2023-11-13 07:21:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

समये भवतां पुनः [^१]कृतमूलफलाशनानां विस्रब्धोपविष्टाना- मादितः प्रभृति सर्व [^२]मावेदयिष्यामि योऽयम्, [^३]यच्चानेन कृतमपरस्मिजन्मनि, इह [^४]च लोके यथास्य संभूतिः । अर्थ च
तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो [^५]जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिधदेवोत्थाय सह [^६]मुनिभिः [^७]स्नानादिक- मुचितदिवसव्यापारमकरोत् ।
 
[^८]अनेन च समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेना-
र्घविधिमुपपादयता यः क्षितितले [^९]दत्तस्त [^१०]मम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्कबिम्ब- विनिहि [^११]तदृष्टिभि [^१२]रूष्मपैस्तपोधनैरिव परिपीयमान- तेजःप्रसरो [^१३]विरलातपस्तनिमानमभ-
 
[ टि ]-- दिवसव्यापारं दिनकृत्यमाचरन्तु समाचरन्तु । अपराह्णे ति । अपराह्णसमये द्विप्रहरानन्तरसमये भवत युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विस्रब्धेति । विस्रब्धं [^1]सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् । आदित इति । आदितः प्रारम्भतः प्रभृति सर्वं वृत्तान्तमावेदयिष्यामि । निवेदयिष्यामि । योऽयमिति । यश्चायं पूर्वजन्मन्यासीत् । यच्चानेनापरस्मिजन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभूतिरुत्पत्तिः । अयं चेति । तावदादावयं शुक आहारेणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नियतेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परभववृत्तान्तं स्वप्नोपलब्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयीकरिष्यति । इतीति । इति पूर्वोक्तमभि-
दधदेव कथयन्नेवोत्थायोत्थानं कृत्वा । सहेति । सह समं मुनिभि- स्तपस्विभिरुचितं योग्यं दिवसव्यापारं स्नानादिकमकरोन्निर्ममे ।
 
अनेन चेति । अनेन समयेन मध्याह्नसमयकर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तूवर्णनमाह - स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्षसिद्धमुनिप्रत्यर्पितमूर्तिरूपेणैवोदवहदधारयत् । तं कम् । यः स्नानोत्थितेन मुनिजनेन तपस्विवर्गेणार्घविधिं रक्त-
चन्दनरक्तपुष्पादिना पूजाविधिमुपपादयता निष्पादयता क्षितितले दत्तोऽर्पितः । सूर्यायेति शेषः । सायंकाले सूर्यस्य रक्तत्वान्मुनि-
प्रदत्तो रागः किमनेन साक्षादिव गृहीत इत्युत्प्रेक्षा ऊर्ध्वमुखैरिति । ऊर्ध्वमुखैरुर्ध्वाननैः । अर्केति । अर्कबिम्बे सूर्यबिम्बे विनिहिता स्थापिता दृष्टियैस्ते तथा तैरूष्मपैरूष्मा वह्निज्वाला [^2]तस्यानु- कारिभिस्तपोधनैरिव परिपीयमान आस्वाद्यमानस्तेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः स्वल्प
 
टिप्प० – [^1]F. विश्वस्ततया, सुस्थभावेन उपविष्टानामित्यर्थः ।
[^
2]F. सायंकाले मन्दातपः सूर्यो यस्कुत्कशतां
भजते रात्र हेतुरुत्प्रेक्ष्यते - सूर्यनिहितदृष्टिभिः सूर्योत्तापपायिभिर्मुनिभिः समग्रं दिनं यावत् स ऊष्मा
पीतः, अत एव लासायं रविस्तबुनुतामभजदिति । टीकार्थस्तु भ्रमात्मक एव ।
 
पाठा०- •[^]G. कृतफलमूलाशनानाम्.
[^
]G. आवेदयिष्यामः .
[^
]G. कृतमनेन.
[^
]G. लोके च यथा; लोके यथा.
[^]G. जन्मान्तरवृत्तम्.
[^]G. तैर्मुनिमिः.
[^
खा]G. स्नानादिकमुचितं दिवस; लास्नानादिकं दिवस.
[^
]G. अनेन समयेग.
न.
[^
]G. अधोदत्तः.
[^
१०]G. अम्बरतलम् ; अस्ताचल .
[^
११]G. निहित.
[^
१२]G. ऊष्मपैः.
[^
१३]G. विरलातपो दिवसः
 

 
0
 
.