरि.
[^
]G. एव.

[^३]G. चरण.
[^४]G. अलम्बत.
[^५]G. शयनगतस्य.
[^६]G. मधुमिदः.
[^७]G.नलिनम्.
[^
]G. आलक्ष्यत; अवैक्ष्यत; अद्रक्ष्यत.
[^
]G. धरणितलम्; धरातलम्.

[^१०]G. उन्मुच्य कमलिनी.
[^११]G. वनानि च.
[^
१२]G. तपोवनतरु.

[^
१३]G. रक्तातप; रक्तात पगभस्ति.
मस्ति.
[^१४]G. आलम्बिताः.
[^१५]G. आलोहित.
[^१६]G. आश्रमतरवः.
[^
१७]G. अशोभन्त; अलक्ष्यन्त.
,

[^
१८]G. तटात्.

[^
१९]G. उपसर्पन्ती.

[^२०]G. आपाटला.
[^२१]G. ध्वनित
मनोहरम्. ; ध्वनिमनोहरम्.
[^
२२]G. अग्निहोत्रवेदी.
 
३ चरण. ४ अलम्बत. ५ शयनगतस्य.
. मधुमिदः ७ नलिनम्.
१० उन्मुच्य कमलिनी.
११ वनानि च.
१४ आलम्बिताः. १५ आलोहित. १६ आश्रमतरवः•
२० आपाटला. २१ ध्वनितमनोहरम् ; ध्वनि-