2023-11-11 12:09:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

सन्ध्यावर्णनम् ]
 
पूर्वभागः ।
 
समये भवतां पुनः [^१]कृतमूलफलाशनानां विस्रब्धोपविष्टाना- मादितः प्रभृति सर्वभा [^२]मावेदवि-
ध्
यिष्यामि योऽयम्, [^३]यच्चानेन कृतमपरस्मिजन्मनि, इह [^४]च लोके यथास्य संभूतिः । अर्थ च

तावदपगतकुक्लमः क्रियतामाहारेण । नियतमयमध्प्यात्मनो [^५]जन्मान्तरोदन्तं स्वप्नोपलब्धमिव
मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिधदेवोत्थाय सह [^६]मुनिभिः [^७]स्नानादिक- मुचि-
तदिवसव्यापारमकरोत् ।
 

 
[^८]
अनेन च समयेन परिणतो दिवसः । स्नानोत्थितेन मुनिजनेनार्ध-
र्घ
विधिमुपपादयता यः
क्षितितले दत्तस्त[^९]दत्तस्त [^१०]मम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्क-
'
बिम्ब- विनिहितै [^११]तदृष्टिभि [^१२]रूष्मपैस्तपोधनैरिव परिपीयमान- तेजःप्रसरो [^१३]विरलातपस्त निमानमभ-

 
[ टि ]--
दिवसव्यापारं दिनकृत्यमाचरन्तु समाचरन्तु । अपराह्वेणे ति । अपराह्समये द्विप्रहरानन्तरसमये भवता
युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् ।
विन्
विस्रब्धेति । विस्रब्धं [^1]सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् । आदित इति । आदितः प्रारम्भतः
प्रभृति सर्वं वृत्तान्तमावेदयिष्यामि । निवेदयिष्यामि । योऽयमिति । यश्चायं पूर्वजन्मन्यासीत् । यच्चानेना-
परस्मिजन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभूतिरुत्पत्तिः । अयं चेति ।
तावदादावर्यं शुक आहारेणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नियतेति । नियतं
निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परभववृत्तान्तं स्वप्नोपलब्धमिव
स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयीकरिष्यति । इतीति । इति पूर्वोक्तमभि-

दधदेव कथयन्नेवोत्थायोत्थानं कृत्वा । सहेति । सह समं मुनिभि- स्तपस्विभिरुचितं योग्यं दिवसव्यापारं स्नाना-
'
दिकमकरोन्निर्ममे ।
 

 
अनेन चेति । अनेन समयेन मध्याह्नसमयकर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे
सूर्यस्य रक्तत्वात्तूवर्णनमाह - स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्य-
क्षसिद्धमुनिप्रत्यर्पितमूर्तिरूपेणैवोद वहदधारयत् । तं कम् । यः स्नानोत्थितेन मुनिजनेन तपस्विवर्गेणार्विधिं रक्त
-
चन्दनरक्तपुष्पादिना पूजाविधिमुपपादयता निष्पादयता क्षितितले दत्तोऽर्पितः । सूर्यायेति शेषः । सायंकाले सूर्यस्य
रक्तत्वान्मुनि-
प्रदत्तो रागः किमनेन साक्षादिव गृहीत इत्युत्प्रेक्षा ऊज्र्ध्वमुखैरिति । ऊर्ध्वमुखैरुर्ध्वाननैः ।
अर्कैकेति । अर्कबिम्बे सूर्यबिम्बे विनिहिता स्थापिता दृष्टियैस्ते तथा तैरूष्मपैरूष्मा वहिह्निज्वाला [^2]तस्यानु- कारिभिस्त-
पोधनैरिव परिपीयमान खास्वाद्यमानस्तेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः स्वल्प
 

 
टिप्प० – 1 विश्वस्ततया, सुस्थभावेन उपविष्टानामित्यर्थः । 2 सायंकाले मन्दातपः सूर्यो यस्कुशतां

भजते रात्र हेतुरुत्प्रेक्ष्यते - सूर्यनिहितदृष्टिभिः सूर्योत्तापपायिभिर्मुनिभिः समग्र दिनं यावत् स ऊष्मा

पीतः, अत एव लायं रविस्तबुतामभजदिति । टीकार्थस्तु अमात्मक एव ।
 

 
पाठा०- •१ कृतफलमूलाशनानाम्. २ आवेदयिष्यामः ३ कृतमनेन. ४ लोके च यथा; लोके यथा.

५ जन्मान्तरवृत्तम्.

६ तैर्मुनिमिः. ७ खानादिकमुचितं दिवस; लानादिकं दिवस. ८ अनेन समयेग.

९ अधोदत्तः. १० अम्बरतलम् ; अस्ताचल ११ निहित. १२ ऊष्मपैः. १३ विरलातपो दिवसः
 

 

 

 
0