कादम्बरी /135
This page has been fully proofread once and needs a second look.
करतलगतमिव जगद [^१]वलोकयति । [^२]वेत्ति जन्मान्तराण्य- तीतानि । कथयत्यागामिनमप्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः [^३]संख्यामावेदयति । [^४]सर्वैव [^५]स तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, क्व वा कृतः, [^६]जन्मान्तरे वा कोऽयमासीत्' इति [^७]कौतूहलिन्यभवत् । [^८]उपनाथितवती च तं भगवन्तम् ' आवेदय, प्रसीद भगवन्, कीदृशस्याविनयस्य फलमनेना- [^९]नुभूयते । कश्चायमासीज्जन्मान्तरे । विहग [^१०]जातौ वा
कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्प्रभवः' ।
इत्येव [^११]मुपयाच्यमानस्तपोधनपरिषदा स महामुनिः [^१२]प्रत्यवदत् - 'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेष- महः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति [^१३]देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व [^१४]एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न -
[ टि ]-- ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करतल- गतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति ।
अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि
ब्रवीति । ईक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य
संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वो-
क्तमिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी
कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयोऽपराधविशेषोऽनेन
शुक- शिशुना कृतो विहितः । किमर्थथं किंप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं
क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति । [^1]उपेपनाथितवती । 'नाथ याचने' इत्यस्य धातो
रूपम् । याचितवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह -
आवेदयेति । हे भगवन् आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्राय-
स्थप्रश्नाननुवदन्नाह-
कीदृशस्येति । कीदृशस्य किंरूपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत् ।
। विहगेति । विहगजातौ पक्षिजातौ कथंमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किम-
भिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति ।
हि भगवान्, सर्वेषां समग्राणामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।
2
इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभ- योपयाच्यमानः प्रार्थ्यमानः स महामुनिः
प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमति महदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः ।
अपेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आप्लवकालः प्रत्यासीदति
विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्ल-
विङ्घिता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं
टिप्प० - [^1]F. 'असकृदुपयाचितवती' इत्येव ग्रन्थाक्षराणि ।
[^१]G. आलोकयति.
[^२]G. वेत्ति च जन्मान्तराण्यपि.
[^३]G. प्रमाणम्.
पाठा० १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि.
[^४]G. यतः सर्वैव; ततः सर्वैव.
[^५]G. तापसपरिषत् ; सतापसपरिषत्.
[^६]G. जन्मान्तरे को.
तवती; उपेत्यार्थितवती.
४ यतः सर्वैव; ततः सर्वैव.
[^७]G. कुतूहलिनी.
[^८]G. असकृदुपयाचितवती; इत्युपनाथि..
तवती; उपेत्यार्थितवती.
[^९]G. भुज्यते . .
[^१०]G. जातौ कथम् ; जातौ च कथम्.
[^११]G. उपयाच्यमानस्तु; उपयाचितः.
[^१२]G. अवदत्.
[^१३]G. देवार्चनवेला.
[^१४]G. एव तावत्.
कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्प्रभवः' ।
इत्येव [^११]मुपयाच्यमानस्तपोधनपरिषदा स महामुनिः [^१२]प्रत्यवदत् - 'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेष- महः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति [^१३]देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व [^१४]एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न -
[ टि ]-- ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करतल- गतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति ।
स्थप्रश्नाननु
हि भगवान्, सर्वेषां समग्राणामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।
वि
[^१]G. आलोकयति.
[^२]G. वेत्ति च जन्मान्तराण्यपि.
[^३]G. प्रमाणम्.
पाठा० १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि.
[^५]G. तापसपरिषत् ; सतापसपरिषत्.
[^६]G. जन्मान्तरे को.
४ यतः सर्वैव; ततः सर्वैव.
[^८]G. असकृदुपयाचितवती; इत्युपनाथि
[^९]G. भुज्यते
[^१०]G. जातौ कथम् ; जातौ च कथम्.
[^११]G. उपयाच्यमानस्तु; उपयाचितः.
[^१२]G. अवदत्.
[^१३]G. देवार्चनवेला.
[^१४]G. एव तावत्.