This page has not been fully proofread.

शुकस्य खवृत्तान्तः ]
 
जनितष्ठान्ति रुत्तप्तपांसुपटलमध्यगतो दूरनिपेतनविह्वलतनुरल्पावशेषायुरासादितस्तपत्रिदुरा-
रोहतया च तस्य वनस्पतेर्न शक्यते खनीडमारोपयितु मिति जातदयेनानीतः । तद्यावदयम-
प्ररूठपक्षतिरक्षमो ऽन्तरिक्षमुत्पतितुं तावद्त्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्मा-
भिचोपनीतेन नीवारकणनिकरेण फैलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथप-
(रिपालनं हि धर्मोऽस्मद्वधानाम् । उद्भिन्नपक्षतिस्तु गगनतलसंचरणसमर्थो यास्यति यत्रास्मै
रोचिष्यते । इहैव वोर्पजातेपरिचयः स्थास्यति' इत्येवमादिकम स्मैत्संबद्धालापमाकर्ण्य किंचि-
दुपजात कुतूहलो भगवाजाबालिरीषदाबलितकंधरः पुण्यजलै : प्रक्षालयन्निव मामतिप्रशा-
न्तया दृष्ट्या दृष्ट्वा सुचिरमुपजातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलम-.
नेनानुभूयते' इत्यवोचत् । स हि भगवान्कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव
 
-
 
पूर्वभागः ।
 
उत्ततेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूहसस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्द-
विष्ठाद्यन्निपतनमधः संयोगफलिका क्रिया तेन विह्वला व्याकुला तनुर्देहो यस्य स तथा । अल्पेति । अल्पं
स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लब्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरारोहतया
दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मलीवृक्षस्य स्वनीडं स्वकुलायमारोपयितुं स्थापयितुं न शक्यते न
समर्थांभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीतोऽत्रानीतः । मयेति
पूर्वोत। तद्यावदिति । तदिति हेत्वर्थे । यावत् यावत्कालम् । अमिति पूर्वोक्तः ।
अप्ररूढेति । अप्ररूढाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्षमाकाशमुत्पतितु-
मक्षमोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । कस्मिंश्चि
दिति । कस्मिंश्चित् अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिर-
स्माभिश्चोपनीतेन आनीतेन । नीवारेति । नीवारो वनव्रीहिस्तस्य कर्णानिकरेण सस्यसमूहेन फलरसेन
सस्यद्रवेण च संवर्ध्यमानो वृद्धिं प्राप्यमानो धारयतु दधातु जीवितं प्राणितम् । अनाथेत्यादि । हि
यस्माद्धेतोरस्मद्विधानां तपस्विनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः । तु पुनरर्थे । उद्भिन्नेति ।
उद्भिन्ना प्रकटीभूता पक्षतिर्यस्यैवंभूतः । गगनेति । गगनतलमाकाशतलं तत्र संचरणं गमनं तत्र समर्थः
क्षमः । यत्रेति । यत्र यस्मिन्देशेऽस्मै शुकशिशवे रोचिष्यते रुचिरभिलाष उत्पत्स्यते तत्र यास्यति गमिष्यति ।
रुच्यर्थानां धातुभिर्येगे चतुर्थी । इहैवेत्यनास्थायाम् । उपजातपरिचयः संजातसंस्तवः स्थास्यव्यवस्थानं करि-
ष्यति । इत्येवमादिकमस्मत्संबद्धमिति मद्विषयकमालापं प्रश्नोत्तररूपमाकर्ण्य श्रुत्वा । किंचिदिति । किंचिदी-
षदुपजातमुत्पन्नं कुतूहलमाश्चर्य यस्य स तथा भगवान्माहात्म्यवान् जाबालिः जाबालिनामा मुनिः । ईषदिति ।
ईषत्किंचिदावलिता नमिता कंधरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् । पुण्येति । पुण्यजलैः पवि-
त्रपानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्ट्या दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य ।
उपेति । उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारकं ज्ञानं यस्य स तथा तद्वदिव पुनःपु
नर्वारंवारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्याशिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षा-
त्क्रियत इति तानवोचदब्रवीत् । कथं मुनिर्जानातीत्याशयेनाह-
इस हीति । यतः । हि निश्चितम् । स भग-
वान् । कालेति । कालत्रयस्याती तानागतवर्तमानलक्षणस्य दर्शी पश्येकः । तप इति । तपःप्रभावाद्दिव्येन
 
१ निपतित.
 
१०१
 
टिप्प० - 1 'दर्शकः' इत्युचितम् ।
 
पाठा० -
 
५ धर्मोऽस्ति.
 
६ संचलन. ७ चास्मै.
 
२ तपस्विदुरारोहतया तस्य. ३ अन्तरिक्ष. ४ विविधफलरसेन.
८ समुपजात.
९ विस्रम्भः १० संबद्धमालापम्. ११ कौतूहल:. १२ दृष्टया
सुचिर. १३ अभिजातप्रत्यभिशः १४ त्रिकाल.
 
9