This page has not been fully proofread.

१०४
 
कादम्बरी ।
 
[ कथामुखे-

 
जत् । उद्यत्सप्तर्षि सार्थस्पर्शपरिजिहीर्षयेवं संहृतपादः पारावतपादपाटलरागो रविरम्बरतला-
देवालम्बत । आलोहितांशुजाल जलशयनमैथ्यगतस्य मधुरिपोर्विगलन्मधुधारमिव नाभिन -
लिनं प्रतिमागतमपराणवे सूर्यमण्डलमलक्ष्यत । विहायाम्बरतलमुमुच्य च कमलिनीवनानि
शकुनय इव दिवसावसाने तैरुशिखरेषु पर्वतात्रेषु च रविकिरणाः स्थितिमकुर्वत । आलमैलो-
हितातपच्छेदा मुनिभिरैरालम्बितलोहितवल्कला इव तैरवः क्षणमदृश्यन्त । अस्तमुपगते च
भगवति सहस्रदीधितावपराणवतलादुल्लसन्ती विद्रुमलतेव पौटला संध्या समदृश्यत । यस्या-
माबध्यमानध्यानम्, एकदेशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतरातिमैनोहरम्, अॅग्नि-
आतप आलोको यस्य स तथा तनिमानं तनोर्भावस्तनिमा तमभजत् । क्षीणत्वं प्रापेत्यर्थः । उद्यदिति । उद्य-
दुदयं प्राप्नुवन्यः सप्तर्षिसार्थः सप्तर्षिसमूहस्तेन यः स्पर्शः संबन्धस्तस्य या परिजिहीर्षा परिहर्तुमिच्छा तया संहृताः
संकोचिताः पादा येन स तथा । पारावत इति । पारावतः कलरवस्तस्य पादौ चरणौ तद्वत्पाटलः श्वेतरक्तो
रागो यस्मिन्नवंविधो रविः सूर्यः । अम्बरतलादित्यवधौ पञ्चमी । अवालम्बताललम्बे । तदनन्तरमालोहितां-
शुजालमीषद्रक्तकिरणसमूहं सूर्यमण्डलं रविबिम्बमलक्ष्यतैक्ष्यत । कमिव । अपरेति । अपरार्णवे पश्चिमसमुद्रे
प्रतिमागतं स्वमूर्तिरूपेणागतं बहिर्निःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभिनलिनमिव नाभिपद्म-
मिव । तदेव विशिनष्टि—विगलदिति । विगलन्ती स्रवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विहा
येति । अम्बरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्युन्मुच्य च शकुनय इव पतत्रिण
इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु पर्वतात्रेषु च रविकिरणाः सूर्यरश्मयः स्थितिमवस्थानमकुर्वत
कृतवन्तः । तत्कालीनतरुशोभामाह - आलग्नेति । आलग्नेषत्संबन्धं प्राप्ता लोहितातपस्य रक्तालोकस्य
मध्ये मध्ये छेदा रचनाविशेषा येषां ते तथा । अत एव 'भक्तिच्छेदैरिव विरचितां भूमिमङ्गे गजस्य' इति ।
मुनिभिस्तपस्विभिरालेम्बिता आश्रिता अत एव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावालो-
क्यन्त । संध्यावस्थां प्रदर्शयन्नाह – अस्तेति । अस्तमुपगतेऽदृश्यतां प्राप्ते भगवति सहस्रदीधितावपरा
वतलात्पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवल्लीव पाटला श्वेतरक्ता संध्या सायं-
कालः समदृश्यत समालोक्यत । यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदमभवत् । बभूवेत्यर्थः ।
कीदृशम् । आबध्येति । आबध्यमानं क्रियमाणं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । अनस्तं गत एव सूर्ये
संध्यावन्दनार्घयोरुक्तत्वाद्ध्यानग्रहणम् । एकेति । एकदेश एकस्मिन्प्रदेशे दुयमाना या होमधेनवो होमार्थ
गावस्तासां दुग्धधारा पयःश्रेणी तत्र यजनितं शब्दितं तेन धन्यतरं सदतिमनोहरमतिचारु । अग्नीति ।
 
-
 
2
 
टिप्प० - 1 पाद ( किरण ) द्वारा पूज्यानामृषीणां स्पर्शजनितोऽपराधो माऽस्त्विति हेतुना उपसं-
हृतपादः ( किरणः ) सूर्योऽम्बरादलम्बतेत्युत्प्रेक्षा । किरण-चरणयोर्भेदेऽपि 'पाद' शब्दश्लेषेणाऽभेदाध्य-
वसायादतिशयोक्तिः । पारावतपादवत् पाटलो रागो यस्येत्युपमा च । जगद्वन्द्यस्य रवेः कान्तौ पाराव-
तपादसादृश्य कल्पनादुपमाऽनौचित्यं तु न शङ्कनीयम्, सायं तेजोविरहितरक्तिमसाइयेन रवेर्मन्दप्रभता-
अतिशयव्यञ्जनात् । 2 प्रतिबिम्बरूपेण पतितं सूर्यमण्डलं मधुरिपोर्नाभिपद्ममिवाऽऽलक्ष्यतेत्यर्थः ।
3 आलमा: कोहितातपच्छेदा येषु ईदृशा आश्रमतरवः, मुनिभिरालम्बितानि उपरिस्थापितानि लोहित-
चल्कलानि येषु ईदृशा इव अलक्ष्यन्तेत्युत्प्रेक्षा ।
 
पाठा० - १ सार्थपरि. २ एव.
८ आलक्ष्यत; अवैक्ष्यत; अद्रक्ष्यत. ९ धरणितलम्; धरातलम्.
१२ तपोवनतरु.
१३ रक्तातप; रक्तात पगभस्ति.
१७ अशोभन्त; अलक्ष्यन्त.
,
१८ तटात्.
१९ उपसर्पन्ती.
मनोहरम्. २२ अग्निहोत्रवेदी.
 
३ चरण. ४ अलम्बत. ५ शयनगतस्य.
. मधुमिदः ७ नलिनम्.
१० उन्मुच्य कमलिनी.
११ वनानि च.
१४ आलम्बिताः. १५ आलोहित. १६ आश्रमतरवः•
२० आपाटला. २१ ध्वनितमनोहरम् ; ध्वनि-