2023-11-11 03:24:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१०२
 
कादम्बरी ।
 
[ कथामुखे-
करतलगतमिव जगद [^१]वलोकयति । [^२]वेत्ति जन्मान्तराण्य- तीतानि । कथयत्यागामिनमप्यर्थम् ।
ईक्षणगोचरगतानां च प्राणिनामायुषः [^३]संख्यामावेदयति । [^४]सर्वैव सो[^५]स तापसपरिषच्छ्रुत्वा
विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, क्व वा कृतः, [^६]जन्मान्तरे वा.
कोऽयमासीत्' इति [^७]कौतूहलिन्यभवत् । [^८]उपनाथितवती च तं भगवन्तम् ' आवेदय, प्रसीद
भगवन्, की दृशस्या विनयस्य फलमनेना- [^९]नुभूयते । कञ्श्चायमासीज्जन्मान्तरे । विहग [^१०]जातौ वा

कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां
भगवान्प्रभवः' ।
 
MERCATO NE
 

 
इत्येव [^११]मुपैयाच्यमानस्तपोधनपरिषदा स महामुनिः [^१२]प्रत्यवदत् - 'अतिमहदिमाश्चर्यमा-
ख्यातव्यम् । अल्पशेष- महः । प्रत्यासीदति च नः स्नानसमयः । भवतामध्प्यतिक्रामति [^१३]देवा-
चन
र्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व [^१४]एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न -
 

 
ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करतलगतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति ।

अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि

वीति । ईक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य

संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वो-

मिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी

कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयोऽपराधविशेषोऽनेन

शुकशिशुना कृतो विहितः । किमर्थ किंप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं

क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति । उपेनाथितवती । 'नाथ याचने' इत्यस्य धातो

रूपम् । याचितवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह -

आवेदयेति । हे भगवन् आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नाननुवदन्नाह-

कीदृशस्येति । कीदृशस्य किंरूपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत् ।

विहगेति । विहगजातौ पक्षिजातौ कथंमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किम-

भिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति ।

हि भगवान्, सर्वेषां समग्राणामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।
 

 
2
 

 
इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थ्यमानः स महामुनिः

प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमति महदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः ।

अपेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आप्लवकालः प्रत्यासीदति

विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्ल-

विता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं
 

 
टिप्प० - 1 'असकृदुपयाचितवती' इत्येव ग्रन्थाक्षराणि ।
 

 
३ प्रमाणम्.
 

 
पाठा० १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि.

५ तापसपरिषत् ; सतापसपरिषत्. ६ जन्मान्तरे को.

तवती; उपेत्यार्थितवती.
 

 
४ यतः सर्वैव; ततः सर्वैव.

७ कुतूहलिनी. ८ असकृदुपयाचितवती; इत्युपनाथि..
 

 
९ भुज्यते . १० जातौ कथम् ; जातौ च कथम्. ११ उपयाच्यमानस्तु; उपयाचितः.

१२ अवदत्. १३ देवार्चनवेला. १४ एव तावत्.