2023-11-11 03:18:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

जनितक्लान्तिरुत्तप्तपांसुपटलमध्यगतो दूर [^१]निपतनविह्वल-
तनुरल्पावशेषायुरासादित [^२]स्तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः । तद्यावदयमप्ररूढपक्षतिरक्षमो [^३]ऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्माभिश्चोपनीतेन नीवारकणनिकरेण [^४]फलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथपरिपालनं हि [^५]धर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतल [^६]संचरणसमर्थो यास्यति यत्रा- [^७]स्मै रोचिष्यते । इहैव वो [^८]प [^९]जातपरिचयः स्थास्यति' इत्येवमादिक [^१०]मस्मत्संबद्धालापमाकर्ण्य किंचिदुपजात- [^११]कुतूहलो भगवाञ्जाबालिरीषदाबलितकंधरः पुण्यजलै: प्रक्षालयन्निव मामतिप्रशान्तया [^१२]दृष्ट्या दृष्ट्वा सुचिरमुप- [^१३]जातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते' इत्यवोचत् । स हि भगवा [^१४]न्कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव
 
[ टि ]-- उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूह- स्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्दविष्ठाद्यन्निपतनमधः संयोगफलिका क्रिया तेन विह्वला व्याकुला तनुर्देहो यस्य स तथा । अल्पेति । अल्पं
स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लब्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरारोहतया
दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मलीवृक्षस्य स्वनीडं स्वकुलाय- मारोपयितुं स्थापयितुं न शक्यते न
समर्थांथीभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीतोऽत्रानीतः । मयेति
पूर्वोक्तमेवेति न पुनरुच्यते। तद्यावदिति । तदिति हेत्वर्थे । यावत् यावत्कालम् । अमिति पूर्वोक्तः ।
अप्ररूढेति । अप्ररू-
ढाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्ष- माकाशमुत्पतितु-
मक्षमोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । कस्मिंश्चि
दिति । कस्मिंश्चित् अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिर-
स्माभिश्चोपनीतेन आनीतेन । नीवारेति । नीवारो वनव्रीहिस्तस्य कर्णानिकरेण सस्यसमूहेन फलरसेन
सस्यद्रवेण च संवर्ध्यमानो वृद्धिं प्राप्यमानो धारयतु दधातु जीवितं प्राणितम् । अनाथेत्यादि । हि
यस्माद्धेतोरस्मद्विधानां तपस्विनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः । तु पुनरर्थे । उद्भिन्नेति ।
उद्भिन्ना प्रकटीभूता पक्षतिर्यस्यैवंभूतः । गगनेति । गगनतलमाकाशतलं तत्र संचरणं गमनं तत्र समर्थः
क्षमः । यत्रेति । यत्र यस्मिन्देशेऽस्मै शुकशिशवे रोचिष्यते रुचिरभिलाष उत्पत्स्यते तत्र यास्यति गमिष्यति ।
रुच्यर्थानां धातुभिर्येगे चतुर्थी । इहैवेत्य- नास्थायाम् । उपजातपरिचयः संजातसंस्तवः स्थास्यव्त्यवस्थानं करि-
ष्यति । इत्येवमादिकमस्मत्संबद्धमिति मद्विषयकमालापं प्रश्नोत्तररूपमाकर्ण्य श्रुत्वा । किंचिदिति । किंचिदी-
षदुपजामुत्पन्नं कुतूहलमाश्चर्यं यस्य स तथा भगवान्माहात्म्यवान् जाबालिः जाबालिनामा मुनिः । ईषदिति ।
ईषत्किंचिदावलिता नमिता कंधरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् । पुण्येति । पुण्यजलैः पवि-
त्रपानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्ट्या दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य ।
उपेति । उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारकं ज्ञानं यस्य स तथा तद्वदिव पुनःपु
नर्वारंवारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्याशिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षा-
त्क्रियत इति तानवोचदब्रवीत् । कथं मुनिर्जानातीत्याशयेनाह-
स हीति । यतः । हि निश्चितम् । स भग-
वान् । कालेति । कालत्रय- स्याती तानागतवर्तमानलक्षणस्य दर्शी [^1]पश्येकः । तप इति । तपःप्रभावाद्दिव्येन
 
१ निपतित.
 
१०१
 
टिप्प० -

[^
1]F. 'दर्शकः' इत्युचितम् ।
 
पाठा० -
 
५ धर्मोऽस्ति.
 
६ संचलन. ७ चास्मै.
 
[^१]G. निपितत.
[^
]G. तपस्विदुरारोहतया तस्य.
[^
]G. अन्तरिक्ष.
[^
]G. विविधफलरसेन.
[^५]G. धर्मोऽस्ति.
[^६]G. संचलन.
[^७]G. चास्मै.
[^
]G. समुपजात.
[^]G. विस्रम्भः .
[^
१०]G. संबद्धमालापम्.
[^
११]G. कौतूहल:.
[^
१२]G. दृष्टया
सुचिर.
[^
१३]G. अभिजातप्रत्यभिशः ज्ञ:.
[^
१४]G. त्रिकाल.
 
9