कादम्बरी /135
This page has not been fully proofread.
१०२
कादम्बरी ।
[ कथामुखे-
करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमप्यर्थम् ।
ईक्षणगोचरगतानां च प्राणिनामायुषः संख्यामावेदयति । सर्वैव सो तापसपरिषच्छ्रुत्वा
विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, क वा कृतः, जन्मान्तरे वा.
कोऽयमासीत्' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् ' आवेदय, प्रसीद
भगवन्, की दृशस्या विनयस्य फलमनेनानुभूयते । कञ्चायमासीज्जन्मान्तरे । विहगजातौ वा
कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां
भगवान्प्रभवः' ।
MERCATO NE
इत्येवमुपैयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रत्यवदत् - 'अतिमहदिमाश्चर्यमा-
ख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामध्यतिक्रामति देवा-
चन विधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न -
ज्ञानात्मकेन चक्षुषा दृष्ट्या सर्वमेव समग्रमेव जगत्करतलगतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति ।
अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि
वीति । ईक्षणेति । ईक्षणगोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य
संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वो-
मिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी
कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयोऽपराधविशेषोऽनेन
शुकशिशुना कृतो विहितः । किमर्थ किंप्रयोजनं वा कृतः । क्व वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं
क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति । उपेनाथितवती । 'नाथ याचने' इत्यस्य धातो
रूपम् । याचितवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह -
आवेदयेति । हे भगवन् आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नाननुवदन्नाह-
कीदृशस्येति । कीदृशस्य किंरूपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत् ।
विहगेति । विहगजातौ पक्षिजातौ कथंमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किम-
भिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति ।
हि भगवान्, सर्वेषां समग्राणामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।
2
इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थ्यमानः स महामुनिः
प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमति महदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः ।
अपेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माकं स्नानसमय आप्लवकालः प्रत्यासीदति
विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्ल-
विता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं
टिप्प० - 1 'असकृदुपयाचितवती' इत्येव ग्रन्थाक्षराणि ।
३ प्रमाणम्.
पाठा० १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि.
५ तापसपरिषत् ; सतापसपरिषत्. ६ जन्मान्तरे को.
तवती; उपेत्यार्थितवती.
४ यतः सर्वैव; ततः सर्वैव.
७ कुतूहलिनी. ८ असकृदुपयाचितवती; इत्युपनाथि..
९ भुज्यते . १० जातौ कथम् ; जातौ च कथम्. ११ उपयाच्यमानस्तु; उपयाचितः.
१२ अवदत्. १३ देवार्चनवेला. १४ एव तावत्.